पैप्पलाद-संहिता · अध्याय 16.37
उत् तिष्ठैव परेहीतो
अज्ञाते किम् इहेच्छसि ।
ग्रीवास् ते कृत्ये पादौ च-
-अपि कर्त्स्यामि निर् द्रव ॥
इन्द्राग्नी अस्मान् रक्षतां
यौ प्रजानां प्रजापती ।
सोमो राजाधिपा मृडिता च-
-ऋतस्य नः पतयो मृडयन्तु ॥
भवाशर्वाव् अस्यतां पापकृत्वने
कृत्याकृते दुष्कृते
विद्युतं देवहेतिम् ॥
यद्य् एयथ द्विपदी चतुष्पदी
कृत्याकृता संभृता विश्वरूपा ।
सेतो ऽष्टापदी भूत्वा
पुनः परेहि दुच्छुने ॥
अभ्यक्ताक्ता स्वरंकृता
सर्वं भरन्ती दुरितं परेहि ।
जानीहि कृत्ये कर्तारं
दुहितेव पितरं स्वम् ॥
परेहि कृत्ये मा तिष्ठो
विद्धस्येव पदं नय ।
मृगः स मृगयुस् त्वं
न त्वा निकर्तुम् अर्हति ॥
मर्त्यो मृत्युः स्वयंकृतं
यं चकाराचित्त्या ।
हस्ताभ्याम् आत्मने वधम् ॥
उत हन्ति पूर्वासिनं
प्रत्यादायापर इष्वा ।
उतो पूर्वस्य निघ्नतो
वि हन्त्य् अपरः प्रति ॥
एतद् धि शृणु मे वचो
अथेहि यत एयथ ।
यस् त्वा चकार तं पुनः ॥
अनागोहत्यं वै भीमं कृत्ये
मा नो गाम् अश्वं पुरुषं वधीः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0