पैप्पलाद-संहिता · अध्याय 16.25
य इन्द्र इव देवेष्व्
एति गोषु विवावदत् ।
तस्य ऋषभस्याङ्गानि
ब्रह्मा सं स्तौतु भद्रया ॥
पार्श्वे आस्ताम् अनुमत्या
भगस्यास्ताम् अनूवृजौ ।
अष्ठीवन्ताव् अब्रवीन् मित्रो
ममैतौ केवलाव् इति ॥
भसद् आसीद् आदित्यानां
श्रोणी आस्तां बृहस्पतेः ।
पुच्छं वातस्य देवस्य
तेन धूनोत्य् ओषधीः ॥
क्रोड आसीज् जामिशंसस्य
सोमस्य कलशो धृतः ।
उत्थातुर् अब्रुवन् पदो
यद् ऋषभं व्यकल्पयन् ॥
गुदा आसन् सिनीवाल्याः
सूर्यायास् त्वचम् अब्रुवन् ।
देवाः संगत्य यत् सर्व
ऋषभं व्यकल्पयन् ॥
ते कुष्ठिकाः सरमायै
कूर्मेभ्यो अदधुः शफान् ।
ऊबध्यम् अस्य कीटेभ्यश्
श्ववर्तेभ्यो अधारयन् ॥
शृङ्गाभ्यां रक्ष ऋषत्य्
अरातिं हन्ति चक्षुषा ।
शृणोति भद्रं कर्णाभ्यां
गवां यः पतिर् अघ्न्यः ॥
शतयाजं स यजते
नैनं दुन्वन्त्य् अग्नयः ।
जिन्वन्ति सर्वे तं देवा
यो ब्राह्मण ऋषभम् आ जुहोति ॥
ब्राह्मणाय वृषभं दत्त्वा
वरीयः कृणुते मनः ।
पुष्टिं सो अघ्न्यानां
स्वे गोष्ठे वि पश्यतु ॥
गावः सन्तु प्रजाः सन्त्व्
अथो अस्तु तनूबलम् ।
सर्वं तद् अनु मन्यन्तां
देवा ऋषभदायिने ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0