पैप्पलाद-संहिता · अध्याय 12.7
त्वया पूर्वम् आथर्वाणो
जघ्नू रक्षांस्य् ओषधे ।
त्वया जघान कश्यपस्
त्वया कृण्वो अगस्त्यः ॥
त्वया वयम् अप्सरसो
गन्धर्वांश् चातयामसि ।
अजशृङ्ग्य् अज रक्षः
सर्वान् गन्धेन नाशय ॥
नदीं यन्त्व् अप्सरसो
अपान्तारम् इव श्वसन् ।
गुल्गुलू पीला नलद्य्
औक्षगन्धिः प्रमन्दिनी ॥
यत्रामर्त्या अप्स्व् अन्तः
समुद्रे तुरूर् नीली तुर्वशी पुण्डरीका ।
तत् परेता अप्सरसः
प्रतिबुद्धा अभूतन ॥
यत्र प्रेङ्खो गन्धर्वाणां
दिवि बद्धो हिरण्ययः ।
(…) ॥
गन्धर्वाणाम् अप्सरसाम्
आनर्तम् इति सङ्गमम् ।
(…) ॥
यत्राश्वत्था न्यग्रोधा
महारुक्माः शिखण्डिनः ।
(…) ॥
यत्र वो ऽक्षा हरिता अर्जुना
आघाटाः ककर्यः संवदन्ति ।
तत् परेता अप्सरसः
प्रतिबुद्धा अभूतन ॥
इयं वीरुच्छिखण्डिनो
गन्धर्वस्याप्सरापतेः ।
भिनत्तु मुष्काव् अपि यातु शेफः ॥
एयम् अगन्न् ओषधिर्
वीरुधां वीर्यावती ।
अजशृङ्ग्य् अराटकी
तीक्ष्णशृङ्गी व्य् ऋषतु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0