पैप्पलाद-संहिता · अध्याय 1.30
कामस् तद् अग्रे सम् अवर्तत
मनसो रेतः प्रथमं यद् आसीत् ।
स काम कामेन बृहता सयोनी
रायस्पोषं यजमानाय धेहि ॥
त्वं काम सहसासि प्रतिष्ठितो
विभुर् विभावा सुषखा सखीयते ।
त्वम् उग्रः पृतनासु सासहिः
सह ओजो यजमानाय धेहि ॥
दूराच् चकमानाय
प्रविपाणायाक्षये ।
आस्मा अशृण्वन्न् आशाः
कामेनाजनयन् स्वः ॥
कामेन मा काम आगन्
हृदयाद् धृदयं परि ।
यद् अमीषाम् अदो मनस्
तद् ऐतूप माम् इह ॥
यत् काम कामयमाना
इदं कृण्मसि ते हविः ।
तन् नः सर्वं सम् ऋध्यताम्
अथैतस्य हविषो वीहि स्वाहा ॥
क इदं कस्मा अदात् कामः कामायादात् ।
कामो दाता कामः प्रतिग्रहीता
कामः समुद्रम् आ विवेश ।
कामेन त्वा प्रति गृह्णामि कामैतत् ते ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0