भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.73

6.73.1

महादेव उवाच-
ॐरामरक्षास्तोत्रस्य श्रीमहर्षिर्विश्वामित्रऋषिः ।
श्रीरामो देवता अनुष्टुप्छंदः ।
विष्णुप्रीत्यर्थे जपे विनियोगः

6.73.2

अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
ध्यात्वा वै पुंडरीकाक्षं श्रीरामं विष्णुमव्ययम्

6.73.3

पातु वो हृदयं रामः श्रीकंठः कंठमेव च ।
नाभिं पातु मखत्राता कटिं मे विश्वरक्षकः

6.73.4

करौ पातु दाशरथिः पादौ मे विश्वरूपधृक् ।
चक्षुषी पातु वै देव सीतापतिरनुत्तमः

6.73.5

शिखां मे पातु विश्वात्मा कर्णौ मे पातु कामदः ।
पार्श्वयोस्तु सुरत्राता कालकोटिदुरासदः

6.73.6

अनंतः सर्वदा पातु शरीरं विश्वनायकः ।
जिह्वां मे पातु पापघ्नो लोकशिक्षाप्रवर्त्तकः

6.73.7

राघवः पातु मे दंतान्केशान्रक्षतु केशवः ।
सक्थिनी पातु मे दत्त विजयो नाम विश्वसृक्

6.73.8

एतां रामबलोपेतां रक्षां यो वै पुमान्पठेत् ।
स चिरायुः सुखी विद्वान्लभते दिव्यसंपदम्

6.73.9

रक्षां करोति भूतेभ्यः सदा रक्षा तु वैष्णवी ।
रामेति रामभद्रेति रामचंद्रेति यः स्मरेत्

6.73.10

विमुक्तः स नरः पापान्मुक्तिं प्राप्नोति शाश्वतीम् ।
वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे

6.73.11

ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति ।
नारदेन तु भूर्लोके प्रापितं सुजनेष्विह

6.73.12

सुप्त्वावाथ गृहे वापि मार्गे गच्छंत एव वा ।
ये पठंति नरश्रेष्ठास्ते नराः पुण्यभागिनः

6.73.73

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे रामक्षास्तोत्रंनाम त्रिसप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc