पैप्पलाद-संहिता · अध्याय 16.133
विराड् वा इदम् अग्रे ऽजायत
तस्या जाताया अबिभेत् सर्वम् ।
इयम् एवेदं भविष्यति न वयम् इति ॥
सोद् अक्रामत् सा दक्षिणाग्नौ न्य् अक्रामत् ।
यज्ञर्तो वासतेयो भवति य एवं वेद ॥
(…) सा गार्हपत्ये न्य् अक्रामत् ।
गृहमेधी गृहपतिर् भवति (…) ॥
(…) साहवनीये न्य् अक्रामत् ।
यन्त्य् अस्य देवा देवहूतिं प्रियो देवानां भवति (…) ॥
(…) सा सभायां नि (…) ।
यन्त्य् अस्य सभां सभ्यो भवति (…) ॥
(…) सा समितौ नि (…) ।
यन्त्य् अस्य समितिं सामित्यो भवति (…) ॥
(…) सामन्त्रणे न्य् अक्रामत् ।
यन्त्य् अस्यामन्त्रणम् आमन्त्रणीयो भवति य एवं वेद ॥
(…) सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्
तां देवमनुष्या अब्रुवन्न्
इयं तद् वेद यद् उभय उपजीवेम-
-इमाम् उप ह्वयामहा इति ताम् उपह्वायन्त ।
ऊर्ज एहि स्वध एहि सूनृत एहीरावत्य् एहीति ।
तस्या अग्निर् वत्स आसीद् गायत्र्य् अभिधान्य् अभ्रम् ऊधः ॥
तस्या बृहच् च रथन्तरं च द्वौ स्तनाव् आस्तां
यज्ञायज्ञियं च वामदेव्यं च द्वौ ।
ओषधीर् वै रथन्तरं
देवा अदुह्रन् व्यचो बृहद्
अपो वामदेव्यं यज्ञं यज्ञायज्ञियम् ॥
एते वै विराजः कामदुघ स्तनाः ।
कामंकामं विराजं दुहे य एवं वेद ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0