भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.94

6.94.1

नारद उवाच-
कार्तिकव्रतिनां पुंसां नियमा ये प्रकीर्तिताः ।
ताञ्छृणुष्व मया राजन्कथ्यमानान्समंततः

6.94.2

सर्वामिषाणि मांसानि क्षौद्रं सौवीरकं तथा ।
राजमाषादिकं चापि नैवाद्यात्कार्तिकव्रती

6.94.3

द्विदलं तिलतैलं च तथान्नमश्रुदूषितम् ।
भावदुष्टं शब्ददुष्टं वर्जयेत्कार्तिकव्रती

6.94.4

परान्नं च परद्रोहं परदारागमं तथा ।
तीर्थे प्रतिगृहं नापि गृह्णीयात्कार्तिकव्रती

6.94.5

देवदेवद्विजानां च गुरोश्च व्रतिनस्तथा ।
स्त्रीराजमहतां निंदां वर्जयेत्कार्तिके व्रती

6.94.6

प्राण्यंगमामिषं चूर्णं फले जंबीरमामिषम् ।
धान्ये मसूरिका प्रोक्ता चान्नं पर्युषितं तथा

6.94.7

अजागोमहिषीक्षीरादन्यदुग्धादि चामिषम् ।
द्विजक्रीता रसाः सर्वे लवणं भूमिजं तथा

6.94.8

ताम्रपात्रस्थितं गव्यं जलं पल्वलसंस्थितम् ।
आत्मार्थं पाचितं चान्नमामिषं तत्स्मृतं बुधैः

6.94.9

ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् ।
चतुर्थकाले भुंजीत कुर्यादेवं सदा व्रती

6.94.10

नरकस्य चतुर्दश्यां तैलाभ्यंगं च कारयेत् ।
अन्यत्र कार्तिकस्नायि तैलाभ्यंगं न कारयेत्

6.94.11

पलांडुं लशुनं शिग्रु छत्राकं गृंजनं तथा ।
नालिकां मूलकं हिंगुं वर्जयेत्कार्तिकव्रती

6.94.12

अलाबुं चापि वृंताकं कूष्मांडं बृहतीफलम् ।
श्लेष्मातकं कपित्थं च वर्जयेद्वैष्णवव्रती

6.94.13

रजस्वलांत्यज म्लेच्छ पतितव्रात्यकैः सह ।
द्विजातिवेदबाह्यैश्च न वदेत्कार्तिकव्रती

6.94.14

श्वभिर्दृष्टं च काकैश्च सूतकान्नं च वर्जयेत् ।
द्विःपाचितं च दग्धान्नं वर्जयेत्कार्तिकव्रती

6.94.15

तिलाभ्यंगं तथा शय्यां परान्नं कांस्यभोजनम् ।
कार्तिके वर्जयेद्यस्तु परिपूर्णव्रती भवेत् ।
एतानि वर्जयेन्नित्यं व्रती सर्वव्रतेष्वपि ।
कृच्छ्राद्यं चापि कुर्वीत स्वशक्त्या विष्णुतुष्टये

6.94.16

क्रमात्कूष्मांड वृंताकं बृहती मूलकं तथा ।
श्रीफलं च कलिंगं च फलं धात्रीभवं तथा

6.94.17

नारिकेरं महालाबुं पटोलं बदरीफलम् ।
चर्म वैकतकं चापि बिसं वै कट्फलं तथा

6.94.18

शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु ।
धात्रीफलं रवौ तद्वद्वर्जयेत्सर्वदा गृही

6.94.19

एभ्योऽपि वर्जयेत्किंचिद्यद्विष्णुप्रीतये नरः ।
तत्पुनर्ब्राह्मणे दत्त्वा भक्षयेत्सर्वदैव हि

6.94.20

एवमेव हि माघेऽपि कुर्याद्वै नियमान्व्रती ।
हरिजागरणं तत्र विधिप्रोक्तं च कारयेत्

6.94.21

यथोक्तकारिणं दृष्ट्वा कार्तिकव्रतिनं नरम् ।
यमदूताः पलायंते गजाः सिंहार्दिता यथा

6.94.22

वरं विष्णुव्रतं ह्येतदथ यज्ञशताधिकम् ।
यज्ञकृत्प्राप्नुयात्स्वर्गं वैकुंठं कार्तिकव्रती

6.94.23

भुक्तिमुक्तिप्रदानीह यानि क्षेत्राणि भूतले ।
वसंति तानि तद्गेहे कार्तिक्रव्रतकारिणः

6.94.24

दुःस्वप्न्नं दुष्कृतं किंचिन्मनोवाक्कायकर्मजम् ।
कार्त्तिकव्रतिनं दृष्ट्वा विलयं यांति तत्क्षणात्

6.94.25

कार्त्तिकव्रतिनः पुंसो विष्णुवाक्यप्रणोदिताः ।
रक्षां कुर्वंति शक्राद्या राज्ञो वै किंकरा यथा

6.94.26

विष्णुव्रतकरा नित्यं यत्र तिष्ठंति पूजिताः ।
ग्रहभूतपिशाचाद्या नैव तिष्ठंति तत्र वै

6.94.27

कार्त्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः ।
न समर्थो भवेद्वक्तुं ब्रह्मापीह चतुर्मुखः

6.94.28

विष्णुप्रियं सकलकल्मषनाशनं च सर्वत्र पुत्रधनधान्यसमृद्धिकारि ।
ऊर्जे व्रतं सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलन सेवया च

6.94.94

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनोनाम चतुर्नवतितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc