पैप्पलाद-संहिता · अध्याय 16.106
मा नो अश्वेषु गोषु पुरुषेषु
मा गृधो नो अजाविषु ।
अन्यत्रोग्र वि वर्तय
पियारूणां प्रजां जहि ॥
यस्य तक्मा कासिका हेतिर् एका-
-अश्वस्येव वृषणः क्रन्द एति ।
अभिपूर्वं निर्णयते
नमो अस्त्व् अस्मै ॥
यस् तिष्ठति विष्टभितो अन्तरिक्षे
ऽयज्वनः प्रमृणन् देवपीयून् ।
तस्मै नमो दशभिः शक्वरीभिः ॥
तुभ्यम् आरण्याः पशवो
मृगा वने हितास् तुभ्यं
वयांसि शकुनाः पतत्रिणः ।
तव यक्ष्मं पशुपते अप्स्व् अन्तस्
तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥
शिंशुमारा अजगराः
पुलीकया जषा मत्स्या
रजसा येभ्यो अस्यसि ।
न ते दूरं न परिष्ठ-
-अस्ति ते भव सद्यः
सर्वां परि पश्यसि भूमिम् ॥
पूर्वस्माद् धंस्य् उत्तरस्मिन् समुद्रे
मा नो रुद्र तक्मना न विषेण ।
मा नः सं स्रा दिव्येनाग्निना-
-अन्यत्रास्मद् विद्युतां पातयैताम् ॥
भवो दिवो भव ईशे पृथिव्या
भव आ पप्र उर्व् अन्तरिक्षम् ।
तस्य न प्रापद् दुच्छुना का चनेह ॥
भव राजन् यजमानाय मृड
पशूनां हि पशुपतिर् बभूथ ।
यः श्रद्दधाति सन्ति देवा इति
चतुष्पदे द्विपदे अस्य मृड ॥
मा नो महान्तम् उत मा नो अर्भकं
मा नः क्षियन्तम् उत मा नो अक्षितः ।
मा नो हिंसीः पितरं मोत मातरं
स्वां तन्वं रुद्र मा रीरिषो नः ॥
रुद्रस्यैलबकारेभ्यो
ऽसंसूक्तगिरेभ्यः ।
इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥
नमस् ते घोषिणीभ्यो
नमस् ते केशिनीभ्यः ।
नमः संयतीभ्यो
नमो नमस्वतीभ्यः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0