भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.3

16.3.1

आ रभस्वेमाम् अमृतस्य श्नुष्टिम्
अच्छिद्यमाना जरदष्टिर् अस्तु ते ।
असुं त आयुः पुनर् आ भरामि
रजस् तमो मोप गा मा प्र मेष्ठाः ॥

16.3.2

जीवतां ज्योतिर् अभ्य् एहि लोकम्
आ त्वा हरामि शतशारदाय ।
द्राघीय आयुः प्रतरं ते कृणोम्य्
अव मुञ्चन्तु मृत्युपाशा अशस्तीः ॥

16.3.3

वातात् ते प्राणम् अविदं
सूर्याच् चक्षुर् अहं परि ।
यत् ते मनस् त्वयि तद् धारयामि
सं वित्स्वाङ्गैर् वद जिह्वयालपन् ॥

16.3.4

प्राणेन त्वां द्विपदां चतुष्पदाम्
अग्निम् इव जातम् अभि सं धमामि ।
नमस् ते मृत्यो चक्षुषे
नमः प्राणाय ते ऽकरम् ॥

16.3.5

अयं जीवतु मा मृत-
-इमं सम् ईरयामसि ।
कृणोम्य् अस्मै भेषजं
मृत्यो मा पुरुषं वधीः ॥

16.3.6

जीवलां नघारिषां
जीवन्तीम् ओषधीम् अहम् ।
त्रायमाणां सहमानां
सहस्वतीम् अरुन्धतीम्
इह हुवे ऽस्मा अरिष्टतातये ॥

16.3.7

अधि ब्रूहि मा रभथाः सृजेमं
तवैव सन्त् सर्वहाया इहास्तु ।
भवाशर्वौ मृडतं शर्म यच्छतम्
अपसिध्य दुरितं धत्तम् आयुः ॥

16.3.8

देवानां हेतिः परि त्वा वृणक्तु
पारयामि रजस उत् त्वा मृत्योर् अपीपरम् ।
आराद् अग्निं क्रव्यादं निरूहन्
जिवातवे ते परिधिं दधामि ॥

16.3.9

अस्मै मृत्यो अधि ब्रूहि -
-इमं दयस्वोद् इतो ऽयम् एतु ।
अरिष्टः सर्वाङ्गः सुश्रुज् जरसा
शतहायनात्मना भुजम् अश्नवत् ॥

16.3.10

यत् ते नियानं रजसं
मृत्यो अनवधरिष्यम् ।
पथ इमं तस्माद् रक्षन्तो
ब्रह्मास्मै वर्म कृण्मसि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc