पैप्पलाद-संहिता · अध्याय 16.145
तस्या आहननं कृत्या मेनिर् आशसनं वलग ऊबध्यम्
अस्वगता परिह्वृता ।
अग्निः क्रव्याद् भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥
सर्वास्याङ्गानि मूलानि वृश्चति
छिनत्त्य् अस्य पितृबन्धून् परा भावयति मातृबन्धून् ।
विवाहां ज्ञातीन् सर्वान् अपि क्षापयति ब्रह्मगवी क्षत्रियस्यापुनर्दीयमाना ॥
अवास्तुम् एनम् अस्वगम् अप्रजसं करोत्य्
अपरापरणो भवति क्षीयते ।
य एवं विदुषो ब्राह्मणस्य क्षत्रियो गाम् आदत्ते ॥
क्षिप्रं वै तस्याहनने
गृध्राः कुर्वत ऐलवम् ।
(…) तस्यादहनं
परि नृत्यन्ति केशिनीर्
आघ्नानाः पाणिनोरसि
कुर्वाणाः पापम् ऐलवम् ॥
(…) तस्य वास्तुषु
गङ्गणं कुर्वते वृकाः ।
क्षिप्रं वै तस्य पृच्छन्ति
यत् तद् आसीद् इदं नु तात् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0