भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.76

6.76.1

महादेव उवाच-
शृणु सुंदरि वक्ष्यामि स्तोत्रं चाभ्युदयं ततः ।
यच्छ्रुत्वा मुच्यते पापी ब्रह्महा नात्र संशयः

6.76.2

धाता वै नारदं प्राह तदहं तु ब्रवीमि ते ।
तमुवाच ततो देवः स्वयंभूरमितद्युतिः

6.76.3

प्रगृह्य रुचिरं बाहुं स्मारयेच्चौर्ध्वदेहिकम् ।
भगवान्नारायणः श्रीमान्देवश्चक्रायुधोहरिः

6.76.4

शार्ङ्गधारी हृषीकेशः पुराणपुरुषोत्तमः ।
अजितः खड्गभृज्जिष्णुः कृष्णश्चैव सनातनः

6.76.5

एकशृंगो वराहस्त्वं भूतभव्यभवात्मकः ।
अक्षरं ब्रह्म सत्यं तु आदौ चांते च राघवः

6.76.6

लोकानां तु परो धर्मो विष्वक्सेनश्चतुर्भुजः ।
सेनानी रक्षणस्त्वं च वैकुंठस्त्वं जगत्प्रभुः

6.76.7

प्रभवश्चाव्ययस्त्वं च उपेंद्रो मधुसूदनः ।
पृश्निगर्भो धृतार्चिस्त्वं पद्मनाभो रणांतकृत्

6.76.8

शरण्यं शरणं च त्वामाहुः सेन्द्रा महर्षयः ।
ऋक्सामश्रेष्ठो वेदात्मा शतजिह्वो महर्षयः

6.76.9

त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतपः ।
शतधन्वा वसुः पूर्वं वसूनां त्वं प्रजापतिः

6.76.10

त्रयाणामपि लोकानां आदिकर्ता स्वयंप्रभुः ।
रुद्राणामष्टमो रुद्रः साध्यानामपि पंचमः

6.76.11

आश्विनौ चापि कर्णौ ते सूर्यचंद्रौ च चक्षुषी ।
अंते चादौ च मध्ये च दृश्यसे त्वं परंतपः

6.76.12

प्रभवो निधनं चास्य न विदुः को भवानिति ।
दृश्यसे सर्वलोकेषु गोषु च ब्रह्मणेषु च

6.76.13

दिक्षु सर्वासु गगने पर्वतेषु गुहासु च ।
सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात्

6.76.14

त्वं धारयसि भूतानि वसुधां च सपर्वताम् ।
अंतःपृथिव्यां सलिले सर्वसत्वमहोरगः

6.76.15

त्रींल्लोकान्धारयन्नास्ते देवगंधर्वदानवान् ।
अहं ते हृदयं राम जिह्वा देवी सरस्वती

6.76.16

देवा रोमाणि गात्रेषु निर्मितास्ते स्वमायया ।
निमिषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा

6.76.17

संस्कारस्ते भवेद्देहो न तदस्ति विना त्वया ।
जगत्सर्वं शरीरे तत्स्थैर्यं च वसुधातलम्

6.76.18

अग्निः कोपः प्रसादस्ते शेषः श्रीमांश्च लक्ष्मणः ।
त्वया लोकास्त्रयः क्रांताः पुराणैर्विक्रमैस्त्रिभिः

6.76.19

त्वयेंद्रश्च कृतो राजा बलिर्बद्धो महासुरः ।
लोकान्संहृत्य कालस्त्वं निवेश्यात्मनि केवलम्

6.76.20

करोष्येकार्णवं घोरं दृश्यादृश्ये च नान्यथा ।
त्वया सिंहवपुः कृत्वा परमं दिव्यमुत्तमम्

6.76.21

भयदः सर्वभूतानां हिरण्यकशिपुर्हतः ।
त्वमश्ववदनो भूत्वा पातालतलमाश्रितः

6.76.22

संहृतं परमं हव्यं रहस्यं वै पुनः पुनः ।
यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते परः

6.76.23

यत्परं परतश्चै वपरमात्मेति कथ्यते ।
परो मंत्रः परं तेजस्तमेव हि निगद्यसे

6.76.24

हव्यं कव्यं पवित्रं च प्राप्तिः स्वर्गापवर्गयोः ।
स्थित्युत्पत्तिविनाशांस्ते त्वामाहुः प्रकृतेः परम्

6.76.25

यज्ञश्च यजमानश्च होता चाध्वर्युरेव च ।
भोक्ता यज्ञफलानां च त्वं वै वेदैश्च गीयसे

6.76.26

सीतालक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुम्

6.76.27

तदिदं च त्वया कार्यं कृतं धर्मभृतां वर ।
निहतो रावणो राम प्रहृष्टा देवताः कृताः

6.76.28

अमोघं देववीर्यं ते न ते मोघः पराक्रमः ।
अमोघदर्शनं राम न च मोघस्तव स्तवः

6.76.29

अमोघास्ते भविष्यंति भक्तिमंतो नरा भुवि ।
ये च त्वां देव संभक्ताःपुराणं पुरुषोत्तमम्

6.76.30

इममार्षस्तवं पुण्यमितिहासं पुरातनम् ।
ये नराः कीर्तयिष्यंति नास्ति तेषां पराभवः

6.76.31

कथमिह हि पराभवं व्रजेयुः पुरुषवराः पुरुषोत्तमे हि भक्ताः ।
नहि जगति चतुर्भुजप्रियाणां त्रिदश इहास्ति वरप्रदो विशिष्टः

6.76.32

स्तोत्राणां प्रवरं स्तोत्रं राघवस्य महात्मनः ।
त्रिकाले यः पठेन्नित्यं महापातकवानपि

6.76.33

संध्याकाले द्विजश्रेष्ठैः श्राद्धकाले विशेषतः ।
पठनीयं प्रयत्नेन भक्तिभावेन चेतसा

6.76.34

इदं गोप्यं हि परमं नाख्येयं कर्हिचित्क्वचित् ।
पठनान्मुक्तिमाप्नोति सात्त्वतः स भवेद्ध्रुवम्

6.76.35

प्रथमं पिंडपूजांते ब्राह्मणैर्द्विजसत्तमैः ।
पठितव्यमिदं स्तोत्रं श्राद्धमक्षयमाप्नुयात्

6.76.36

इदं पवित्रं परमं जनानां मुक्तिदायकम् ।
लिखित्वा वै गृहे यस्तु धारयेत्सुसमाधिना

6.76.37

आयुः श्रीश्च बलं तस्य वृद्धिं याति दिनेदिने ।
लिखित्वा ब्राह्मणे दद्याद्धीमान्यो वै कदाचन

6.76.38

विमुक्ताः पूर्वजास्तस्य यांति विष्णोः परं पदम् ।
चतुर्णां चैव वेदानां पाठे चैव तु यत्फलम्

6.76.39

समवाप्नोति जापेन नरः स्तोत्रं पठन्जपन् ।
धृत्वा वै शंखचक्रादि ब्राह्मणैर्वेदतत्परैः

6.76.40

श्राद्धकाले महादेवि अक्षयं तद्भवेद्ध्रुवम् ।
कंठे पद्माक्षमालां च शंखचक्रादिधारणम्

6.76.41

ततः श्राद्धं प्रकुर्वीत इदं स्तोत्रं पठन्जपन् ।
विधिना भक्तिभावेन पूर्णं भवति नान्यथा

6.76.42

अतो भक्तिमता पुंसा पठनीयं प्रयत्नतः ।
पठनात्सर्वमाप्नोति स नरः सुखमेधते

6.76.76

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे आभ्युदयिकमूर्ध्वदैहिकस्तोत्रं नाम षट्सप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc