भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 15.13

15.13.1

अग्निं ब्रूमो वनस्पतीन्
ओषधीर् उत वीरुधः ।
इन्द्रं बृहस्पतिं सूर्यं
ते नो मुञ्चन्त्व् अंहसः ॥

15.13.2

ब्रूमो देवं सवितारं
धातारम् उत पूषणम् ।
त्वष्टारम् अग्र्यं ब्रूमस्
ते (…) ॥

15.13.3

ब्रूमो राजानं वरुणं
मित्रं विष्णुम् अथो भगम् ।
अंशं विवस्वन्तं ब्रूमस्
ते (…) ॥

15.13.4

गन्धर्वाप्सरसो ब्रूमो
अश्विना ब्रह्मणस्पतिम् ।
अर्यमा नाम यो देवस्
ते (…) ॥

15.13.5

वातं ब्रूमः पर्जन्यम्
अन्तरिक्षम् अथो दिशः ।
आशाश् च सर्वा ब्रूमस्
ते (…) ॥

15.13.6

अहोरात्रे इदं ब्रूम
सूर्याचन्द्रमसा उभा ।
आदित्यान् सर्वान् ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥

15.13.7

मुञ्चन्तु मा शपथ्याद्
अहोरात्रे अथो उषाः ।
सोमो मा दिव्यो मुञ्चतु
यम् आहुश् चन्द्रमा इति ॥

15.13.8

पञ्च राज्यानि वीरुधां
सोमश्रेष्ठानि ब्रूमसि ।
भङ्गो दर्भो यवः सहस्
ते नो मुञ्चन्त्व् अंहसः ॥

15.13.9

ये ग्राम्याः सप्त पशव
आरण्या उत ये मृगाः ।
शकुन्तान् पक्षिणो ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥

15.13.10

भवाशर्वाव् इदं ब्रूम
उग्रः पशुपतिश् च यः ।
इषूर् या एषां विद्मस्
ते नो मुञ्चन्त्व् अंहसः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc