भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.70

6.70.1

नारद उवाच-
देवदेव जगन्नाथ भुक्तिमुक्तिप्रदायक ।
कथयस्व सुरश्रेष्ठ येन दुःखं न पश्यति

6.70.2

महेश उवाच-
शृणु वाडव वक्ष्यामि त्रिरात्रं सरितः शुभम् ।
येन चीर्णेन नरको मानवानां न जायते

6.70.3

आयुरारोग्यमतुलं सौभाग्यं सुखसंपदम् ।
संतानं चाक्षयं प्राप्य स्वर्गलोके महीयते

6.70.4

आषाढमासि संप्राप्ते नदीपूरेण संयुता ।
सततं तोयसंस्थाने पुराणे सा च विश्रुता

6.70.5

वर्षर्तौ घनसंपूर्णे कर्तव्या सा व्रतेन वा ।
तोयोघैः परिपूर्णा सा सकलैः स्यान्नदी यदा

6.70.6

व्रतं त्रिरात्रमुद्दिश्य तदा कार्यं प्रयत्नतः ।
कृतं प्रतिपदा छंदः दर्शनं तु दिनत्रयम्

6.70.7

यथाप्राप्तं नदीपूरं स्त्रीभिस्तीरजलस्य तु ।
अथवा तज्जलं कुंभे कृष्णे कृत्वा गृहं नयेत्

6.70.8

प्रातःस्नायी तथा नद्यां गत्वा अभ्यर्चयेत्सुधीः ।
त्रिरात्रस्योपवासस्य यथाशक्तो भवेद्दिवज

6.70.9

अशक्तश्चैकभक्तेन कुर्याच्चैवाप्युपोषणम् ।
दीपं दद्यादविछिन्नं प्रातःसायं च पूजनम्

6.70.10

महानदीं समुच्चार्य नाम्ना च वरुणं तथा ।
जलमूले तु संस्थाप्य केशवं जलशायिनम्

6.70.11

नमो देव्यै च गंगेति गौतमीति नदीति च ।
सिंधो चैव च कावेरि सरस्वति नमोऽस्तु ते

6.70.12

तापी पयोष्णी पूर्णेति महेंद्रसुखदेति च ।
काश्यपी गंडकी चैव सिंधुनद्यै नमोनमः

6.70.13

वरुणाय नमस्तेऽस्तु जलवासहरिप्रिय ।
यादोनाथ रसेशान कल्याणं देहि मे सदा

6.70.14

गृहाणार्घं मया दत्तं देहि मे वांछितं फलम् ।
कूष्मांडैर्नालिकेरैश्च फलैः कालोद्भवैः शुभैः

6.70.15

नैवेद्यं घृतपक्वं तु सरितः संप्रकल्पयेत् ।
नमस्ते केशवानंत जलशायिन्नमोऽस्तु ते

6.70.16

परिपालय मामीश गोविंदवरदो भव ।
एवं पूजा प्रकर्तव्या यथाकालं क्रमेण तु

6.70.17

प्रार्थना चोपचारैस्तु त्रिरात्रनियमः शुचिः ।
पारणेन तु संपूज्य जलपात्रं समाचरेत्

6.70.18

फलपुष्पैस्तथा विद्वन्स्त्रीभिर्बालैर्नरैरपि ।
गीतवादित्रसहितैर्नदी कुंभ परिप्लुतैः

6.70.19

जलेजले समास्थाप्य फलपुष्पैः प्रपूजयेत् ।
धान्यैर्नानाविधैश्चैव जलप्रक्षेपणैरपि

6.70.20

हास्यैर्गीतैश्च नृत्यैश्च गृहमागत्य यत्नतः ।
सप्तधान्यैः पूरितानि वंशपात्राणि पूजयेत्

6.70.21

सप्त वा पंच वा त्रीणि यथाशक्त्या प्रपूरयेत् ।
त्रिरात्रं च नदीतोयं न पिबेद्धितमुल्लसन्

6.70.22

पारणे तु हविष्यान्नं हृतं वा ह्यन्यथा भवेत् ।
कृते स्नानार्चने चैव नोपयोज्यं नदीजलम्

6.70.23

शुच्यन्नानि च भोज्यानि दापयत्त्रितयं तथा ।
सप्तैव वंशपात्राणि सप्त वै मणिकास्तथा

6.70.24

हविष्यान्नं च भुंजीत कट्वम्लमधुवर्जितम् ।
माषान्नं च शिलापिष्टं यत्नेन परिवर्जयेत्

6.70.25

एवं वर्षत्रयं कुर्याद्व्रतमेतद्दिवजोत्तम ।
वर्षत्रये समाप्यैवं तस्योद्यापनमाचरेत्

6.70.26

कृष्णां गां कृष्णवस्त्रां च तिलान्दद्याच्च नारद ।
दंपती परिदाप्यैवं सुवर्णं चापि शक्तितः

6.70.27

हैमं च वरुणं कुर्यान्नदीरूपेण नारद ।
मंडलं वारुणं चैव सर्वतोभद्रमेव च

6.70.28

कुंभं तत्र प्रतिष्ठाप्य सोपहारं प्रतिष्ठितम् ।
संपूज्य विधिवद्भक्त्या ततो विप्राय दापयेत्

6.70.29

ब्राह्मणान्भोजयेच्छक्त्या यथावित्तानुसारतः ।
गुरवेर्चितशीलाय सर्वशास्त्ररताय च

6.70.30

एवं कृते तदा विद्वन्परिपूर्णं व्रतं भवेत् ।
सौभाग्यसुखसंपत्तिः संततिश्चाक्षया भवेत्

6.70.31

न दुर्गतिमवाप्नोति चिरं स्वर्गे महीयते ।
देवपत्नीभिराचीर्णमृषिपत्नीभिरेव च

6.70.32

नागसिद्धांगनाभिश्च व्रतमेतत्पुरा कृतम् ।
नदीत्रिरात्रमतुलं किमन्यच्छ्रोतुमिच्छसि ।
सौभाग्यं संततिं चैव निश्चयं प्राप्नुते सदा

6.70.70

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे नदीत्रिरात्रव्रतं नाम सप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc