पैप्पलाद-संहिता · अध्याय 16.105
उरुः कोशो वसुधानस् तवायं
यस्मिन्न् इमा विश्वा भूतान्य् अन्तः ।
स नो मृड पशुपते नमस् ते
परः क्रोष्टारो अभिभाः श्वानः ।
परो यन्त्व् अघरुदो विकेश्यः ॥
धनुर् बिभर्षि हरितं हिरण्ययं
सहस्रघ्नि शतवधं शिखण्डिन् ।
रुद्रस्येषुश् चरति देवहेतिस्
तस्मै नमो यतमस्यां दिशीतः ॥
यो ऽभियातो निलयते
त्वाम् उग्र निचिकीर्षति ।
पश्चाद् अनुप्रयुङ्क्षे
तं विद्धस्य पदनीर् इव ॥
भवारुद्रौ सयुजा संविदानाव्
उभा उग्रौ चरतो वीर्याय ।
तयोर् भूमिर् अन्तरिक्षं स्वर् द्यौस्
ताभ्यां नमो भवमत्याय कृण्मः ॥
नमस् ते अस्त्व् आयते
नमो अस्तु परायते ।
नमस् ते रुद्र तिष्ठत
आसीनायोत ते नमः ॥
नमः सायं नमः प्रातर्
नमो रात्र्या नमो दिवा ।
भवाय च शर्वाय च-
-उभाभ्याम् अकरं नमः ॥
सहस्राक्षम् अतिपश्यं पुरस्ताद्
रुद्रम् अस्यन्तं बहुधा विपश्चितम् ।
मोपाराम जिह्वयेयमानम् ॥
श्यावास्वां कृष्णम् असितं मृणन्तं
भीमं रथं केशिनः पादयन्तम् ।
पूर्वे प्रतीमो नमो अस्त्व् अस्मै ॥
मा नो ऽभि स्रा मत्यं देवहेतिं
मा नः क्रुधः पशुपते नमस् ते ।
अन्यत्रास्मद् दिव्यां शाखां वि धूनु ॥
मा नो हिंसीर् अधि ब्रूहि
परि णो वृङ्धि मा क्रुध ।
मा त्वया सम् अरामहि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0