भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.48

6.48.1

युधिष्ठिर उवाच-
वैशाखस्यासिते पक्षे किंनामैकादशी भवेत् ।
महिमानं कथय मे वासुदेव नमोऽस्तु ते

6.48.2

श्रीकृष्ण उवाच-
सौभाग्यदायिनी राजन्निहलोके परत्र च ।
वैशाखकृष्णपक्षे तु नाम्ना चैव वरूथिनी

6.48.3

वरूथिन्या व्रतेनैव सौख्यं भवति सर्वदा ।
पापहानिश्च भवति सौभाग्यप्राप्तिरेव च

6.48.4

दुर्भगा या करोत्येनां सा स्त्री सौभाग्यमाप्नुयात् ।
लोकानां चैव सर्वेषां भुक्तिमुक्तिप्रदायिनी

6.48.5

सर्वपापहरा नॄणां गर्भवासनिकृंतनी ।
वरूथिन्या व्रतेनैव मांधाता स्वर्गतिं गतः

6.48.6

धुंधुमारादयश्चान्ये राजानो बहवस्तथा ।
ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः

6.48.7

दशवर्षसहस्राणि तपस्तप्यति यो नरः ।
कुरुक्षेत्रे रविग्रहे स्वर्णभारं ददाति यः ।
तत्तुल्यंफलमाप्नोतिवरूथिन्याव्रतंचरन्

6.48.8

श्रद्धावान्यस्तु कुरुते वरूथिन्या व्रतं नरः ।
वांछितं लभते सोऽपि इहलोके परत्र च

6.48.9

पवित्रा पावनी ह्येषा महापातकनाशिनी ।
भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम

6.48.10

अश्वदानान्नृपश्रेष्ठ गजदानं विशिष्यते ।
गजदानाद्भूमिदानं तिलदानं ततोऽधिकम्

6.48.11

तस्माच्च स्वर्णदानं वै अन्नदानं ततोऽधिकम् ।
अन्नदानात्परं दानं न भूतं न भविष्यति

6.48.12

पितृदेवमनुष्याणां तृप्तिरन्नेन जायते ।
तत्समं कविभिः प्रोक्तं कन्यादानं नृपोत्तम

6.48.13

धेनुदानं च तत्तुल्यमित्याह भगवान्स्वयम् ।
प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते

6.48.14

तत्फलं समवाप्नोति नरः कृत्वा वरूथिनीम् ।
कन्यावित्तेन जीवंति ये नराः पापमोहिताः

6.48.15

पुण्यक्षयं ते गच्छंति निरयं यातनामयम् ।
तस्मात्सर्वप्रयत्नेन न ग्राह्यं कन्यकाधनम्

6.48.16

यश्च गृह्णाति लोभेन कन्यां क्रीत्वा च तद्धनम् ।
सोऽन्यजन्मनि राजेंद्र ओतुर्भवति निश्चितम्

6.48.17

कन्यां पुण्येन यो दद्याद्यथाशक्ति स्वलंकृताम् ।
तत्पुण्यसंख्यां नृपते चित्रगुप्तो न शक्नुयात्

6.48.18

तत्तुल्यं फलमाप्नोति नरः कृत्वा वरूथिनीम् ।
कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा

6.48.19

शाकं मधु परान्नं च पुनर्भोजन मैथुने ।
वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत्

6.48.20

द्यूतं क्रीडां च निद्रां च तांबूलं दंतधावनम् ।
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम्

6.48.21

क्रोधं चैवानृतं वाक्यमेकादश्यां विवर्जयेत् ।
कांस्यं मांसं सुरां क्षौद्रं तैलं पतितभाषणम्

6.48.22

व्यायामं च प्रवासं च पुनर्भोजनमैथुनम् ।
वृषपृष्ठं मसूरान्नं द्वादश्यां परिवर्जयेत्

6.48.23

अनेन विधिना राजन्विहिता यैर्वरूथिनी ।
सर्वपापक्षयं कृत्वा दद्यात्प्रांतेऽक्षयां गतिम् ।
रात्रौ जागरणं कृत्वा पूजितो मधुसूदनः

6.48.24

सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम् ।
तस्मात्सर्वप्रयत्नेन कर्तव्या पापभीरुभिः

6.48.25

क्षपारितनयाद्भीतो नरः कुर्याद्वरूथिनीम् ।
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते

6.48.48

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे वैशाखकृष्णवरूथिनी एकादशी नाम अष्टचत्वारिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc