भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.69

6.69.1

नारद उवाच-
उपवासासमर्थानां सदैवामरसत्तम ।
एका या द्वादशी पुण्या तां वदस्व ममानघ

6.69.2

शिव उवाच-
मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता ।
सा वै सर्वप्रदा पुण्या ह्युपवासे महाफला

6.69.3

संगमे सरितः स्नात्वा द्वादशीं तामुपोषितः ।
अयत्नात्समवाप्नोति द्वादश द्वादशीफलम्

6.69.4

बुधश्रवणसंयुक्ता या च वै द्वादशी भवेत् ।
अतीव महती तस्यां कृतं सर्वमथाक्षयम्

6.69.5

द्वादशी श्रवणोपेता यदा भवति नारद ।
संगमे सरितां स्नात्वा लभेद्गोदानजं फलम्

6.69.6

जलपूर्णं तदा कुंभं स्थापयित्वा विचक्षणः ।
तस्योपरि न्यसेत्पात्रं स्थापयित्वा जनार्दनम्

6.69.7

ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम् ।
सोदकांश्च नवान्कुंभान्दद्याच्छक्त्या विचक्षणः

6.69.8

एवं संपूज्य गोविंदं जागरं तत्र कारयेत् ।
प्रभाते विमले स्नात्वा संपूज्य गरुडध्वजम्

6.69.9

पुष्पधूपादि नैवेद्यैः फलैर्वस्त्रैः सुशोभनैः ।
पुष्पांजलिं ततो दद्यान्मंत्रमेनमुदीरयेत्

6.69.10

नमो नमस्ते गोविंद बुधश्रवणसंयुत ।
अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव

6.69.11

अन्नं तु ब्राह्मणे पूतं वेदवेदांगपारगे ।
पुराणज्ञे विशेषेण विधिवत्संप्रदापयेत्

6.69.12

अनेन विधिना चैव नद्यास्तीरे नरोत्तमः ।
सर्वं निर्वर्त्तयेत्सम्यगेकचित्तरतोऽपि सन्

6.69.13

अत्राप्युदाहरंतीममितिहासं पुरातनम् ।
महत्यरण्ये यद्वृतं भूमिदेव शृणुष्व तत्

6.69.14

यं श्रुत्वा मानवो लोके महादुःखात्प्रमुच्यते ।
देशो दासरको नाम तस्य भागे च पश्चिमे

6.69.15

तत्र विद्वन्मरुर्देशः सर्वसत्वभयंकरः ।
सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः

6.69.16

अल्पच्छायाद्रुमाकीर्णा मृतप्राणिसमाकुला ।
शमीखदिरपालाशकरीरैः पीलुभिः सह

6.69.17

तत्र भीमा द्रुमगणाः कंटकैरचिता दृढैः ।
जग्धप्राणजनाकीर्णा यत्र भूर्दृश्यते क्वचित्

6.69.18

तथापि जीवा जीवंति सर्वे कर्मनिबंधनात् ।
नोदकं नोदकाधारा विद्वंस्तत्र बलाहकाः

6.69.19

पक्षांतरगतैः कैश्चिच्छिशुभिस्तृषितैः समम् ।
उत्क्रांतजीविनो विप्र दृश्यंते नु खगोत्तमाः

6.69.20

तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक् ।
निजसार्थपरिभ्रष्टः प्रविष्टो मरुजांगले

6.69.21

बभ्रामोद्भ्रांतहृदयः क्षुत्तृट्भ्यां श्रमपीडितः ।
क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध ह

6.69.22

अथ प्रेतान्ददर्शासौ क्षुत्तृषाव्याकुलेंद्रियान् ।
उत्कटान्खलिनो भीमान्निर्मांसान्रौद्रदर्शनान्

6.69.23

प्रेतस्कंधसमारूढमेकं विकृतदर्शनम् ।
ददर्श बहुभिः प्रेतैः समंतात्परिवारितम्

6.69.24

अगच्छमानमत्युग्रं प्रेतशब्दपुरःसरम् ।
प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नरम्

6.69.25

प्रेतस्कंधान्महीं गत्वा तस्यांतिकमुपागमत् ।
प्रणिपत्य वणिक्श्रेष्ठमिदं वचनमब्रवीत्

6.69.26

अस्मिन्घोरतरे देशे प्रवेशो भवतः कथम् ।
तमुवाच वणिक्धीमान्सार्थभ्रष्टस्य मे वने

6.69.27

प्रवेशो दैवयोगेन पूर्वकर्मकृतेन च ।
तृषा मे बाधतेऽत्यर्थं क्षुधा चैव भृशं तथा

6.69.28

प्राणांतिकमनुप्राप्तं वचनं भ्रमतीव मे ।
अत्रोपायं न पश्यामि जीवेयं येन केनचित्

6.69.29

इत्येवमुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत् ।
फुल्लां शमीं समाश्रित्य प्रतीक्ष त्वं मुहूर्त्तकम्

6.69.30

कृतातिथ्यो मया पश्चाद्गमिष्यसि यथासुखम् ।
एवमुक्तस्तथा चक्रे स वणिक्तृष्णयार्दितः

6.69.31

मध्याह्नसमये प्राप्ते प्रेतस्तं देशमागतः ।
फुल्लां सवृक्षां शीतोदां वारिधानीं मनोरमाम्

6.69.32

दध्योदनसमायुक्तां वर्द्धमानेन संयुताम् ।
अवतीर्य ततः स्वन्नं प्रादादतिथये तदा

6.69.33

स तत्राशनमात्रेण परं तृप्तित्वमागतः ।
वितृष्णो विज्वरश्चैव क्षणेन समपद्यत

6.69.34

ततश्च प्रेताः संप्राप्ताः सोऽस्माद्भागं क्रमाद्ददौ ।
दध्योदनात्सपानीयात्प्रेतास्तृप्तिं परां गताः

6.69.35

अतिथिं तर्पयित्वा तु प्रेतलोकं च सर्वतः ।
ततः स्वयं स बुभुजे भुक्तशेषं यथासुखम्

6.69.36

तस्य भुक्तवतः स्वन्नं पानीयं च क्षयं ययौ ।
प्रेताधिपं ततस्तं वै वणिग्वचनमब्रवीत्

6.69.37

आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे ।
अन्नं पानं च परमं संप्राप्तं च कुतस्तव

6.69.38

स्वल्पेनैव तथान्नेन त्वमेतांस्तु बहूनपि ।
अतर्पयः कथं त्वेते निर्मांसा भिन्नकुक्षयः

6.69.39

कथमस्यां सुघोरायामटव्यां च कृतालयाः ।
तदेतत्संशयं छिंधि परं कौतूहलं मम

6.69.40

एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत् ।
वाणिज्यसक्तस्य पुरा जन्मातीते ममानघ

6.69.41

सकले नगरे नास्ति ममान्यो हि दुरात्मकः ।
धनलोभान्न कस्यापि दत्ता भिक्षा मया तदा

6.69.42

सखा चैव ततश्चासीद्ब्राह्मणो गुणवान्मम ।
श्रावणद्वादशीयोगे मासि भाद्रपदे ततः

6.69.43

स कदाचिन्मया सार्द्धं तापीं नाम नदीं ययौ ।
तस्याश्च संगमः पुण्यो यत्रासीच्चंद्रभागया

6.69.44

चंद्रभागा चंद्रसुता तापी चैवार्कनंदिनी ।
तयोः शीतोष्णसलिले प्रविवेश स ह द्विजः

6.69.45

श्रवणद्वादशीयोगे नराश्च समुपोषिताः ।
चंद्रभागा सुतो येन वारिधानीं ददुर्द्विजे

6.69.46

दध्योदनयुतां सार्द्धं संपूर्णैर्वर्द्धमानकैः ।
छत्रोपानद्युगं वस्त्रं प्रतिमां च तथा हरेः

6.69.47

प्रददौ विप्रमुख्येभ्यो हरस्याग्रे महामते ।
वित्तसंरक्षणार्थाय तस्यास्तीरे व्रते मया

6.69.48

सोपवासेन दत्तैका वारिधानी मनोरमा ।
तत्कृत्वाहं गृहं प्राप्तः ततः कालेन केनचित्

6.69.49

पंचत्त्वमहमासाद्य नास्तिक्यात्प्रेततां गतः ।
अस्यामटव्यां घोरायां यथा ह्यहिकुलं तथा

6.69.6.69.50

श्रवणद्वादशीयोगे वारिधान्यर्पिता मया ।
सेयं मध्याह्नसमये लभ्यते च दिनेदिने

6.69.51

ब्रह्मस्वरूपिणः सर्वे पापाः प्रेतत्वमागताः ।
परदारगताः केचित्स्वामिद्रोहरताश्च ये

6.69.52

भूतप्रेतजरूपेण ते जाता ह्यत्र मानवाः ।
देशे मरुस्थले त्वस्मिन्ममैते मित्रतां गताः

6.69.53

अक्षयो भगवान्विष्णुः परमात्मा सनातनः ।
दीयते यत्समुद्दिश्य ह्यक्षयं तत्प्रकीर्तनम्

6.69.54

अक्षयेनापि चान्नेन तृप्ता एते पुनः पुनः ।
प्रेतत्वभावं दौर्बल्यं न विमुंचति कर्हिचित्

6.69.55

पूजयित्वाहमन्नैस्त्वामतिथिं समुपस्थितम् ।
प्रेतभावाद्विनिर्मुक्तो यास्यामि परमां गतिम्

6.69.56

मया विहीनाः किंत्वेते वनेऽस्मिन्भृशदारुणे ।
पीडामनुभविष्यंति दारुणां कर्मयोनिजाम्

6.69.57

एतेषां तु महाभाग ममानुग्रहकाम्यया ।
प्रत्येकं नामगोत्राणि गृह्णीष्व लिखितानि च

6.69.58

अस्ति कक्षागता चैव तव संपुटिका शुभा ।
हिमवंतमथासाद्य तत्र त्वं लप्स्यसे निधिम्

6.69.59

गयाशीर्षं ततो गत्वा श्राद्धं कुरु महामते ।
इत्याज्ञाप्य स वै प्रेतो वणिजं च यथासुखम्

6.69.60

विसर्जयामास तदा स वै प्रायात्समुत्सुकः ।
समासाद्य गृहं तत्र पश्चात्प्रायाद्धिमालयम्

6.69.61

ततो दृष्टं निधिं तत्र गृहीत्वा स समागतः ।
षष्ठांशं प्रतिगृह्याथ गयाशीर्षं ततोऽभ्यगात्

6.69.62

तत्र गत्वा गयायां स श्राद्धं कृत्वा महामतिः ।
प्रेतानां तु यथोद्दिष्टं श्राद्धं सम्यग्विधानतः

6.69.63

प्रत्येकं नामगोत्राणि गृहीत्वा पिंडमुत्सृजत् ।
यस्य यस्य भवेच्छ्राद्धं स करोति दिने वणिक्

6.69.64

स स तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुम् ।
ब्रवीति च महाभाग प्रसादाद्भवतोऽनघ

6.69.65

प्रेतभावं मया त्यक्तं प्राप्तोऽस्मि परमां गतिम् ।
एवं कृत्वा विधानेन गयाशीर्षं महामनाः

6.69.66

पश्चाज्जगाम स्वगृहं विष्णुं ध्यायन्पुनः पुनः ।
मासि भाद्रपदे प्राप्ते शुक्लपक्षे तथा सुधीः

6.69.67

श्रवणद्वादशीयोगे संगमे सरितां पुनः ।
जगाम स महाबुद्धिः सर्वोपस्करसंयुतः

6.69.68

संगमे सरितां स्नात्वा द्वादशीं तामुपोषितः ।
तत्र स्नात्वापि दत्त्वा तु पूजयित्वा जनार्दनम्

6.69.69

अनंतरं ब्राह्मणस्य ह्युपहारांस्तदा ददौ ।
शास्त्रोक्तेनापि विधिना ह्येकचित्तरतोऽपि सः

6.69.70

निवर्त्तयामास तदा वणिजो बुद्धिमान्स वै ।
वर्षेवर्षे तु संप्राप्ते मासि भाद्रपदे तथा

6.69.71

श्रवणद्वादशीयोगे संगमे सरितां पुनः ।
एवं वै कृतवान्सर्वं विष्णुमुद्दिश्य सत्वरम्

6.69.72

कालेन चातिमहता पंचत्वं समुपागतः ।
अवाप परमं स्थानं दुर्लभं सर्वमानवैः

6.69.73

क्रीडतेऽद्यापि वैकुंठे विष्णुदूतैः स सेवितः ।
एवं कुरु त्वं भो ब्रह्मन्श्रवणद्वादशीव्रतम्

6.69.74

सर्वसौभाग्यदं चैव इह लोके परत्र च ।
सुबुद्धिजननं चैव सर्वपापहरं परम्

6.69.75

श्रवणद्वादशीयोगे यः कुर्याद्व्रतमीदृशम् ।
व्रतस्यास्य प्रभावेन विष्णुलोकं च गच्छति

6.69.69

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे श्रवणद्वादशीव्रतनामैकोनसप्ततितमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc