पैप्पलाद-संहिता · अध्याय 16.148
यत् ते पृष्टिषु दौर्भाग्यं
जघने स्फिजोर् हितम् ।
(…) ॥
यत् त उरसि दौर्भाग्यं
पार्श्वयो स्तनयोर् हितम् ।
(…) ॥
यत् ते हृदये दौर्भाग्यं
नाभ्यां वक्षणा अनु ।
(…) ॥
यत् ते प्लीह्नि दौर्भाग्यं
यद् वा यकनि वृक्कयोः ।
(…) ॥
यत् ते गुदास्व् आन्त्रेषु
दौर्भाग्यम् उदरे हितम् ।
(…) ॥
यत् ते वस्तौ दौर्भाग्यं
वनिष्ठौ प्लाशाव् आहितम् ।
(…) ॥
यत् ते भंससि दौर्भाग्यं
यद् वा याशुषु मुष्कयोः ।
(…) ॥
यत् ते श्रोण्योर् दौर्भाग्यम्
अवचालूशयोर् हितम् ।
(…) ॥
यत् ते भसदि दौर्भाग्यम्
ऊर्वोर् जानुनोर् हितम् ।
(…) ॥
यत् ते जङ्घयोर् दौर्भाग्यं
स्थूरयोः पार्ष्ण्योर् हितम् ।
(…) ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0