भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.49

6.49.1

युधिष्ठिर उवाच-
वैशाख शुक्लपक्षे तु किन्नामैकादशी भवेत् ।
किं फलं को विधिस्तत्र कथयस्व जनार्दन

6.49.2

श्रीकृष्ण उवाच-
इदमेव पुरा पृष्टं रामचंद्रेण धीमता ।
वसिष्ठं प्रति राजेंद्र यत्त्वं मामनुपृच्छसि

6.49.3

राम उवाच-
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।
सर्वपापक्षयकरं सर्वदुःखनिकृंतनम्

6.49.4

मया दुःखानि भुक्तानि सीताविरहजानि तु ।
ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने

6.49.5

वसिष्ठ उवाच-
साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः ।
त्वन्नामग्रहणेनैव पूतो भवति मानवः

6.49.6

तथापि कथयिष्यामि लोकानां हितकाम्यया ।
पवित्रं पावनानां च व्रतानामुत्तमं व्रतम्

6.49.7

वैशाखस्य सिते पक्षे राम चैकादशी भवेत् ।
मोहिनी नाम सा प्रोक्ता सर्वपापहरापराः

6.49.8

मोहजालात्प्रमुच्यंते पातकानां समूहतः ।
अस्या व्रत प्रभावेन सत्यं सत्यं वदाम्यहम्

6.49.9

अतः कारणतो राम कर्तव्यैषा भवादृशैः ।
पातकानां क्षयकरी महादुःखविनाशिनी

6.49.10

शृणुष्वैकमना राम कथां पापहरां पराम् ।
यस्याः श्रवणमात्रेण महापापं प्रणश्यति

6.49.11

सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा ।
द्युतिमान्नाम नृपतिस्तत्र राज्यं करोति वै

6.49.12

चंद्रवंशोद्भवो नाम धृतिमान्सत्यसंगरः ।
तत्र वैश्यो निवसति धनधान्यसमृद्धिमान्

6.49.13

धनपाल इति ख्यातः पुण्यकर्मप्रवर्त्तकः ।
प्रपा कूप मठाराम तडाग गृहकारकः

6.49.14

विष्णुभक्तिरतः शांतस्तस्यासन्पंचपुत्रकाः ।
सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा

6.49.15

पंचमो धृष्टबुद्धिश्च महापापरतः सदा ।
परस्त्रीसंगनिरतो विटगोष्ठी विशारदः

6.49.16

द्यूतादि व्यसनासक्तः परस्त्री रतिलालसः ।
न च देवार्चने बुद्धिर्नपितॄन्न द्विजान्प्रति

6.49.17

अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयंकरः ।
अभक्ष्यभक्षकः पापी सुरापाने रतः सदा

6.49.18

वेश्याकंठे क्षिप्तबाहुर्भ्रमन्दुष्टश्चतुष्पथे ।
पित्रा निष्कासितो गेहात्परित्यक्तश्च बांधवैः

6.49.19

स्वदेहभूषणान्येव क्षयं नीतानि तेन वै ।
गणिकाभिः परित्यक्तो निंदितश्च धनक्षयात्

6.49.20

ततश्चिंतापरो जातो वस्त्रहीनः क्षुधार्दितः ।
किं करोमि क्वगच्छामि केनोपायेन जीव्यते

6.49.21

तस्करत्वं समारब्धं तत्रैव नगरे पितुः ।
गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात्

6.49.22

पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससंभ्रमैः ।
धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः

6.49.23

कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः ।
न स्थातव्यं हि मंदात्मंस्त्वया मद्देशगोचरे

6.49.24

एवमुक्त्वा ततो राज्ञा मोचितो दृढबंधनात् ।
निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम्

6.49.25

क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति ।
सिंहवन्निजघानासौ मृग शूकर चित्रलान्

6.49.26

आमिषाहार निरतो वने तिष्ठति सर्वदा ।
करे शरासनं कृत्वा निषंगं पृष्ठ संगतम्

6.49.27

अरण्यचारिणो हंति पक्षिणश्च पदाचरन् ।
चकोरांश्च मयूरांश्च कंक तित्तिर मूषिकान्

6.49.28

एतानन्यान्हिनस्त्यंधो धृष्टबुद्धिस्तु निर्घृणः ।
पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे

6.49.29

दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम् ।
कौंडिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित्

6.49.30

माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम् ।
आससाद धृष्टबुद्धिः शोकभारेण पीडितः

6.49.31

तद्वस्त्रबिंदुस्पर्शेन गतपापो हताशुभः ।
कौंडिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृतांजलि

6.49.32

धृष्टबुद्धिरुवाच-
भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि ।
येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद

6.49.33

कौंडिन्य उवाच-
शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव ।
वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता

6.49.34

एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः ।
मेरुतुल्यानि पापानि क्षयं गच्छंति देहिनाम्

6.49.35

बहुजन्मार्जितान्येषा मोहिनी समुपोषिता ।
इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः

6.49.36

व्रतं चकार विधिवत्कौंडिन्यस्योपदेशतः ।
कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः

6.49.37

दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः ।
जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम्

6.49.38

इतीदृशं रामचंद्र उत्तमं मोहिनी व्रतम् ।
नातः परतरं किंचित्त्रैलोक्ये सचराचरे

6.49.39

यज्ञादितीर्थदानानि कलां नार्हंति षोडशीम् ।
पठनाच्छ्रवणाद्राजन्गोसहस्र फलं लभेत्

6.49.49

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां सहितायामुत्तरखंडे उमापतिनारदसंवादे वैशाखशुक्ले मोहन्येकादशीनाम एकोनपंचाशत्तमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc