भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.5

4.5.1

अथ नित्योत्सवविधिं कथयामि चतुर्मुख ।
सर्वदुःखहरं पुंसां सर्वभूत प्रहर्षणम्

4.5.2

राष्ट्रस्य राज्ञो ग्रमस्य यजमानस्य सद्मनः ।
सुखावहं शान्तिकरं पुण्यमायुर्विवर्धनम्

4.5.3

आवाह्य तण्डुले शुद्धे पार्श्वस्थे परमेश्वरम् ।
शक्तिभिर्दशभिर्द्वाभ्यां सह प्रातर्दिने दिने

4.5.4

परिक्रमेदायतनं मध्याह्ने त्वन्न कल्पिते ।
सायं कुसुमसङ्घाते त्रिसन्ध्यं त्रिषु कल्पयेत्

4.5.5

बिम्बेन वा परीयायात्त्रि सन्ध्य मनुवासरम् ।
अथवान्नेन मध्याह्ने कालेऽन्यत द्वये र्चना

4.5.6

त्रिसन्ध्य मथवान्नेन कुर्यान्नित्योत्सवं हरेः ।
मध्यन्दिने वा सर्वार्थं परिक्रम्य बलिं क्षिपेत्

4.5.7

यद्वोत्सवप्रतिकृते रन्वगग्रेऽथवा भवेत् ।
त्रिसन्ध्यं चामरं छत्रं वि तानध्वज संयुतम्

4.5.8

तण्डुलादिकमन्नं वा केवलं कमलासन ।
पञ्चावरणके धाम्नि पञ्चस्वावरणे ष्वपि

4.5.9

बलिं दत्वा पर्यटनं गेयवाद्य पुरस्सरम् ।
उत्सवं प्राहुरुत्कृष्टमेकोनं मध्यमं विदुः

4.5.10

द्व्यूनेऽधमं जघन्यं त्रिन्यूने क्षुद्रमथेतरे ।
बलिप्रदानेन विना नोत्सवोऽभ्युदयावहः

4.5.11

शुक्लाम्बरधरं सौम्यं शुक्लयज्ञोपवीतिनम् ।
सोत्तरीयं च सोष्णीषं स्वनुलिप्तमलङ्कृतम्

4.5.12

परिचारकमाहूय भावितं गरुढात्मना ।
तन्मूर्धनि च पात्रस्थे तण्डुलेऽन्ने प्रसूनके

4.5.13

देवमावाहयेन्मूल बेरादाराधक स्स्वयम् ।
इष्ट्वाच गन्धपुष्पाद्यैस्तत्र देवं यथाविधि

4.5.14

विष्ण्वादिमूर्तीश्चपुनः पूजयित्वा प्रदक्षिणम् ।
प्रागाद्येषु द्वादशनु पात्रस्थेषु दलेषु च

4.5.15

सूक्तं सर्वं स्वस्त्ययनं तथान्यच्चापि मङ्गलम् ।
पठन् पात्रं चबिभ्राणो व्रजेच्च परिचारकः

4.5.16

चण्डप्रचण्डुप्रमुखान् द्वारपालान् प्रपूजयेत् ।
घोषयेन्मल्लतालाद्यैर्बलिदान पुरस्सरम्

4.5.17

नृत्तं तु वैजयन्ती स्यादृषभं गेयमिष्यते ।
वितान धवलच्छत्र चामर व्यजनादि भिः

4.5.18

परिक्रमेत बल्यर्थं सर्वानावरणान् क्रमात् ।
पीठं प्रदक्षिणीकृत्य प्रविशेदालयं पुनः

4.5.19

तंतु प्रदक्षिणीकृत्य प्रविशेद्गर्भमन्दिरम् ।
दत्वार्घ्यां मूलमन्त्रेण मूलबेरे समुत्सृजेत्

4.5.20

बलिशेषं क्षिपेत्किञ्चि द्विष्वक्सेनस्य मूर्धनि ।
परिशिष्टं महापीठे निक्षिपेदक्षतादिकम्

4.5.21

नित्योत्सवश्चे दारोप्य तद्बिम्बं शिबिकादिषु ।
आरोप्य यद्वा शिरसि परिभ्रमणमिष्यते

4.5.22

आतोद्यनृत्तैर्बहुधा भिद्यमान्ते स्समधितम् ।
तत्र नृत्तं बहुविधं तानि वक्ष्ये समासतः

4.5.23

विलासं कर्तरी विष्णुक्रान्तमालीढमङ्गलम् ।
भद्रमाली तार्क्ष्यपक्षौकरणं स्वस्तिकाह्वायम्

4.5.24

चारी प्रचारी सूची च सावर्तं पारिभद्रकम् ।
सौम्यं विषमसूची च खेटकं चावकुञ्चितम्

4.5.25

कटिबन्धमलङ्कार मश्मरी पृष्ठकुट्टिमम् ।
उल्लङ्घिवामजान्वाख्य मासूरी चापवेष्टितम्

4.5.26

वासरेश्वरसञ्चारीभावै स्यातां निकुट्टिमौ ।
कुट्टिमं घटितं स्थायीभावो यच्च विजृम्भितम्

4.5.27

मण्डलं कुञ्चितार्धादि पताका सर्वमङ्गलम् ।
कान्तारकुट्टिमाह्वानं प्रपूर्वं घटितं तथा

4.5.28

विलासं सर्वतो भद्रं शुद्धं कुञ्चित मिष्यते ।
मार्गचारी कराधीन मावभास मनन्तरम्

4.5.29

आवेष्टितं परीवर्तं निर्धूतं देशिमण्डलम् ।
समपूर्वंच घटितं पदं विषमपूर्वकम्

4.5.30

कर्करीकविलासश्च भवेद्विगलितं तथा ।
नृत्तभेदाः पृथग्भावा गात्रावयव चेष्टितैः

4.5.31

आतोद्य गीतिभेदाना मानन्त्यान्नेह तन्यते ।
पुष्पप्रभासमोपेतं ध्वजच्छत्रादि संयुतम्

4.5.32

सर्ववादित्रसुभगं सर्वगेय समेधितम् ।
ब्रह्मविद्ब्रह्मघोषेण सहितं दीपसङ्कुलम्

4.5.33

विष्णुक्रान्तं खगेशस्य नृत्तं गेयं च मध्यमम् ।
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम्

4.5.34

कान्तारं कुट्टिमं पृष्ठकुट्टिमं कटिबन्धनम् ।
पामजानूर्ध्वनृत्तं च पुरुहोतादिषुस्मृतम्

4.5.35

षड्जर्षभौच गान्धारो मध्यमः पञ्चमस्तथा ।
ध्यैवतश्त्चेव निषधः पुरुहूतादिषु स्वरः

4.5.36

सप्तज्ञेया धैवतस्तु भवस्य स्वर इष्यते ।
नृत्तं तु विष्वक्तेनस्य स्वस्तिकं वृषभस्स्वरः

4.5.37

हस्तिनृत्तं गणेशस्य स्वरःपञ्चम इष्यते ।
धैवतस्स्यात्स्वरो नृत्तं दुर्गायास्सर्व मङ्गलम्

4.5.38

अन्येषामपि देवानां नृत्तं स्यात्सर्वमङ्गलम् ।
गानं च धैवतं प्रोक्तं गान्धारं पङ्चमं तथा

4.5.39

तदवान्तरभेदा वा गेया गेयविचक्षणैः ।
समतालाह्वयं पाद्यमैन्द्र्यं दिशि हविर्भुजः

4.5.40

बद्धावतालाभिधानं यमस्य दिशि शृङ्गिणी ।
नैरृत्यां मल्लतालं स्याद्वारुण्यां मङ्गलाह्वयम्

4.5.41

वायव्यां जयतालाख्यं कौबेर्यां भद्रसंज्ञितम् ।
ऐशान्यां कर्करीतालं ।
तार्क्ष्यस्य गरुडाह्वयम्

4.5.42

भूतानां बलितालाख्यम् ।
सेनेशस्यापि तादृशम् ।
अन्येषामपि देवनां तालं भद्रं प्रशस्यते

4.5.43

दिक्षु सर्वासु सर्वेषु मन्दिरावरणेषु च ।
नृत्तं गेयं च वाद्यं च साकल्येन समीरितम्

4.5.44

खगध्वजं दर्शयीत्वा मङ्गलाष्टकमेव च ।
सन्निधाने च देवस्य सर्वत्र बलिरिष्यते

4.5.45

निवेद्यं तत्र ताम्बूलं भक्ष्यं च पृथुकादिकम् ।
नर्वेष्वा वरणेष्वेवं स्थानं प्रति समाचरेत्

4.5.46

केवलाम्बुजनादेन प्राकारद्वारनिर्गमः ।
निर्गम्य च महापीठे मन्दिराभिमुखं स्थितः

4.5.47

दीक्षु सर्वासु पीठस्य पादित्रे घोषि ते भृशम् ।
क्षालिते पीठिकामूर्द्नि पूजयेद्विष्णु पार्षदान्

4.5.48

बलिं निरवशेषेण दत्वा पीठस्य मूर्दनि ।
पीठं परीत्य धामान्तः प्रविश्य मुखमण्डपे

4.5.49

प्रदाय पादुके पीठे यानादेरवरोप्यच ।
प्रङ्मखं विष्टरे देवमवस्थाप्य सभाजयेत्

4.5.50

उपहार मशेषेण प्रदायावसरोचितम् ।
प्रवेशयेद्गर्भगेहं देवमाराधक स्स्वयम्

4.5.51

वाद्ये गेये तथा नृत्ते बहिरङ्गण भूमिषु ।
न्यूनीभावं समाधातुं शुद्धे ताण्डवमाचरेत्

4.5.52

महावातादि संक्षोभेन नित्योत्सवमाचारेत् ।
बलिप्रदानमात्रं तु कुर्याच्च सति सम्भवे

4.5.53

नबिं चण्डे प्रचण्डे तु केवलं वा विनिक्षिपेत् ।
तयोर्मध्येतु पुरतो मूलमन्त्रेण साधकः

4.5.54

भूतेभ्यो नम इत्येवं पक्षिपेत्सोदकं बलिम् ।
आराधन विधिर्ह्येषु कालभेदेषु शस्यते

4.5.55

अह्नि कात्रौ च तान् ब्रह्मन्नधुना कथयामि ते ।
एकस्त्रयो वा षड्वापि कालि द्वादश एववा

4.5.56

पञ्च कालश्चतुष्काल स्तत्कालो बहुधा मतः ।
यथाविभवमुद्दिष्टं समाराधन कर्मणि

4.5.57

एको मध्याह्नसमयः प्रातर्मध्यन्दिनं निशा ।
त्रयश्चेत् षट्सुपूर्वेक्ताः कालभेदाः पुनस्त्रयः

4.5.58

मध्यरात्रोऽप राह्णश्च तथा प्रत्यूष ईरितः ।
प्रत्यूष श्चार्धरात्रं च प्रातर्मध्यन्दिनं निशा

4.5.59

पञ्चकाला इमे प्रोक्तान्सतःकालचतुष्टयं ।
एकेन हीनः प्रत्यूषो विज्ञेयश्छतुरासन

4.5.60

काला द्वादश विज्ञेयाः पञ्च पञ्च च नाडिकाः ।
इतरे कालभेदास्तु प्रत्येकं याम सम्मिताः

4.5.61

उत्सवावसितं श्रेष्ठमाराधन मुदाहृतम् ।
होमान्तं मध्यमं प्रोक्तं प्रापणान्त मथाधमम्

4.5.62

क्षुद्रं तु धूपदीपान्त मधमारधनं भवेत् ।
घटिके द्वे भवत् स्नाने घटिकै कार्चने भवेत्

4.5.63

नृत्तगेये तथा चैका तधर्धेन निवेदनम् ।
होमे चैका चोत्सवे द्वे शुद्धनृत्तावसानिके

4.5.64

प्रभातकाल पूजायां स्नानादि विधिरीदृशः ।
घटिका स्नानसमयस्तथार्ध घटिकार्चनम्

4.5.65

गेयनृत्तस्य घटिका तदर्धेन निवेदनम् ।
होमार्धे परिशिष्टस्तु भवेन्नित्योत्सवेक्षणः

4.5.66

कालभेदेषु सर्वेषु श्रेष्ठं कालत्रयं विदुः ।
प्रातर्मध्यन्दिनं रात्रि र्मुख्यं च कमलासन

4.5.67

आवश्यं भाविनौ तेषु बलिनित्योत्सवापुभौ ।
होमपर्यन्तमन्यत्र कारभेदेषु शस्यते

4.5.68

उत्सवाद्यङ्गलिम्बानि सेनान्यं विहगेश्वरम् ।
चण्डप्रचण्डै द्वारस्थौसर्वकालेषु पूजयेत्

4.5.69

मध्यन्दिने प्रदेषे च पुरस्ताद्वाद्य वादनम् ।
नीराजयेत्प्रदोषेषु देवं
तदपि कथ्यते

4.5.70

स्वर्णपात्राणि युग्मानि विपुलानि तथावसु ।
तन्मध्ये सालिपृष्ठेषु पर्तिदीपान् तप्रदीपयेत्

4.5.71

तथाविधानि पात्राणि करैरुद्धृत्य योषितः ।
कल्याणवस्त्राभरणा निर्गताश्च महानसात्

4.5.72

श्रेणीबन्धाः पुरोगीत नृत्त वाद्यसमन्विताः ।
अन्तिके देवदेवस्य विन्यसेयु र्महीतले

4.5.73

आधारेषु ततः पात्राण्यर्चये द्विश्वविद्यया ।
आचार्योध्रुवभेरादै षडङ्गन्यासमाचरेत्

4.5.74

इष्ठ्वा च देवमर्घ्याद्येर्दीपपात्राणि पूजकः ।
उद्धृत्य भ्रामयेद्देव मापादतलमस्तकम्

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc