पद्म पुराण · अध्याय 6.5
युधिष्ठिर उवाच-
कः पितृव्यः सिंधुसूनोः किं वृत्तं तस्य विग्रहे ।
युयुधे स कथं दैत्यस्तन्मे कथय नारद
नारद उवाच-।
शृणु त्वं नृपशार्दूल पितृव्यः क्षीरसागरः ।
जालंधरस्य तं देवैः प्रमथ्य धनमाहृतम्
श्रीचंद्रामृतनागाश्वपूर्वं तस्य सुरासुरैः ।
तच्छ्रुत्वा विग्रहं चक्रे देवैर्जालंधरोऽसुरः
कदाचित्प्रेषयामास दूतं दुर्वारणं बली ।
शिक्षयित्वा तु वक्तव्यं देवेंद्रभवनं प्रति
अथ स्यंदनमारुह्य ययौ दुर्वारणो दिवि ।
प्रवेष्टुकामो भवनं द्वारस्थैर्द्वारि निवारितः
दूत उवाच-।
जालंधरस्य दूतोऽहं आगतः शक्रसंनिधौ ।
गत्वा तत्र भवंतो मां विज्ञापयितुमर्हथ
इति तस्य वचः श्रुत्वा तदैव तु शचीपतिम् ।
गत्वा च प्रणिपत्याह दूतो देवागतो भुवः
दौवारिको महेंद्रेण प्रत्युक्तो दूतमानय ।
हस्ते गृहीत्वा तं दूतं वासवांतिकमानयत्
दुर्वारणो देवसभां प्रविष्टः प्रव्यलोकयत् ।
हरिं देवैस्तु यस्त्रिंशत्कोटिभिः परिवेष्टितम्
स्वर्णसिंहासनं दिव्यं चामरानिलसेवितम् ।
शचीप्रेमरसोत्फुल्लनयनाब्जसहस्रकम्
दुर्वारणोऽथ देवेशं विलोक्य गुरुणा सह ।
प्रणनामात्मगर्वेण प्रहसन्नयनश्रियम्
निर्दिष्टमासनं भेजे दूतो जालंधरस्य सः ।
कस्य त्वं केन कार्येण प्राप्तः प्राहेति तं हरिः
दूतो जालंधरस्याहं स जगाद पुरंदरम् ।
स राजा सर्वलोकानां तस्याज्ञां शृणु मन्मुखात्
पितृव्यो मम दुग्धाब्धिस्त्वया कस्माद्विलोडितः ।
मंदराद्रिविधानेन हृतं कोशं महाधनम्
श्रीचंद्रामृतनागाश्वं तन्मणिं विद्रुमादिकम् ।
देहि सर्वं तथा स्वर्गं शीघ्रं त्यज पुरंदर
स त्वं मद्वचनात्तूर्णं कुरु सर्वं यथोचितम् ।
तं क्षमापय भूपाल यदि जीवितुमिच्छसि
अथ प्रहस्य मघवा प्राह दुर्वारणं प्रति ।
शृणु दूत समासेन सिंधोर्मथनकारणम्
पुरा हिमवतः सूनुर्मैनाको नाम मे रिपुः ।
स कुक्षौ विधृतस्तेन सागरेण जडेन च
दग्धं चराचरं येन वह्निना हयरूपिणा ।
स चापि विधृतस्तेन सागरेण दुरात्मना
धर्मद्विषां दानवानामसौ वै आश्रयः प्रभुः ।
नित्यं दधि घृतं क्षीरं दानवेभ्यः प्रयच्छति
अतएवायमस्माभिः दुर्वारण विलोडितः ।
दंडितश्च गतश्रीको देवैरथ पुरातनैः
शृणु दूत सबंधेन मम विप्रेण शोषितः ।
कुंभोद्भवेन किंचैष दुःसंगे नैव बाध्यते
सोऽपि युद्धार्थमस्माभिः सर्वसैन्येन संवृतः ।
आगमिष्यति वै नाशं गमिष्यति तदैव हि
इतीरयित्वा विरराम वृत्रहा सरित्पतेरात्मजदूतमुच्चकैः ।
शशंस चागत्य समुद्रसूनोर्देवेश्वरेणोक्तमशेषमादितः
नारद उवाच-।
महेंद्र वचनं श्रुत्वा निजदूतमुखेन च ।
समुद्रसूनुः संक्रुद्धः सर्वं सैन्यं समाह्वयत्
रसातलस्थिता दैत्याः ये च भूतलवासिनः ।
आययुः सबलास्तत्र जालंधरमथाज्ञया
प्रयाणप्रक्रमे सिंधुसूनोः सैन्यस्य गर्जितैः ।
स्फुटंति नभसो राजन्पातालमखिला दिशः
हयनागोष्ट्रवदना बिडालमुखभीषणाः ।
व्याघ्रसिंहाखुवदना विद्युत्सदृशलोचनाः
सर्पकेशा महादेहाः केचित्खङ्गतनूरुहाः ।
अन्ये च परिधावंति गर्जंति जलदस्वनैः
रथगजहयपत्तिसंकुलं समरविनोदकदंब भासुरम् ।
अब्जशतसहस्रकोटिनायकं बलमखिलं च तदा रराज राजन्
शतयोजनविस्तीर्णं विमानं हंसकोटिभिः ।
युक्तं भूतिसहस्रौघं सर्ववस्तुप्रपूरितम्
तद्विमानं समारुह्य सद्यो जालंधरो ययौ ।
मध्याह्ने मंदरं प्राप्तः प्रथमेऽह्नि बलैः सह
खंडितं शिबिकावाहैर्दलितं भूरिकुंजरैः ।
द्वितीये दिवसे मेरुं संप्राप्तो बलसंयुतः
इलावृत्ते तु शिखरे तस्थौ तत्कटकं महत् ।
अथ दैत्याधिपैर्भग्नं खांडवं नंदनं वनम्
शिखराणि विशीर्णानि मेरोर्दानवपुंगवैः ।
संतानकेषु वृक्षेषु बद्धा हिंदोलमंचकान्
सिद्धांगनाभिः सहिता रेमिरे दैत्यपुंगवाः ।
कुचकुंकुमतांबूल चंदनागरुभूषणैः
केशपाशच्युतैः पुष्पैः मेरोः संपूरिता नदी ।
सुमेरोः पूर्वदिग्भागो गजैस्तस्य विघट्टितः
दक्षिणं च रथैश्चेरुरुत्तरं पश्चिमं भटैः ।
अथ प्रस्थापयामास दैत्याञ्जालधरोऽसुरः
महेंद्रशिखरं चान्ये ययुर्दुंदुभिनिःस्वनैः ।
राजराजपुरीं भंक्त्वा यमस्य वरुणस्य च
अन्येषां लोकपालानामाययुस्तेऽमरावतीम् ।
अथोत्पाताभवन्नाके दिव्यभौमांतरिक्षगाः
रजः पपात बहुलं तमस्तोमो विजृंभते ।
तदा पपात कुलिशं करादिंद्रस्य निष्प्रभम्
दृष्ट्वा निमित्तानि भयावहानि नाके महेंद्रो गुरुमित्युवाच ।
किं कुर्महे कं शरणं च यामस्तं पश्य युद्धं समुपस्थितं च
ततो वाचस्पतिर्वाक्यमुवाच त्रिदशाधिपम् ।
चरणौ पाहि शरणं विष्णोर्वैकुंठवासिनः
इत्युक्तो गुरुणा देवैः साकं वैकुंठमंदिरम् ।
जगामाखंडलः शीघ्रं शरणं कैटभद्विषः
शशंस वासुदेवाय विजयो द्वारपालकः ।
जालंधरभयत्रस्ताः सर्वे देवाः समागताः
श्रीरुवाच-।
न वध्योऽसौ मम भ्राता देवार्थे युध्यता त्वया ।
शापितो देव मत्प्रीत्या वधार्हो न भविष्यति
इति श्रीवचनं श्रुत्वा विष्णुस्त्रैलोक्यपालकः ।
अथारुरोह गरुडं पक्षक्षेपावृतांबरम्
वैकुंठभवनात्तूर्णं निर्गतस्त्रिदशान्हरिः ।
जालंधरभयत्रस्तान्गतकांतीनथैक्षत
ददृशुस्ते सुराः सर्वे हरिं सांद्रघनोपमम् ।
शार्ङ्गशंखगदापद्मविभूषितचतुर्भुजम्
स्तोत्रं पठित्वा पुरतः प्राहेंद्रः सरितांपतेः ।
जालंधरेणात्मजेन भग्नं देव त्रिविष्टपम्
तदिंद्रवचनं श्रुत्वाऽभयं दत्वा दिवौकसाम् ।
विजेतुमसुरं देवैः सह रेजे सुरांतकृत्
अथानीतं मातलिना रथमारुह्य वासवः ।
वासुदेवस्य पुरतः प्रययौ विधृताशनिः
वामतस्त्रिदशाः सर्वे सव्यतश्च समाययौ ।
स्वाहाप्रियो दक्षिणतः स च मेषं समास्थितः
आरुह्यैरावतं नागं जयंतः शक्रनंदनः ।
उच्चैःश्रवसमिंद्रश्च उभौ भगवतः पुरः
धातार्यमा च मित्रश्च वरुणोंशो भगस्तथा ।
इंद्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः
ततस्त्वष्टा ततो विष्णू रेजे धन्यो जघन्यजः ।
इत्येते द्वादशादित्या इंद्रस्य पुरतः स्थिताः
वीरभद्रश्च शंभुश्च गिरिशश्च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः
भुवनाधीश्वरश्चैव कपाली च विशांपते ।
स्थाणुर्भगश्च भगवान्रुद्रा एकादश स्मृताः
श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा ।
प्राणापानौ सजीवौ च मरुतोऽष्टौ तदग्रतः
विवस्वानपि तन्मध्ये ययौ द्वादशमूर्तिभिः ।
धनदः शिबिकारूढः किंनरेशो ययौ तदा
रुद्राश्च वृषभारूढा मारुतो मृगवाहनः ।
ययुः सैन्यस्य पुरतः त्रिशूलपरिघायुधाः
गंधर्वाश्चारणा यक्षाः पिशाचोरग गुह्यकाः ।
सर्वसैन्यस्य पुरतः सर्वशस्त्रभृतो ययुः
पूर्वापरौ तोयराशी समाक्रांतौ च सैनिकैः ।
तस्मिन्ससार भूमिराट्वराहवपुषा हरिः
स्वर्गादागत्य वेगेन दैत्यसैन्यजिघांसया ।
सुमेरोरुत्तरो भागः सुरसैन्येन संवृतः
सेनाभारोद्भुतकरस्तस्थौ जालंधरस्य च ।
आश्रित्य दक्षिणं भागं तूर्णं कनकशृंगतः
अहोरात्रेण विहिता वर्षे तस्मिन्निलावृते ।
मेरुमंदरयोर्मध्ये युद्धभूमिः प्रतिष्ठिता
तत्रात्मजयदां भूमिं कविप्रोक्तां मुदायुताः ।
जग्मुस्ते दानवास्तूर्णं गुरुप्रोक्तां ययुः सुराः
रथप्रवीरैः परितश्च संप्लवैर्गजैर्घनाकारमदप्रवाहिभिः ।
अश्वैरनंतैर्गरुडाग्रगामिभिः पदातिभिः सारणभूर्भृता बभौ
ततो वादित्रनिर्घोषः सेनयोरुभयोरभूत् ।
कोलाहलश्च वीराणामन्योन्यमभिगर्जताम्
अथ दानवदेवानां संग्रामोऽभूद्भयावहः ।
सर्वसैन्यस्य संमर्दो यथा त्रिभुवनक्षयः
भयक्रांता महाश्रांता श्रुतिर्विलपती मुहुः ।
स्वरथाकाररहितं शरैः संपूरितं तदा
रोमांचिता बभौ द्यौश्च रजोवस्त्रं विधुन्वती ।
रौद्रैर्विहंगमारावैस्त्रासादाक्रंदतीव हि
देवेंद्रेण तदाज्ञप्ता मेघाः संवर्तकादयः ।
गजानुच्चैः समारुह्य तेऽसुरान्युयुधुर्मृधे
देवानामश्वारोहाश्च जाता गंधर्वकिन्नराः ।
रथिनः साध्यसिद्धाश्च गजिनो यक्षचारणाः
पदातिनः किंपुरुषाः पन्नगाः पवनाशनाः ।
रोगाणामधिपो राजन्यक्ष्मा च यमनायकः
तत्र दानवरोगाणां संग्रामोऽभूत्सुदारुणः ।
पतिता लुलुठुर्भूमौ दैत्याः शूलज्वरामयैः
दानवैर्निहता रोगाः पेतुः समरमूर्द्धनि ।
पलायांचक्रिरे केचित्व्याधयो भूधरान्प्रति
औषध्यस्तत्र सहजा वैशल्यकरणीमुखाः ।
ताभिर्विशल्याः सैन्येषु युयुधुर्यमकिंकराः
दानवैर्निहताः सर्वे शरमुद्गरपट्टिशैः ।
पदातयः पत्तिगणैः खङ्गैस्तीक्ष्णैः परश्वधैः
कोटिशो जघ्नुरन्योन्यं रुधिरारुणविग्रहाः ।
अश्वचारा हयैस्तूर्णैश्चिक्षिपुर्गगने तदा
संश्लिष्य जघ्नुरन्योन्यं रुधिरारुणविग्रहाः ।
समूहो रथिनां भीमो रथौघैश्छाद्य मेदिनीम्
विव्यधुर्निशितैर्बाणैर्धनुर्मुक्तैर्महारथान् ।
मदक्षीणकपोलांगाः करैर्बद्धा करान्दृढम्
गजान्प्रतिगजाः क्रुद्धाः पातयंति महीतले ।
कोपि दैत्यो रथं दोर्भ्यामुत्क्षिप्योत्थाय खं ययौ
अश्वचारान्हयान्नागान्पातयामास भूतले ।
स्कंधे गृहीत्वा तरसा ययौ जालंधरं प्रति
कक्षयोर्वै गजौ गृह्य तृतीयं जठरोपरि ।
चतुर्थं मस्तके गृह्य रणे धावति कश्चन
उत्पाट्य कोशतः खङ्गं विधूय विमलांबरम् ।
ययौ सहस्रशो देवान्पातयित्वा रणेऽसुरः
काचित्पीनस्तनी तन्वी खेचरीरति लंपटा ।
आगत्य गगनात्तूर्णं निन्ये दैत्यं रणांगणात्
चुचुंब सा तद्वदनं तीक्ष्णनाराचकीलितम् ।
देवसैन्यं ततो बद्ध्वा कालनेमिर्ननर्त्त ह
ततो जनार्दनः क्रुद्धो निर्ययौ कालनेमिनम् ।
यमो दुर्वारणं वीरं स्वर्भानुश्चंद्रभास्करौ
केतुं वैश्वानरो देवो ययौ शुक्रं बृहस्पतिः ।
आश्विनौ संयतौ तत्र दैत्यमंगारपर्णकम्
संह्रादं शक्रपुत्रश्च निर्ह्रादं धनदो ययौ ।
निशुंभश्चावृतो रुद्रैः शुंभो वसुभिराहवे
मेघाकारं स्थितं जंभं विश्वेदेवाः समाययौ ।
वायवो वज्ररोमाणमथ मृत्युर्मयं ययौ
नमुचिं वासवो व्यग्रं शक्तिहस्तोऽभ्यधावत ।
अन्यैरपि सुरैर्दैत्याः स्वस्ववीर्यसमैर्वृताः
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे युधिष्ठिरनारदसंवादे देवदानवयुद्धंनाम पंचमोध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0