पैप्पलाद-संहिता · अध्याय 16.38
यत्रयत्रासि निहिता
ततस् त्वोत्थापयामसि ।
पर्णाल् लघीयसी भव ॥
यदि स्थ तमसावृता
जालेनाभिहिता यूयम् ।
सर्वाः संलुप्येतः कृत्याः
पुनः कर्त्रे प्र हिण्मसि ॥
कृत्याकृतं मूलकृतम्
अभिनिष्कारिणः प्रजाम् ।
मृणीहि कृत्ये मोच् छिषो
अमुं कृत्याकृतं जहि ॥
यथा सूर्यस् तमसो मुच्यते परि
रात्रिं जहात्य् उषसश् च केतून् ।
एवाहं सर्वं दुर्भूतं
हस्तीव रजो दुरितं जहामि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0