भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.96

6.96.1

पृथुरुवाच-
यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात् ।
तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता

6.96.2

तेनाहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम् ।
कथं सातिप्रिया विष्णोर्देवदेवस्य शार्ङ्गिणः

6.96.3

कथमेषा समुत्पन्ना कस्मिंस्थाने च नारद ।
एतद्ब्रूहि समासेन सर्वज्ञोऽसि मतो हि मे

6.96.4

नारदौवाच-
पुरा रुद्रेण दैत्येंद्रे सिंधुसूनौ निपातिते ।
प्रणम्य शिरसा रुद्रं देवा ब्रह्मादयोऽब्रुवन् ।
शृणु राजन्प्रवक्ष्यामि माहात्म्यं तुलसीभवम्

6.96.5

सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते ।
पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम् ।
सर्वदेवैः परिवृतस्त्वप्सरोगणसेवितः

6.96.6

यावद्गतः शिवगृहं तावत्तत्राशु दृष्टवान् ।
पुरुषं भीमकर्माणं दंष्ट्रानयनभीषणम्

6.96.7

स पृष्टस्तेन कस्त्वं भो क्व गतो जगदीश्वरः ।
एवं पुनः पुनः पृष्टः स यदा नोचिवान्नृप

6.96.8

ततः क्रुद्धो वज्रपाणिस्तन्निर्भर्त्स्य वचोऽब्रवीत् ।
रे मया पृच्छमानोऽपि नोत्तरं दत्तवानसि

6.96.9

अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ।
इत्युदीर्य ततो वज्री वज्रेण चाहनद्दृढम्

6.96.10

तेनास्य कंठे नीलत्वमगाद्वज्रं च भस्मतां ।
ततो रुद्र प्रजज्वाल तेजसा प्रदहन्निव

6.96.11

दृष्ट्वा बृहस्पतिस्तूर्णं कृतांजलिपुटोऽभवत् ।
इंद्रश्चदंडवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे

6.96.12

बृहस्पतिरुवाच-
नमो देवाधिदेवाय त्र्यंबकाय कपर्दिने ।
त्रिपुरघ्नाय शर्वाय नमोंधकनिषूदिने

6.96.13

विरूपायातिरूपाय बहुरूपाय शंभवे ।
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने

6.96.14

कालांतकाय कालाय कालभोगधराय च ।
नमो ब्रह्मशिरोहंत्रे ब्राह्मणाय नमो नमः

6.96.15

नारद उवाच-
एवं स्तुतस्तदा शंभुः द्विजर्षभं जगाद ह ।
संहरन्नयनज्वालं त्रिलोकीदहनक्षमाम्

6.96.16

वरं वरय भो ब्रह्मन्प्रीतः स्तुत्यानया तव ।
इंद्रस्यजीवदानेन जीवति त्वं प्रथां व्रज

6.96.17

बृहस्पतिरुवाच-
यदि तुष्टोऽसि देव त्वं याहींद्रं शरणागतम् ।
अग्निरेष शमं यातु भालनेत्रसमुद्भवः

6.96.18

ईश्वर उवाच-
पुनः प्रवेशमायाति भालनेत्रे कथं त्वयम् ।
एनं त्यक्ष्याम्यहं दूरे यथेंद्रं नैव पीडयेत्

6.96.19

नारद उवाच-
इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणांभसि ।
सोऽपतत्सिंधुगंगायाः सागरस्य च संगमे

6.96.20

तदा स बालरूपत्वमगात्तत्र रुरोद च ।
रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः

6.96.21

स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधिरीकृतौ ।
श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः

6.96.22

तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह ।
दृष्ट्वा ब्राह्मणमायांतं समुद्रोऽपि कृतांजलि

6.96.23

प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयेत् ।
ततो ब्रह्माब्रवीद्वाक्यं कस्यायं शिशुरद्भुतः

6.96.24

निशम्येति वचो धातुर्वाक्यं तु सागरोऽब्रवीत् ।
ब्रह्मा उवाच-
सरित्पते कुतो लब्धो बालो ह्येष महाबलः

6.96.25

यस्य नादेन संत्रस्ता देवासुरमहोरगाः ।
समुद्र उवाच-
भो ब्रह्मन्सिधुगंगायां जातोऽयं मम पुत्रकः

6.96.26

जातकर्मादि संस्कारान्कुरुष्वास्य जगद्गुरो ।
नारद उवाच-
इत्थं वदति पाथोधौ स बालः सागरात्मजः

6.96.27

ब्रह्माणमग्रहीत्कूर्चे विधुन्वंतं मुहुर्मुहुः ।
धुन्वतस्तस्य कूर्चं तु नेत्राभ्यामागमज्जलम् ।
कथंचिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम्

6.96.28

ब्रह्मोवाच-
नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम ।
तस्माज्जलंधर इति ख्यातो नाम्ना भवत्यसौ

6.96.29

अधुनैवैष तरुणः सर्वशस्त्रास्त्रपारगः ।
अवध्यः सर्वभूतानां विना रुद्रं भविष्यति

6.96.30

याति यत्र समुद्भूतस्तत्रेदानीं गमिष्यति

6.96.31

नारद उवाच-
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् ।
आमंत्र्य सरितां नाथं ब्रह्मांतर्द्धानमन्वगात्

6.96.32

अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा ।
कालनेमिसुतां वृंदां तद्भार्यार्थमयाचत

6.96.33

ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः ।
स चापि तान्प्राप्यसुहृद्वरान्वशी शशास गां शुक्रसहायवान्बली

6.96.96

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालंधरोत्पत्तिवर्णनंनाम षण्णवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc