भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 13.2

13.2.1

अन्तर्हिता देवतल्पाः पुरो मे
अन्तर्हिता जगती छन्दसां मे ।
(…) ॥

13.2.2

अन्तर्हिता मे समुद्रा द्वादशा
अन्तर्हिता उषसि तारका मे ।
(…) ॥

13.2.3

अन्तर्हिता अग्नयो धिष्ण्या मे
अन्तर्हिता ऋतव आर्तवा मे ।
(…) ॥

13.2.4

अन्तर्हिता मे प्रदिशश् चतस्रो
अन्तर् भूतम् उत भव्यं दधे ऽहम् ।
मैषां राध्य् अभिचार एष
प्रत्यग् एनान् प्रतिसरेण हन्मि ॥

13.2.5

हन्मि ते ऽहं कृतं हविर्
यो मे घोरम् अचीकृतः ।
अपाञ्चौ त उभौ बाहू
अपि नह्याम्य् आस्यम् ॥

13.2.6

अपि नह्यामि ते बाहू
अपि नह्याम्य् आस्यम् ।
अग्नेर् देवस्य मन्युना
तेन ते ऽवधिषं हविर्
यो मे घोरम् अचीकृतः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc