भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.2

16.2.1

रक्षन्तु त्वाग्नयो ये अप्स्व् अन्ता
रक्षतु त्वा मनुष्या यम् इन्धते ।
वैश्वानरो रक्षतु जातवेदा
दिव्यस् त्वा मा प्र धाग् विद्युता सह ॥

16.2.2

रक्षतु त्वा पृथिवी रक्षतु द्यौस्
सूर्यश् च त्वा रक्षतां चन्द्रमाश् च ।
मा त्वा क्रव्याद् अभि मंस्त-
-आरात् संकसुकाच् चर ॥

16.2.3

अन्तरिक्षं रक्षतु देवहेत्या
बोधश् च त्वा प्रतीबोधश् च रक्षताम् ।
अस्वप्नश् च त्वानवद्राणश् च रक्षतां
गोपायंश् च त्वा रक्षतां जागृविश् च ॥

16.2.4

ते त्वा रक्षन्तु ते त्वा गोपायन्तु ते त्वांहसस् पान्तु ।
तेभ्यो नमस् तेभ्यः स्वाहा ॥

16.2.5

जीवेभ्यस् त्वा समुदे वायुर् इन्द्रो
धाता दधातु सविता त्रायमाणः ।
मा त्वा प्राणो बलं हासीद्
असुं ते ऽनु ह्वयामसि ॥

16.2.6

मा त्वा जम्भः संहनुर् मा तमो विदन्
मा जिह्वा बर्हिः प्रमयुः कथा स्याः ।
उत् त्वादित्या वसवो भरन्तु-
-उद् इन्द्राग्नी स्वस्तये ॥

16.2.7

अयं देवा इहैवास्त्व्
अयं मामुत्र गाद् इतः ।
इमं सहस्रवीर्येण
मृत्योर् उत् पारयामसि ॥

16.2.8

उत् त्वा मृत्योर् अपीपरं
सं धमन्तु वयोधसः ।
मा त्वा व्यस्तकेश्यो
मा त्वाघरुदो रुदन् ॥

16.2.9

आहार्षं त्वाविदं त्वा
पुनर् आगाः पुनर्णवः ।
सर्वाङ्ग सर्वं ते चक्षुः
सर्वम् आयुश् च ते ऽविदम् ॥

16.2.10

उत् त्वा द्यौर् उत् पृथिव्य्
उत् प्रजापतिर् अग्रभीत् ।
उत् त्वा मृत्योर् ओषधयः ।
सोमराज्ञीर् अपीपरन् ॥

16.2.11

यावत् ते ज्योतिर् अभूद्
अप त्वत् तमो अक्रमीत् ।
अप त्वन् मृत्युं निरृतिम्
अप यक्ष्मं नि दध्मसि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc