भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.95

6.95.1

नारद उवाच।
अथोर्जव्रतिनः सम्यगुद्यापनविधिं नृप ।
तच्छृणुष्व मयाख्यातं किं विधानं समासतः

6.95.2

ऊर्ज्जशुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती ।
व्रतसंपूर्णतार्थाय विष्णुप्रीत्यर्थमेव च

6.95.3

तुलस्या उपरिष्टात्तु कुर्यान्मंडपिकां शुभाम् ।
सुतोरणां चतुर्द्वारां पुष्पचामरशोभिताम्

6.95.4

द्वारेषु द्वारपालांश्च पूजयेन्मृन्मयान्पृथक् ।
पुण्यशीलं सुशीलं च जयं विजयमेव च

6.95.5

तुलसीमूलदेशे च सर्वतोभद्रमालिखेत् ।
चतुर्भिर्वर्णकैः सम्यक्शोभाढ्यं समलंकृतम्

6.95.6

तस्योपरिष्टात्सपिधानं पंचरत्नसमन्वितम् ।
महाफलेन संयुक्तं कुंभं तत्र निधाय च

6.95.7

पूजयेत्तत्र देवेशं शंखचक्रगदाधरम् ।
कौशेयपीतवसनं युक्तं जलधिकन्यया

6.95.8

इंद्रादिलोकपालांश्च पूजयेन्मंडले व्रती ।
द्वादश्यां प्रतिबुद्धः स त्रयोदश्यां यतः सुरैः

6.95.9

दृष्टोऽर्चितश्चतुर्दश्यां तस्मात्पूज्यस्तथाधिकम् ।
तस्यामुपवसेद्भक्त्या शांतः प्रयतमानसः

6.95.10

पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया ।
उपचारैः षोडशभिर्नानाभक्ष्यसमन्वितैः

6.95.11

रात्रौ जागरणं कुर्याद्गीतवाद्यादि मंगलैः ।
गीतं कुर्वंति ये भक्त्या जागरे चक्रपाणिनः

6.95.12

जन्मांतरशतोद्भूतैस्ते मुक्ताः पापसंचयैः ।
जागरे वासरे विष्णोर्गीतं नृत्यं च कुर्वताम्

6.95.13

गोसहस्रं च ददतां तत्फलं समुदाहृतम् ।
गीतनृत्यादिकं कुर्वन्दर्शयेत्कौतुकानि च

6.95.14

पुरतो वासुदेवस्य रात्रौ यो हरिजागरे ।
पठन्विष्णुचरित्राणि यो रंजयति वैष्णवान्

6.95.15

मुखेन कुरुते वाद्यं स्वेच्छालापांश्च दर्शयन् ।
भावैरेतैर्नरो यस्तु कुरुते हरिजागरम्

6.95.16

दिनेदिने तस्य पुण्यं तीर्थकोटिसमं स्मृतम् ।
ततस्तु पौर्णिमास्यां वै सपत्नीकान्द्विजोत्तमान्

6.95.17

त्रिंशन्मिताननेकान्वा स्वशक्त्या वा निमंत्रयेत् ।
वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपी अभूत्तदा

6.95.18

तस्यां दत्तं हुतं जप्तं तदक्षयफलं स्मृतम् ।
अतस्तान्भोजयेद्विप्रान्पायसान्नादिना व्रती

6.95.19

अतो देवा इति द्वाभ्यां जुहुयात्तिलपायसम् ।
प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक्

6.95.20

दक्षिणां च यथाशक्ति प्रदद्यात्प्रणमेच्च तान् ।
पुनर्देवं समभ्यर्च्य देवांश्च तुलसीं तथा

6.95.21

ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती ।
गुरुं व्रतोपदेष्टारं वस्त्रालंकरणादिभिः

6.95.22

सपत्नीकं समभ्यर्च्य गां च तस्मै प्रदापयेत् ।
युष्मत्प्रसादाद्देवेशः प्रसन्नो मे भवेत्तदा

6.95.23

व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया ।
तत्सर्वं नाशमायातु स्थिरा मे चास्तु संततिः

6.95.24

मनोरथाश्च सफलाः संतु नित्यं ममार्चनात् ।
देहांते वैष्णवं स्थानं प्राप्नुयामतिदुर्लभम्

6.95.25

इति क्षमाप्यतान्विप्रान्प्रसाद्य च विसर्जयेत् ।
तामर्चां गुरवे दद्याद्रत्नयुक्तां तदा व्रती

6.95.26

तदा सुहृद्गुरुयुतः स्वयं भुंजति भक्तिमान् ।
कार्त्तिके वाथ तपसि विधिरेवंविधः स्मृतः

6.95.27

एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः ।
विपाप्मा स विनिर्मुक्तो विष्णुसान्निध्यगो भवेत्

6.95.28

सर्वव्रतैः सर्वतीर्थैःस र्वदानैश्च यत्फलम् ।
तत्कोटिगुणितं ज्ञेयं सम्यगस्य विधानतः

6.95.29

ते धन्यास्ते महापुण्यास्तेषां सर्वफलोदयः ।
विष्णुभक्तिरता ये स्युः कार्तिके व्रतकारिणः

6.95.30

देहस्थितानि पापानि वितर्कं यांति तद्भयात् ।
क्व यास्यामो वदंत्येवं यद्ययं व्रतकृन्नरः

6.95.31

इत्यूर्जव्रतनियमान्शृणोति भक्ता ये चैतत्कथयंति चैव वैष्णवाग्रे ।
ते सम्यग्व्रतकरणात्फलं लभेरन्तत्सर्वं कलुषविनाशनं लभंते

6.95.95

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे उद्यापनवर्णनोनाम पंचनवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc