पैप्पलाद-संहिता · अध्याय 12.6
असपत्नः सपत्नहा-
-इन्द्र इवारिष्टो अक्षितः ।
अधः सपत्नास् ते पदोः
सर्वे सन्त्व् अभिष्ठिताः ॥
म्लायन्तु ते खातमूलाः सपत्ना
अग्निम् एषां निर् ह्वयामि शरीरात् ।
हविषैषाम् अपि दधामि प्राणांस्
तथैभ्यो अमुचिः कृताः ॥
अभिवर्धम् अभिभवं
सपत्नक्षयणं हविः ।
राष्ट्राय तुभ्यं कृण्मः
सपत्नेभ्यः पराभवन् ॥
यो नः स्वो यो अरणो
ऽरातियति पूरुषः ।
इध्मस्येव प्रक्षायकस्
तस्य मोच्छेषि किं चन ॥
असपत्नम् इति द्वे ॥
(…) ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0