पैप्पलाद-संहिता · अध्याय 16.144
वैरं विकृत्यमाना
पौत्राद्यं विभाज्यमाना
देवहेतिर् ह्रियमाणामतिर् हिता निरृतिर् निहिता ।
पाप्माधिधीयमाना
पारुष्यम् अवधीयमानाप्रजस्ताविहिता ॥
घर्मः पर्याधीयमाना
वैश्वानरः परिहिता
विषं प्रयस्यन्ती तक्मा प्रयस्ता ।
मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥
अघं पच्यमाना पराभूतिः पक्वा ।
सुगुध्रियमाणाशीविष उद्धृतासंज्ञा गन्धेन ॥
अभूतिर् उपह्रियमाणा पराभूतिर् उपहृता ।
शर्वः क्रुद्धः पिश्यमाना
शिमिदा पिशिता ॥
आर्तिर् अश्यमाना वीकर्तो अशिता ।
अशिता लोकाच् छिनत्ति ब्रह्मचारी ब्रह्मज्यम् अस्माच् चामुष्माच् च ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0