भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.147

16.147.1

यत् ते शीर्षणि दौर्भाग्यं
सक्तं केशेषु निहितं ललाटे ।
अयं तद् विश्वभेषजो
अपामार्गो ऽप लुम्पतु ॥

16.147.2

यत् ते भ्रुवोर् दौर्भाग्यं
कर्णयोर् अक्ष्णोर् हितम् ।
(…) ॥

16.147.3

(यत्) ते मुखे नासिकायां
दौर्भाग्यं वाच्य् ओष्ठयोः ।
(…) ॥

16.147.4

यत् ते दत्सु दौर्भाग्यं
जिह्वायां छुबुके हितम् ।
(…) ॥

16.147.5

(यत्) ते मनसि संकल्पे
दौर्भाग्यं प्राण आहितम् ।
(…) ॥

16.147.6

यत् ते हन्वोर् दौर्भाग्यं
कण्ठे क्लोमसु विष्ठितम् ।
(…) ॥

16.147.7

यत् ते स्कन्धेषु ग्रीवासु
दौर्भाग्यं कीकसास्व् अनूक्ये ।
(…) ॥

16.147.8

यत् ते दोष्णोर् दौर्भाग्यम्
अंसयोर् उपपक्षयोः ।
(…) ॥

16.147.9

यत् ते बाह्वोर् दौर्भाग्यम्
अरत्न्योः कल्कुषीर् अनु ।
(…) ॥

16.147.10

यत् ते हस्तयोर् दौर्भाग्यं
पाण्योर् अङ्गुलीर् अनु ।
(…) ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc