भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.77

6.77.1

महादेव उवाच-
पप्रच्छाहं जगन्नाथं व्रतानामुत्तमं व्रतम् ।
पुत्रपौत्रविवृद्ध्यर्थं सुखसौभाग्यदायकम्

6.77.2

तवाग्रे संप्रवक्ष्यामि शृणु सुंदरि सांप्रतम् ।
इदं कथानकं दिव्यमृषीणां व्रतमुत्तमम्

6.77.3

रजस्वला तु या नारी सहसा पापरूपिणी ।
कृतेन च व्रतेनैव महापापैः प्रमुच्यते ।
पितॄणामक्षयं देयं धर्मकामार्थसाधनम्

6.77.4

श्रीविष्णुरुवाच-
पूर्वमासीन्महाबाहुर्ब्राह्मणो वेदपारगः ।
सदाध्ययनशीलस्तु देवशर्मा इति द्विजः

6.77.5

अग्निहोत्रक्रियायुक्तः षट्कर्मनिरतः सदा ।
सर्ववर्णेषु संपूज्यः सपुत्रपशुबांधवः

6.77.6

तस्य ब्राह्मणमुख्यस्य भग्ना च गृहवाहिनी ।
प्राप्ते भाद्रपदे मासे शुक्लपक्षे तु पंचमी

6.77.7

पितुःक्षयाहं कुरुते यतात्मा च जितेंद्रियः ।
रात्रौ निमंत्रयेद्विप्रान्सुखसौभाग्यदायकान्

6.77.8

प्रभाते विमले प्राप्ते भांडान्यन्यानि कारयेत् ।
पाकं सर्वेषु पात्रेषु स कारयति जायया

6.77.9

अष्टादशरसोपेतं पितॄणां प्रीतिदायकम् ।
आकारणं ततो दत्त्वा विप्राणां च पृथक्पृथक्

6.77.10

सर्वे विप्रास्तु संप्राप्ता मध्याह्ने वेदपाठकाः ।
अर्घपाद्यादि विधिवत्कृतवान्द्विजसत्तमः

6.77.11

रजसा दूषितः श्राद्धे प्रक्षाल्य विधिवत्तदा ।
गृहमध्ये गताः सर्वे आसने ते निरूपिताः

6.77.12

प्रदत्तं भोजनं तेन मिष्टान्नेन विशेषतः ।
विधिना च कृतं श्राद्धं पिंडदानप्रपूर्वकम्

6.77.13

तांबूलं दक्षिणां चैव वस्त्राणि विविधानि च ।
सर्वं ददौ द्विजेभ्यो वै पितृध्यानपरायणः

6.77.14

विप्रा विसर्जिताः सर्वे आशीर्वादपरायणाः ।
गोत्रिणां बांधवानां च अन्येषां च बुभुक्षताम्

6.77.15

दत्तमन्नं तदा तेन भोजने विधिपूर्वकम् ।
निशायां तु कुटीद्वारे उपविष्टो यदा तदा

6.77.16

ब्राह्मण्या वारि संगृह्य पादप्रक्षालनं कृतम् ।
तदा शुनी बलीवर्दौ परस्परमभाषताम्

6.77.17

शृणु कांत वचो मह्यं यादृक्कृतवती वधूः ।
तादृशं संप्रवक्ष्यामि नान्यथा प्रब्रवीम्यहम्

6.77.18

कदाचिद्दैवयोगेन गताहं पुत्रसद्मनि ।
तत्रस्थितं पयः पातुं वध्वा दृष्टं न तत्पुनः

6.77.19

पीतं पयस्तु सर्पेण तद्दृष्टं तु मया पुनः ।
पश्चात्पीतं मया सम्यक्दृष्टं वध्वा तदा पुनः

6.77.20

तेन संपर्कदोषेणकटिर्भग्ना च मे सदा ।
तेन दुःखेन भो स्वामिन्जाताहं दुःखभागिनी ।
भग्ना कटिश्च संजाता ह्याहारो नैव रोचते

6.77.21

बलीवर्द्द उवाच-
शृणु त्वं शुनि वक्ष्यामि मम दुःखस्य कारणम् ।
अस्मिन्वै दिवसे प्राप्ते ब्राह्मणानां तु भोजनम्

6.77.22

कारितं मम पुत्रेण मम चिंता तु नो कृता ।
नोदकं न तृणं चैव न दत्तं केनचित्क्वचित्

6.77.23

अनाहारोह्यहं पापी बद्धोऽस्मिन्पापभावितः ।
पूर्वपापविशेषेण जातं शुनि न संशयः

6.77.24

तद्वाक्यं तु तदा देवि श्रुतं पुत्रेण धीमता ।
ममायं तु पिता साक्षाज्जातो मम गृहे पशुः

6.77.25

इयं तु जननी साक्षान्मम चैव न संशयः ।
दैवयोगाच्छुनी जाता किं करोमि सुनिश्चयम्

6.77.26

एवं विचार्यासौ विप्रो नैव निद्रामवाप सः ।
रात्रौ चिंतापरो भूत्वा स्मरन्विश्वेश्वरं परम्

6.77.27

नानाधर्मपरोऽहं च ममैवं च कथं शुभम् ।
विचारयित्वा च ततो रात्रौ सुप्तस्तदा पुनः

6.77.28

प्रभाते विमले प्राप्ते ऋषीणां पुरतो गतः ।
तेषां मध्ये वसिष्ठेन तस्य सुस्वागतं कृतम्

6.77.29

ब्रूहि त्वं ब्राह्मणश्रेष्ठ तवागमनकारणम् ।
इति पृष्टस्तदा विप्रः प्रणाममकरोत्तदा

6.77.30

अद्य मे सफलं जन्म अद्य मे सफला क्रिया ।
अद्य मे पितरस्तृप्ता दुर्लभात्तव दर्शनात्

6.77.31

यथोक्तं च कृतं श्राद्धं द्विजाश्चैव सुभोजिताः ।
कुटुंबिनां तु सर्वेषां भोजनं कारितं तथा

6.77.32

भोजनानंतरं प्राप्ता शुनी तत्र उवाच ह ।
अस्माकं तु गृहे ह्येको बलीवर्दस्तु वर्त्तते

6.77.33

तं पतिं प्रतिवाक्यं यद्दिवज मत्तः शृणुष्व तत् ।
गृहेस्थितं दुग्धभांडमहिना दूषितं मया

6.77.34

दृष्टं मे महती चिंता तदा जाता न संशयः ।
अनेन पयसा चैव पक्वमन्नं यदा भवेत्

6.77.35

तदात्र सर्वे विप्राश्च म्रियंते भोजनात्ततः ।
एवं विचार्य तत्स्वामिन्दुग्धं पीतं तदा मया

6.77.36

तदा दृष्टं तु वध्वा वै तया मे ताडनं कृतम् ।
चरामि तेन संभग्ना किं करोमि सुदुःखिता

6.77.37

तस्या दुःखं तु संस्मृत्य वृषः प्राह शुनीं प्रति ।
शृणु शुनि प्रवक्ष्यामि मम दुःखस्य कारणम्

6.77.38

अस्याहं तु पिता साक्षात्पूर्वजन्मनि वै शुनि ।
अद्य वै भोजिता विप्रा दत्तमन्नं तु भूरिशः

6.77.39

न तृणं नोदकं चैव ममाग्रे संनिवेदितम् ।
तेन दुःखेन मे दुःखं जातं बहुतरं तदा

6.77.40

एतत्कथानकं श्रुत्वा रात्रौ निद्रामवाप न ।
मम चिंता तु तत्रैव जाता वै ऋषिसत्तम

6.77.41

वेदाध्ययनशीलोऽहं कुशलो वेदकर्मणि ।
अनयोश्च महद्दुःखं किं करोमीति चिंतयन् ।
आगतस्त्वत्समीपे तु ममकष्टं निवारय

6.77.42

ऋषिरुवाच-
उग्रजन्मन्शृणुष्व त्वं पूर्वजन्मनि यत्कृतम् ।
अयं वै तु द्विजश्रेष्ठो कुंडने नगरे शुभे

6.77.43

मासे भाद्रपदे चैव पंचमी या समागता ।
तद्व्रतं तेन नाज्ञातं पितुः श्राद्धादिकारणात्

6.77.44

स्त्रीधर्मेण तु संप्राप्ता क्षयहेतु तदानघ ।
तया चैव कृतं सर्वं ब्राह्मणानां च भोजनम्

6.77.45

न ज्ञातं च कृतं तेन पापिष्ठेन दुरात्मना ।
प्रथमेऽहनि चांडाली द्वितीये ब्रह्मघातिनी

6.77.46

तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ।
तेन पापेन सा जाता शुनी स्वगृहचारिणी ।
बलीवर्दस्त्वयं जातः कर्मणानेन सुव्रत

6.77.47

उग्रजन्मोवाच-
व्रतं दानं तथा यज्ञं तीर्थं वाममसुव्रत ।
ब्रूहि येन विशेषेण मुक्तिः पित्रोर्भवेन्मम

6.77.48

ऋषिरुवाच-
मासे भाद्रपदे शुक्ले जायते ऋषिपंचमी ।
रजसा विकृतं पापं नश्यते करणाद्यतः

6.77.49

पुत्रपौत्रप्रदात्री च पितॄणां मुक्तिदायिनी ।
नद्या कूपे तडागे वा ब्राह्मणस्य गृहे तथा

6.77.6.77.50

गोमयं मंडलं कुर्यात्कुंभं तत्रैव विन्यसेत् ।
तस्योपरि न्यसेत्पात्रमृषिधान्येन पूरितम्

6.77.51

यज्ञोपवीतसूत्रं च सहिरण्यं फलं तथा ।
स्थाप्याश्च ऋषयः सप्त सुखसौभाग्यदायकाः

6.77.52

आवाहयित्वा ते सर्वे पूजनीया व्रतस्थितैः ।
नैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम्

6.77.53

एकभक्तेन कर्तव्यमृषीणामर्चनं तदा ।
पूजयेत्परया भक्त्या मंत्रेण विधिपूर्वकम्

6.77.54

निर्वापं सघृतं देयं दक्षिणासंयुतं तदा ।
देयं विप्राय विधिवदृषीणां प्रीयतां प्रति

6.77.55

कथां श्रुत्वा विधानेन कृत्वा चैव प्रदक्षिणाम् ।
धूपं दीपं च नैवेद्यमर्घ्यं दद्यात्पृथक्पृथक्

6.77.56

ऋषयः संतु मे नित्यं व्रतसंपूर्णकारिणः ।
पूजां गृह्णंतु मद्दत्तां ऋषिभ्योऽस्तु नमोनमः

6.77.57

पुलस्त्यः पुलहश्चैव क्रतुः प्राचेतसस्तथा ।
वसिष्ठमरिचात्रेया अर्घं गृह्णंतु वो नमः

6.77.58

एवं पूजा प्रकर्त्तव्या धूपैर्दीपैर्मनोरमैः ।
पितॄणां जायते मुक्तिः कृतस्यास्य प्रभावतः

6.77.59

पूर्वकर्मविपाकेन रजसा दोषभावतः ।
कृतं ह्येवं तु भो वत्स मुक्तिस्तस्य न संशयः

6.77.60

तद्व्रतं च कृतं तेन मुक्त्यर्थं पितृहेतवे ।
ते गता मुक्तिमार्गेण आशीर्वादपरायणाः

6.77.61

ऋषिपंचमीव्रतं पुण्यं विप्राय परिकीर्तितम् ।
ये कुर्वंति नरश्रेष्ठास्ते ज्ञेयाः पुण्यभागिनः

6.77.62

ये कुर्वंति नरश्रेष्ठ ऋषिव्रतमनुत्तमम् ।
भुक्त्वात्र भोगान्विपुलान्यांति विष्णोः पदं तु ते

6.77.77

इतिश्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारद।
संवादे ऋषिपंचमीव्रतंनाम सप्तसप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc