भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.97

6.97.1

नारद उवाच-
ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः

6.97.2

ते हि भूमंडलं जाता निर्भयास्तमुपासितुम् ।
कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट् ।
पप्रच्छ भार्गवं विप्रं केनेदं विहितं प्रभो

6.97.3

भार्गवस्तस्य शिरसश्छेदं राहोः शशंस ह ।
अमृतार्थं समुद्रस्य मथनं देवकारितम्

6.97.4

रत्नापहरणं चैव दैत्यानां च पराभवम् ।
तच्छ्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा

6.97.5

स दूतं प्रेषयामास घस्मरं शक्रसंनिधौ ।
दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राप्य सत्वरम्

6.97.6

गर्वादखर्वमौलिस्तु देवेंद्रं वाक्यमब्रवीत् ।
दूत उवाच-
जलंधरोऽब्धितनयः सर्वदैत्यजनेश्वरः

6.97.7

दूतोऽहं प्रेषितस्तेन स यदाह शृणुष्व तत् ।
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा

6.97.8

नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे ।
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः ।
उवाच घस्मरं घोरं भयरोषसमन्वितः

6.97.9

ईश्वर उवाच-
शृणु दूत मया पूर्वं मथितः सागरो यथा ।
अद्रयो मद्भयाद्भीताः स्वकुक्षिस्थास्तथा कृताः

6.97.10

अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजास्तथा ।
तस्मात्तद्रत्नजातं तु मयाप्यपहृतं किल

6.97.11

शंखोऽप्येवं पुरा देवानद्विषत्सागरात्मजः ।
ममानुजेन निहतः प्रविष्टः सागरोदरम्

6.97.12

तद्गच्छ कथयस्वास्यसर्वं मथनकारणम्

6.97.13

नारद उवाच-
इत्थं विसर्जितो दूतस्तदेंद्रेणागमद्गृहम् ।
तदिंद्रवचनं दैत्यराजायाकथयत्तदा

6.97.14

तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताधरः ।
उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया

6.97.15

तदोद्योगे सुरेंद्रस्य दिग्भ्यः पातालतस्तथा ।
दितिजाः प्रत्यपद्यंत शतशः कोटिशस्तथा

6.97.16

अथ शुंभनिशुंभाद्यैर्बलाधिपतिकोटिभिः ।
गत्वा त्रिविष्टपं दैत्यो युद्धायाधिष्ठितोऽभवत्

6.97.17

निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः ।
पुरमावृत्य तिष्ठंति दृष्ट्वा दैत्यबलं महत्

6.97.18

ततः समभवद्युद्धं देवदानवसेनयोः ।
मुशलैः परिघैर्बाणैर्गदापरशुशक्तिभिः

6.97.19

तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम् ।
क्षणेनाभवतां सेने रुधिरौघ परिप्लुते

6.97.20

पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः ।
व्यराजत रणे भूमिः संध्याभ्रपटलैरिव

6.97.21

तत्र युद्धे हतान्दैत्यान्भार्गवस्तूदतिष्ठयत् ।
विद्ययाऽमृतजीविन्या मंत्रितैस्तोयबिंदुभिः

6.97.22

देवास्तत्र तथा युद्धे जीवयेदंगिरस्सुतः ।
दिव्यौषधीः समानीय द्रोणदेश्याः पुनः पुनः

6.97.23

दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान् ।
जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत्

6.97.24

जलंधर उवाच-
मया देवा हता युद्धे उत्तिष्ठंति कथं पुनः ।
तव संजीवनीविद्या नैवान्यत्रेति विश्रुतम्

6.97.25

भृगुरुवाच-
दिव्यौषधीः समानीय द्रोणाद्रेरंगिराः सुरान् ।
जीवयत्येष वै शीघ्रं द्रोणाद्रिं समपाहर

6.97.26

नारद उवाच-
इत्युक्तः स तु दैत्येंद्रो नीत्वा द्रोणाचलं तदा ।
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम्

6.97.27

अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ।
तावत्तत्र गिरींद्रं तं न ददर्श सुरार्चितः

6.97.28

ज्ञात्वा दैत्यहृतं द्रोणं विषण्णो भयविह्वलः ।
आगत्य दूराद्व्याजह्रे श्वासाकुलितविग्रहः

6.97.29

पलायध्वं पलायध्वं नायं जेतुं हि शक्यते ।
रुद्रांशसंभवो ह्येष स्मरध्वं शक्रचेष्टितम्

6.97.30

श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा ।
दैत्यैस्तैर्वध्यमानास्ते पलायंत दिशो दश

6.97.31

देवान्विदारितान्दृष्ट्वा दैत्यः सागरनंदनः ।
शंखभेरीजयरवैः प्रविवेशामरावतीम्

6.97.32

प्रविष्टे नगरं दैत्ये देवाःशक्रपुरोगमाः ।
सुवर्णाद्रिगुहां प्राप्य न्यवसन्दैत्यतापिताः

6.97.33

ततश्च सर्वेष्वसुराधिकारेष्विंद्रादिकानां विनिवेशयत्तदा ।
शुंभादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगात्पुनः

6.97.97

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये अमरावतीविजयोनाम सप्तनवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc