भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.7

6.7.1

नारद उवाच-
ततो जालंधरः क्रुद्धः प्राह तं दैत्यसूदनम् ।
कपटेन बलं हत्वा क्व यास्यसि बलाधम

6.7.2

इत्युक्त्वा तं शतमखं सिंधुसूनुः प्रतापवान् ।
ससूताश्वध्वजरथं छादयामास मार्गणैः

6.7.3

पपात मूर्च्छितः शक्रो रथोपरि शरैः क्षतः ।
दृष्ट्वा तं पतितं शक्रं जगर्जार्णवनंदनः

6.7.4

मूर्च्छां त्यक्त्वा मुमोचेंद्रो वज्रं जालंधरं प्रति ।
तदाद्रिदलनं हस्ते गृहीत्वा सिंधुसंभवः

6.7.5

वज्रं कक्षापुटे धृत्वा रथादुत्तीर्य सत्वरम् ।
अभ्यधावत दैत्येंद्रो देवेंद्रं धर्तुमाहवे

6.7.6

ततो दुद्राव मघवा रथं त्यक्त्वा हरिं स्मरन् ।
रथमिंद्रस्य मदवानारुह्यार्णवनंदनः

6.7.7

यंतारं मातलिं कृत्वा ययौ प्राप्तमनोरथः ।
रथमिंद्रस्य तरसा यत्र यत्र ययौ बले

6.7.8

जालंधरो महाबाहुः स्वयं चांबुधरो यथा ।
ततः स कोपात्पुरुषोत्तमः स्वयं खड्गं समुद्यम्य च नंदकं रणे

6.7.9

संप्रेरयित्वा गरुडं मनोजवं जघान कोपेन च दैत्यवाहिनीम् ।
रथान्हयान्कुंजरपत्तिसंघान्स पातयामास बलात्सहस्रशः

6.7.10

जनार्दनः कश्यपसूनुसंवृतश्चकार संख्ये चरितं भयावहम् ।
केशास्थिमज्जारुधिरौघवाहिनीं पिशाचवेतालविहंगसेविताम्

6.7.11

करोरुजंघायुधशस्त्रपूरितां सुदुस्तरां व्याघ्रगजेंद्र सेविताम् ।
रक्तांत्रहारांगदभूषितांतां विघूर्णनेत्रोत्सवकांतिवाससम्

6.7.12

विष्णुना निहतं सैन्यं दृष्ट्वा दानवपुंगवाः ।
जालंधराज्ञया सर्वे रुरुधुः परितो हरिम्

6.7.13

दैत्यास्ते तत्र बाणौघान्वर्षमाणा यथांबुदाः ।
यथाद्विरेफाः कमलं पर्वतं जलदा इव

6.7.14

चूतं यथा पक्षिगणा गगनं धूपसंचयः ।
न दृश्योऽभूत्तदा विष्णुर्न तार्क्ष्यो रणसंकटे

6.7.15

सर्वे ते रथमारूढा सर्वशस्त्रैर्महासुराः ।
वैकुंठाधिपतिं जघ्नुर्गर्जंतो भीमनिस्वनैः

6.7.16

तान्सर्वान्भीमरूपेण दैत्यारिः कुपितस्तदा ।
रणे निपातयामास वायुः पर्णचयं यथा

6.7.17

शैलरोमा ततो विष्णुं दैत्यः कोपादधावत ।
हरेरपि शरास्तस्य शरीरे शीर्णतां गताः

6.7.18

शैलरोमा च दैत्यारि शरीरं चाहनच्छरैः ।
हरिः खड्गं विनिर्धूय शिरस्तस्य जहार ह

6.7.19

छिन्ने शिरसि दैत्यस्य कबंधो विक्रमन्रणे ।
शैलरोमा भुजाभ्यां च तार्क्ष्यं जग्राह पक्षयोः

6.7.20

शिरश्चोत्पत्य तरसा विलग्नं स्कंधयोर्दृढम् ।
ततस्तत्रास्ययुद्धेन हृषीकेशोऽपि विस्मितः

6.7.21

शिरः संलग्नमालोक्य गरुडो न्यपतद्भुवि ।
पुनश्चोत्पत्य वेगेन शिरःस्थानं समाश्रयत्

6.7.22

शैलरोमा ततो विष्णुं जहार गरुडाद्बली ।
हरिर्जघ्ने तलेनाशु गतायुश्चापतद्भुवि

6.7.23

ततो जालंधरः सूतं खड्गरोमाणमब्रवीत् ।
संप्रेषय रथं तत्र यत्र देवो जनार्दनः

6.7.24

जालंधरस्य वचनात्खङ्गरोमानयद्रथम् ।
दृष्ट्वा तं पुरतो विष्णुमुवाचार्णवनंदनः

6.7.25

निःशंकं जहि मां विष्णो नाहं त्वा हन्मि माधव ।
तस्य तद्वचनं श्रुत्वा क्रोधसंरक्तलोचनः

6.7.26

नारायणः प्राणहरैः शरैरेनमपूरयत् ।
विष्णुना च विभिन्नांगोऽर्णवसूनुः प्रतापवान्

6.7.27

हरिं संपूरयामास मार्गणौघैर्निरंतरम् ।
नारायणः प्राणहरैः शरैरेनमपूरयत्

6.7.28

गरुडं पतितं दृष्ट्वासिंधुसूनोः शरैर्भुवि ।
रथं संस्मारयामास वैकुंठस्थं जनार्दनः

6.7.29

सरथस्तस्य संप्राप्तः सूतहीनो हयैर्वृतः ।
अश्वैर्युतं रथं दृष्ट्वा विस्मितो भगवान्रणे

6.7.30

संबोधयित्वा गरुडं सारथ्ये समयोजयत् ।
स धृत्वा मुकुटं मूर्ध्नि कौस्तुभं हृदये मणिम्

6.7.31

पुरुषार्थान्हयान्कृत्वा ययौ जालंधरं हरिः ।
मेदिनीं रथचक्रेण दारयंश्च सुरैः सह

6.7.32

जघान तरसा बाणैर्दानवानां च वाहिनीम् ।
देवराजेन संदिष्टो वीतिहोत्रो रणांगणे

6.7.33

ददाह दानवानीकं समीरणसमन्वितम् ।
तदाह तं भगवता दैत्यसैन्यं सुरैः सह

6.7.34

जालंधरः स्वल्पशेषं दध्यौ दृष्ट्वा बलं स्वकम् ।
अथाह भार्गवं राजा मत्सैन्यं निहतं सुरैः

6.7.35

त्वयि तिष्ठति मंत्रज्ञे विख्यातो विद्यया भवान् ।
किं तया विद्यया ब्रह्मन्क्षत्रेणाथ बलेन च

6.7.36

या न रक्षति रोगार्तान्यद्बलं शरणागतान् ।
जालंधरवचः श्रुत्वा भार्गवस्तमभाषत

6.7.37

पश्य राजन्मम बलं ब्राह्मणस्य रणांगणे ।
इत्युक्त्वा वारिणा स्पृष्टा हुंकारेण प्रबोधिताः

6.7.38

उत्थापितास्ते कविना शरौघैः प्राणहारकैः ।
देवाहता रणे पेतुः समंतात्सिंधुसूनुना

6.7.39

बाणैर्जर्जरदेहास्ते धृतप्राणा नराधिप ।
न मृतास्त्वमरत्वाच्च बाणैर्भिन्नाश्च सत्तम

6.7.40

ततो नारायणो देवो बृहस्पतिमभाषत ।
धिग्बलं दैवतगुरो यो न जीवयसे सुरान्

6.7.41

धिषणस्तु जगन्नाथमुवाच त्वरितं तदा ।
ओषधीभिरहं स्वामिन्जीवयिष्यामि निर्जरान्

6.7.42

इत्युक्त्वा धिषणः सोऽपि ययौ क्षीरार्णवस्थितम् ।
द्रोणमद्रिं तदा गत्वा सुखं गृह्यौषधीः स्वयम्

6.7.43

गुरुस्तासां च योगेन जीवयामास निर्जरान् ।
उत्थितास्ते ततो देवा जघ्नुर्दानववाहिनीम्

6.7.44

देवान्समुत्थितान्दृष्ट्वा बभाषे सिंधुजः कविम् ।
विना त्वद्विद्यया काव्य कथमेते समुत्थिताः

6.7.45

इति दैत्योक्तमाकर्ण्य शुक्रः प्राहार्णवात्मजम् ।
क्षीरसागरमध्यस्थो द्रोणोनाम महागिरिः

6.7.46

औषध्यस्तत्र तिष्ठंति जीवयंति च या मृतान् ।
तत्र गत्वा सुराचार्यो गृहीत्वोषधिसंचयम्

6.7.47

रणे विनिहतान्देवानुत्थापयति मंत्रतः ।
भार्गवोक्तमथाकर्ण्य सैन्यभारं महाबलः

6.7.48

शुंभे निक्षिप्य तरसा ययौ जालंधरोऽर्णवम् ।
अथ प्रविष्टः क्षीराब्धौ वेश्मदिव्यं महाप्रभम्

6.7.49

प्रविश्य तत्र क्षीराब्धेः क्रीडास्थानं ददर्श सः ।
नोष्णो न शीतलो वायुर्न तमो यत्र दृश्यते

6.7.6.7.50

यत्र गायंति नृत्यंति क्रीडंति च वरस्त्रियः ।
सुपीनस्तनभाराढ्याः कृशोदर्यः सुदंतिकाः

6.7.51

नेत्रविभ्रमविक्षेपैर्नितंबपरिवर्त्तनैः ।
अंगैः संमोहनै रम्यैर्बाहुवल्लीविचालनैः

6.7.52

पादविन्यासरणि तैर्मधुरैर्वचनस्तवैः ।
सौगंध्यसौख्यदैर्वासैर्नेत्रभ्रमरहुंकृतैः

6.7.54

चामरांदोललीलाभिः स्रग्भिः स्मितविलोकितैः।
सेवां चक्रुर्विलासिन्यस्तत्र सुतः॥५३॥।
क्रीडंतं तत्र दुग्धाब्धिं संवीक्ष्य समरोत्सुकः।
अथाह प्रणिपत्यासौ क्षीराब्धिं तात हंसि माम्।
द्रोणाचलौषधीर्व्याजादंबुभिः प्लावयस्वतः

6.7.55

क्षीरसागर उवाच-।
तं प्राप्तं शरणं पुत्र प्लावयाम्यूर्मिभिः कथम् ।
मुनींद्रास्तं न शंसंति यस्त्यजेच्छरणागतम्

6.7.56

पितृव्यवचनं श्रुत्वा संक्रोधात्संततं गिरिम् ।
तलप्रहरणेनैव ताडयामास दैत्यराट्

6.7.57

ततो द्रोणगिरी राजन्भीतो जालंधराद्भृशम् ।
अथाजगाम रूपेण प्राह जालंधरं प्रति

6.7.58

तवाहमभवं दासो रक्ष मां शरणागतम् ।
रसातलं महाबाहो यास्यामि तव शासनात्

6.7.59

यावत्त्वं कुरुषे राज्यं तावत्स्थास्याम्यहं प्रभो ।
ओषधीनां विरावेण सिद्धानां रोदनेन च

6.7.60

रसातलं जगामाद्रिः सिंधुसूनोः प्रपश्यतः ।
ततो जालंधरो वीर आजगाम महारणम्

6.7.61

पूर्वकल्पितमारुह्य रथस्थं केशवं ययौ ।
रथस्थं माधवं दृष्ट्वा जहासोच्चैर्नदीसुतः

6.7.62

तावत्त्वं तिष्ठ शकटे यावद्धन्यामरीनहम् ।
एवमुक्त्वा जघानाशु शरैस्तां देववाहिनीम्

6.7.63

बाणैर्विदारिता देवास्त्राहीत्यूचुर्बृहस्पतिम् ।
ततो बृहस्पतिः शीघ्रमगमत्क्षीरसागरम्

6.7.64

अदृष्ट्वा तं ततो द्रोणमभूच्चिन्तापरो नृप ।
अथागत्य रणं तूर्णममरान्प्राह गीष्पतिः

6.7.65

पलायध्वं सुराः सर्वे द्रोणाद्रिः क्षयमागतः ।
एवमुक्तवतस्तस्य गुरोश्चिच्छेद सिंधुजः

6.7.66

यज्ञोपवीतं केशांश्च बाणैस्तीक्ष्णैर्हसन्सुरान् ।
ततो दुद्राव वेगेन गुरुः प्राणभयार्दितः

6.7.67

देवाः सर्वे रणं हित्वा पलायांचक्रिरे नृप ।
एवं विद्राव्य देवान्वै जनार्द्दनमधावत

6.7.68

हृषीकेशोऽपि दैत्येशमन्वधावद्रणोत्सुकः ।
ततो युद्धमभूद्धोरं विष्णोर्जालंधरस्य च

6.7.69

दुर्द्धर्षणो बाणजालैः प्लावयामास केशवम् ।
तान्बाणान्खंडशः कृत्वा पूरयित्वा शरैर्महान्

6.7.70

वासुदेवोसुरं बाणैर्जालंधरमपीडयत् ।
जालंधरो रथं त्यक्त्वा शरपीडितविग्रहः

6.7.71

विष्णुं विजेतुं दुद्राव संयतिस्थमथ द्रुतम् ।
तमायांतं रणे दृष्ट्वा हरिर्विव्याध सायकैः

6.7.72

बाणानंगेसहद्विष्णोः प्राप्तोऽसौ रथसंनिधौ ।
हस्तेनैकेन गरुडं द्वितीयेन रथं हरेः

6.7.73

भ्रामयित्वांबरे शश्वत्श्वेतद्वीपे न्यपातयत् ।
जालंधरकरक्षिप्तो गरुडोऽपि पपात ह

6.7.74

क्रौंचद्वीपे स तत्रैव विश्राममकरोच्चिरम् ।
अच्युतः प्रच्युतस्तस्माद्भ्रमतो रथमंडलात्

6.7.75

रणमागत्य दैत्येशं तिष्ठतिष्ठेत्यभाषत ।
दृष्ट्वा तमागतं भूयः केशवं समरप्रियः

6.7.76

पूरयन्मार्गणैर्भूमिं जगर्जार्णवनंदनः

6.7.77

विव्याध दैत्यं हरिराशु शक्त्या हृदि स्फुरंत्या स ततः पपात ।
सूतो न यत्तं समरान्निवासं तं प्राह रे केन कृतोस्म्यलज्जः

6.7.78

दैत्यारि जालंधरयोर्महत्तदा बभूव युद्धं धरणीतलस्थयोः ।
प्रेम्णा श्रियस्तं न जघान दानवं स्वयं हरिस्तस्य शरैः पपात

6.7.79

ततो निरीक्ष्य गोविंदं पतितं धरणीतले ।
प्रगृह्यार्णवजो दैत्य आरुरोह निजं रथम् ।
ततस्तमिंदिरा प्राप्ता रुदंती विष्णुवल्लभा

6.7.80

संस्थिता कमला तत्र पतिं कमललोचनम् ।
पतितं तु पतिं वीक्ष्य लक्ष्मीः प्राहार्णवात्मजम्

6.7.81

शृणुष्व वचनं भ्रातर्जितो विष्णुर्धृतस्त्वया ।
भगिन्या न च वैधव्यं दातुं युक्तं महाबल

6.7.82

श्रुत्वा तु वचनं तस्या मुमोच जगतः पतिम् ।
जालंधरो महाबाहुः स्वस्रे भक्त्या ननाम च

6.7.83

ववंदे चरणौ विष्णोः स्वसुः स्नेहात्तदांजसा ।
विष्णुर्जालंधरं प्राह तुष्टोऽस्मि तव कर्मणा ।
वरं वरय दैत्येश किं प्रयच्छामि ते वरम्

6.7.84

जालंधर उवाच-।
यदि त्वं मम तुष्टोऽसि शौर्येणानेन केशव ।
स्थातव्यं मत्पितुः स्थाने त्वया कमलया सह

6.7.85

तथेत्युक्त्वा च संस्मृत्य गरुडं धरणीधरः ।
आरुह्य च जगन्नाथः क्षीराब्धिं प्रियया सह

6.7.86

तदाप्रभृति कृष्णस्य वासः श्वशुरमंदिरे ।
अब्धौ वसति देवेशो लक्ष्म्याः प्रियचिकीर्षया

6.7.7

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिता-।
यामुत्तरखंडे युधिष्ठिरनारदसंवादे सप्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc