भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.8

6.8.1

युधिष्ठिर उवाच-
देवान्विक्लाव्य समरे विष्णुं स्थाप्यात्ममंदिरे ।
जालंधरेणाब्धिजेन यत्कृतं ब्रूहि नारद

6.8.2

नारद उवाच-।
शुंभादीनां तु वीराणां दत्त्वा दानं प्रसादजम् ।
जालंधरो जगामाथ स्वर्गं प्राप्यावलोकयत्

6.8.3

हिरण्यवर्षेण जनान्भूषयंतं दिनेदिने ।
फलंति तरवोऽजस्रं वाजिमेधक्रतोः फलम्

6.8.4

गजवस्त्रसुवर्णानि धेनु कन्या तिलानि च ।
पुष्पकर्पूरतांबूल कस्तूरी कुंकुमानि च

6.8.5

ये यच्छंति महात्मानस्ते पश्यंत्यमरावतीम् ।
वर्षासु गृहदानेन शिशिरेऽग्निप्रदानतः

6.8.6

वादित्राणि च सर्वाणि वादयंति शिवालये ।
प्रपां कुर्वंति ये चैत्रे दध्योदनसमन्विताम्

6.8.7

यत्र हिंदोलपर्यंकं स्वयमांदोलयंति च ।
सारिकाशुकहंसाश्च भ्रमद्भ्रमरकोकिलाः

6.8.8

कुर्वंतो दूतकार्याणि यच्छंते प्रियसंगमम् ।
रंभा यत्र पुरे राम मेनका च तिलोत्तमा

6.8.9

सुषमा सुंदरी यत्र घृताची पुंजिकस्थली ।
सुकेशी सुमुखी रामा मंजुघोषा च मालिनी

6.8.10

मृगोद्भवा च सुखदा धनदंष्ट्रा तिलप्रभा ।
वाजिमेधफलग्राहा राजसूयफलंति याः

6.8.11

कोटिशो यत्र निःष्पापाः क्रीडंत्यप्सरसो नृप ।
एवं भूरिसुखे स्वर्गे स्थापयामास सिंधुजः

6.8.12

शुंभं प्राणसमं दैत्यं निशुंभं युवराजके ।
स्वयं जालंधरे पीठे स्वर्गादागत्य सिंधुराट् ।
वर्षार्बुदद्वयं राज्यं चकारात्मबलेन च

6.8.13

युधिष्ठिर उवाच-।
युयुधेऽसुर संग्रामे ससुरैरपराजितः

6.8.14

ततः किमकरोद्राजा सिंधुसूनुः प्रतापवान् ।
तन्ममाचक्ष्व देवर्षे श्रोतुकामस्य विस्तरात्

6.8.15

नारद उवाच-।
शृणु राजन्यथातथ्यं कृतसागरसूनुना ।
स देवान्समरे जित्वा राज्यं चक्रे ह्यकंटकम्

6.8.16

गंधर्वाश्चित्रसेनाद्याः सेवंते चासुरेश्वरम् ।
यज्ञभागांश्च यो भुंक्ते सर्वेषामसुरेश्वरः

6.8.17

क्षीरसागरतो देवैर्हृतं रत्नादिकं च यत् ।
तत्सर्वं च तथान्यच्च निर्जित्य हृतवान्बली

6.8.18

समुद्रतनये राज्यं भुवो राजन्प्रशासति ।
न कश्चिन्म्रियते मर्त्यो नरकं कोऽपि न व्रजेत्

6.8.19

न कलिप्रणयादन्यो न भोगादपरः क्षयः ।
न वंध्या दुर्भगा नारी नालंकारैर्विवर्जिता

6.8.20

कुरूपा दुर्गता दुष्टाऽयशस्या न च दृश्यते ।
न तत्र विधवा नारी न कश्चिन्निर्द्धनो जनः

6.8.21

दातारः संति सर्वत्र न प्रतिग्राहिणः क्वचित् ।
पुण्या जनाः प्रयच्छंति द्विजेभ्यो ह्यात्मनो धनम्

6.8.22

रूपयौवनशालिन्यः सीमंतिन्यो गृहे गृहे ।
गोक्षीरं दधिसर्पिश्च यत्र निर्जरसो जनाः

6.8.23

मंगलं तत्र सर्वेषां न क्वचिद्वधबंधनम् ।
शरेण न च हिंसास्ति न कश्चित्केन बाध्यते

6.8.24

ऋणं न दृश्यते राजन्धनिनः संति सर्वतः ।
संतुष्टाः सर्वसस्याढ्याः प्रजाः सर्वत्रपार्थिव

6.8.25

केलीक्षुदंडप्रभवश्च दुग्धरसोऽति सुस्वादुतरो गृहे नृणाम् ।
शुश्राव नारीनरयोर्हितं वचो न चापहर्ताध्वनि गच्छतां सदा

6.8.26

पतंत्यखंडा नभसो यतस्ततो धाराश्च कर्मारविमिश्रसर्पिषः ।
संमिश्रिताः शर्करया परिश्रुताः समुद्रसूनोः स्मरणान्मुखे नृणाम्

6.8.8

इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्र-।
संहितायां युधिष्ठिरनारदसम्वादे जालंधरसौराज्यवर्णनंनामाष्टमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc