भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.74

6.74.1

महादेव उवाच-
शृणु देवि प्रवक्ष्यामि धर्ममाहात्म्यमुत्तमम् ।
यच्छ्रुत्वा न पुनर्जन्म जायते भुवि कर्हिचित्

6.74.2

धर्मादर्थं च कामं च मोक्षं चैतत्त्रयं लभेत् ।
तस्माद्धर्मं समीहेत विद्वान्यः स बुधः स्मृतः

6.74.3

तपसा चैव दानेन व्रतेन नियमेन च ।
तपसा प्राप्यते स्वर्गः सात्विकेन तथैव च

6.74.4

इहायातो लभेद्राज्यं क्रोधलोभविवर्जितः ।
जन्मांतरेण मुक्तिः स्यात्पदं विंदति वैष्णवम्

6.74.5

तपसा राजसेनेह राजसश्चैव जायते ।
तप्त्वा तामसभावेन क्रूरकर्मा हि निष्ठुरः

6.74.6

तपस्तद्रक्षसां चोक्तं भुक्तिदं तामसात्मनाम् ।
यत्तप्तं सात्विकं चैव तत्तपो भवति ध्रुवम्

6.74.7

रजस्तमोभ्यां नियतं तपस्यां वने सतां वायुभुजां सुनिर्जने ।
तपस्विनां चैव धनादिवांच्छतां वनेऽपि दोषाः प्रभवंति रागिणाम्

6.74.8

गृहेऽपि पंचेंद्रियनिग्रहस्तपस्त्वकुत्सिते कर्मणि यः प्रवर्त्तते ।
निवृत्तरागस्य तपोवनं गृहं गृहाश्रमोऽतो गदितः स्वधर्मः

6.74.9

सुदुस्तरः सत्वजितेंद्रियाणां संहन्यते श्रेष्ठतमः शुभाश्रमः ।
गृहस्तु धर्मः प्रवरो मनीषिणां ब्रह्मादिभिश्चाभिहितो नगात्मजे

6.74.10

तप्त्वा तपस्वी विपिने क्षुधार्तो गृहं समायाति सदान्नदातुः ।
भक्त्या स चान्नं प्रददाति तस्मै तपोविभागं भजते हि तस्य

6.74.11

गृहाश्रमं ज्येष्ठमिहाश्रमाणां सम्यक्च यः पालयते मनुष्यः ।
इहैव भुंजन्समनुष्यभोगान्स्वर्गं प्रयातीति न संशयोऽत्र ।
गृहं सदा पालयतां नराणां पापं समायाति कथं हि देवि

6.74.12

गृहाश्रमः पुण्यतमः सर्वदा तीर्थवद्गृहम् ।
अस्मिन्गृहाश्रमे पुण्ये दानं देयं विशेषतः

6.74.13

देवानां पूजनं यत्र अतिथीनां च भोजनम् ।
पथिकानां च शरणं अतो धन्यतमो मतः

6.74.14

तद्गृहं तु समाश्रित्य येऽर्चयंति द्विजान्नराः ।
आयुर्लक्ष्मीस्तथा पुत्रा न हीयंते कदाचन

6.74.15

शृणु सुंदरि वक्ष्यामि महापापविशोधनम् ।
सर्वसंपत्करं दानं इहामुत्रफलप्रदम्

6.74.16

शुभेकाले समायाते समभ्यर्च्य स्वदैवतम् ।
नित्यं नैमित्तकं कृत्वा दद्याद्दानं स्वशक्तितः

6.74.17

गृहीत्वा परद्रव्यं च द्विजदेवेभ्य एव हि ।
दद्यात्स निरयं दृष्ट्वा पश्चाद्याति परां गतिम्

6.74.18

शतानीको यथा दानात्सपुत्रश्चैव तारितः ।
दत्त्वान्ये च द्विजेभ्यश्च स गंता धर्मतो दिवम्

6.74.19

धर्मस्थानेषु यैर्दत्तं तेषां धर्ममुदाहृतम् ।
शृणु देवि प्रवक्ष्यामि वित्तदानं समासतः

6.74.20

देहशुद्धिकरं दानं न भूतं न भविष्यति ।
पापहीनो येन पुमान्जायते नात्र संशयः

6.74.21

भोगान्भुक्त्वा ततश्चायं याति विष्णुं सनातनम् ।
पुरा वै ब्रह्मणा प्रोक्तं भार्गवाय महात्मने

6.74.22

पापयुक्ताय रामाय तुलावृषभमेव च ।
पापकर्मरतश्चैव भवबंधक्रियो नृपः

6.74.23

अभक्षभक्षणरता भ्रूणहा गुरुतल्पगः ।
एतेप्यनृतवादी च प्रसूयंते वियोनिषु

6.74.24

अयाज्ययाजनं कृत्वा याचयित्वा तु निंदितान् ।
सदा कोपसमायुक्ताः साधूनां पीडने रताः

6.74.25

विश्वासोपहताश्चैषामसुभिर्धर्मनिंदकाः ।
पापैरेभिः समायुक्ता ज्ञात्वात्मानं गतायुषम्

6.74.26

इति ज्ञात्वा तु तैर्देवि दानं देयं विशेषतः ।
बहवो धर्मकर्त्तारो वैष्णवा भुवि विश्रुताः

6.74.74

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे दानधर्मोनाम चतुःसप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc