भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.72

6.72.1

श्रीमहादेव उवाच-
ब्राह्मणा वा क्षत्रिया वा वैश्या वा गिरिकन्यके ।
शूद्रा वाथ विशेषेण पठंत्यनुदिनं यदि

6.72.2

धनधान्यसमायुक्ता यांति विष्णोः परं पदम् ।
श्लोकं वा श्लोकमर्द्धं वा पादं पादार्द्धमेव वा

6.72.3

पठनान्मोक्षमाप्नोति यावदाभूतसंप्लवम् ।
विन्यासेन युतं देवि विष्णोर्नामसहस्रकम्

6.72.4

ये पठंति नरश्रेष्ठास्ते यांति पदमव्ययम् ।
एककालं द्विकालं वा त्रिकालं वाथ यः पठेत्

6.72.5

धनायुर्वर्धते तस्य यावदिंद्राश्चतुर्दश ।
पुत्रान्पौत्रांस्तथालक्ष्मी संपदं विपुलां लभेत्

6.72.6

किमन्यद्बहुनोक्तेन भूयो भूयो वरानने ।
विष्णोर्नामसहस्रं तु परं निर्वाणदायकम्

6.72.7

पूजनं प्रथमं तस्य कृतं येन नरेण तु ।
संपूर्णं पूजिते विष्णौ तस्य पूजा च वार्षिकी

6.72.8

व्यग्रत्वं च न कर्त्तव्यं पठने तु विशेषतः ।
यदि चेत्क्रियते पाठे ह्यायुर्वित्तं च नश्यति

6.72.9

यावंति भुवि तीर्थानि जंबुद्वीपेषु सर्वदा ।
तानि तीर्थानि तत्रैव विष्णोर्नामसहस्रकम्

6.72.10

तत्रैव गंगा यमुना च वेणी गोदावरी तत्र सरस्वती च ।
सर्वाणि तीर्थानि वसंति तत्र यत्र स्थितं नामसहस्रकं तत्

6.72.11

इदं पवित्रं परमं भक्तानां वल्लभं सदा ।
ध्येयं हि दासभावेन भक्तिभावेन चेतसा

6.72.12

परं सहस्रनामाख्यं ये पठंति मनीषिणः ।
सर्वपापविनिर्मुक्तास्ते यांति हरिसंनिधौ

6.72.13

अरुणोदयकाले तु ये पठंति जपंति च ।
आयुर्बलं च तेषां श्रीर्वर्द्धते च दिनेदिने

6.72.14

रात्रौ जागरणे प्राप्ते कलौ भागवतो नरः ।
पठनान्मुक्तिमाप्नोति यावदिंद्राश्चतुर्दश

6.72.15

एकैकेन तु नाम्ना वै हरौ तुलसिकारणात् ।
पूजा सा चैव विज्ञेया कोटियज्ञफलाधिका

6.72.16

मार्गे च गच्छमानास्तु ये पठंति द्विजातयः ।
न दोषा मार्गजास्तेषां भवंति किल पार्वति

6.72.17

शृणु देवि प्रवक्ष्यामि माहात्म्यं केशवस्य तु ।
ये शृण्वंति नरश्रेष्ठास्ते पुण्याः पुण्यरूपिणः

6.72.72

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे सहस्रनाममहिमानाम द्विसप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc