भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.3

6.3.1

सूत उवाच-
एकदा नारदो द्रष्टुं पांडवान्दुःखकर्शितान् ।
ययौ काम्यवनं विप्रः सत्कृतस्तैर्यथाविधि

6.3.2

अथ नत्वा मुनिश्रेष्ठं युधिष्ठिर उवाच ह ।
भगवन्कर्मणा केन दुःखाब्धौ पतिता वयम्

6.3.3

तमुवाच ऋषिर्दुःखं त्यज त्वं पांडुनंदन ।
सुखदुःखसमाहारे संसारे कः सुखी नरः

6.3.4

ईश्वरोपि हि न स्थायी पीड्यते देहसंचयैः ।
न दुःखरहितः कश्चिद्देही दुःखसहो यतः

6.3.5

शरीरं सवितुर्यस्माद्राहुस्तद्ग्रसते बली ।
राहोरपि शिरश्छिन्नं शौरिणामृतभोजने

6.3.6

सोऽपि शार्ङ्गधरो देवः क्षिप्तः सागरगह्वरे ।
जालंधरेण वीरेण निहतः सोऽपि शंभुना

6.3.7

युधिष्ठिर उवाच-।
कोऽसौ जालंधरो वीरः कस्य पुत्रः कुतो बली ।
कथं जालंधरं संख्ये हतवान्वृषभध्वजः

6.3.8

एतत्सर्वं समाचक्ष्व विस्तरेण तपोधन ।
राज्ञा स एव मुक्तस्तु कथयामास नारदः

6.3.9

नारद उवाच-।
शृणु भूप कथां दिव्यामशेषाघौघनाशिनीम् ।
ईशानसिंधुसून्वोश्च संग्रामं परमाद्भुतम्

6.3.10

एकदा गिरिशं स्तोतुं प्रययौ पाकशासनः ।
अप्सरोगणसंकीर्णो देवैर्बहुभिरावृतः

6.3.11

गंधर्वैरावृतो देवस्तंत्रीशिक्षासु कोविदैः ।
रंभा तिलोत्तमा रामा कर्पूराकदली तथा

6.3.12

मदना भारती कामा सर्वाभरणभूषिताः ।
नर्तक्यश्च तथा चान्याः समाजग्मुः सुरांतिकम्

6.3.13

गंधर्वयक्षसिद्धास्तु नारदस्तुंबुरुस्तथा ।
किन्नरा मुहुराजग्मुस्तथा किंनरयोषितः

6.3.14

वायुश्च वरुणश्चैव कुबेरो धनदस्तथा ।
यमश्चाग्निर्निरृतिश्च ये चान्ये देवतागणाः

6.3.15

विमानसंस्थो मघवा विमानस्थाः सुरांगनाः ।
स्ववाहनगतादेवाः कैलासं प्रययुर्जवात्

6.3.16

ददृशुस्ते ततो देवाः कैलासं पर्वतोत्तमम् ।
महीधराणां सर्वेषां पृथिव्या इव मंडनम्

6.3.17

सर्वतः सुखदं शुद्धं सिद्धिराशिमिवस्थितम् ।
यत्र वृक्षाः कल्पवृक्षाः पाषाणाश्चिंतितप्रदाः

6.3.18

पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः ।
अशोकैः पाटलैश्चूतैर्मंदारैः शोभितो गिरिः

6.3.19

पर्यंतकवनामोदवाहका यत्र वायवः ।
पंगुत्वं बहुचारेण यांति ते मलयानिलाः

6.3.20

वाप्यः स्फटिकसोपाना ह्यगाध विमलोदकाः ।
वैडूर्यनालसंसक्तसौवर्णनिभ पंकजाः

6.3.21

कुमुदानां द्युतिर्यत्र राजते सर्वतोदिशम् ।
कह्लारैः शौभितावाप्यः पिनद्धाः पद्मरागवत्

6.3.22

हरिन्मणिनिबद्धाश्च गोमेदैः सर्वतो वृताः ।
पद्मरागशिलाबद्धा नानाधातुविचित्रिताः

6.3.23

ददृशुः सुंदरतरं नाकाधिकविनिर्मितम् ।
कैलासं पर्वतश्रेष्ठं दृष्ट्वा ते विस्मयंगताः

6.3.24

विमानादवतीर्णाश्च मघवा देवताश्च ताः ।
द्वारपालमथागम्य नंदिनं वाक्यमब्रुवन्

6.3.25

भो भो गणवरश्रेष्ठ शृणु मे वाक्यमुत्तमम् ।
समाज्ञापय शीघ्रं त्वं नृत्यार्थमिहमागतम्

6.3.26

ईश्वरं प्रतिदेवेशं सर्वदेवैः समावृतम् ।
इंद्रस्य वचनं श्रुत्वा गिरिशं नंदिरब्रवीत्

6.3.27

प्रभोऽयमागतः सर्वैर्देवराजः पुरंदरः ।
नृत्यार्थमथ तं प्राहानय शीघ्रं शचीपतिम्

6.3.28

प्रवेशयामास तदा नंदी तैः सह वासवम् ।
स दृष्ट्वा गिरिशं देवं तुष्टाव वृषभध्वजम्

6.3.29

रंभाद्यास्तास्तदा सर्वा नर्त्तक्यो हरसन्निधौ ।
मृदंगवीणावादित्रैः मुदा नाट्यं प्रचक्रिरे

6.3.30

कांस्यवाद्यान्प्रगृह्यान्या वंशतालान्सकाहलान् ।
चक्रुस्ता नृत्यसंरंभं स्वयंदेवः पुरंदरः

6.3.31

अतीवनर्तनं चक्रे सुंदरं देवदुर्ल्लभम् ।
ईश्वरस्तोषमापन्नो वासवं वाक्यमब्रवीत्

6.3.32

प्रसन्नोऽहं सुरश्रेष्ठ जातस्ते व्रियतां वरः ।
इत्युक्तवति देवेशे स्वबाहुबलगर्वितः

6.3.33

प्रत्युवाच हरं वाक्यं संग्रामः सवृतो मया ।
यत्र त्वत्सदृशो योद्धा तद्युद्धं देहि मे प्रभो

6.3.34

इत्युक्त्वा निर्गतो जिष्णुर्लब्ध्वा शंभोर्वरं प्रभोः ।
तस्मिन्गते तदा शक्रे गिरिशो वाक्यमब्रवीत्

6.3.35

गणा मे श्रूयतां वाक्यं देवराजोऽतिगर्वितः ।
इत्युक्त्वा क्रोधसंयुक्तो बभूव च ततो हरः

6.3.36

आविरासीत्ततः क्रोधो मूर्त्तिमान्पुरतः स्थितः ।
घनान्धकारसदृशो मृडं क्रोधस्ततोऽब्रवीत्

6.3.37

देहि मे त्वं हि सन्देशं किं करोमि तव प्रभो ।
उमापतिस्तदोवाच गच्छ त्वं वासवं जय

6.3.38

स्वर्गसिंधुं समासाद्य सागरस्य च वीर्यवान् ।
इत्युक्तोंतर्दधे क्रोधो गणास्ते विस्मयं ययुः

6.3.39

ईशानकल्पे जाते तु कामेनार्णवसंगमे ।
नाकसिंधुस्तदा मत्ता स्वयौवनभरोष्मणा

6.3.40

तां दृष्ट्वा सिंधुराजश्च जलकल्लोलवानभूत् ।
तदा बभूव राजेंद्र गंगासागरसंगमः

6.3.41

महानदी तदा प्राप्य रेमे चात्मबलेन च ।
अत्रांतरे समुद्रस्य बभूव सुभटस्ततः

6.3.42

सूनुस्तस्यां महानद्यां समुद्रादभवद्बली ।
महार्णवतनूजेन जातमात्रेण पार्थिव

6.3.43

रुदतोत्कंपिता पृथ्वी त्रिलोकी नादिताभवत् ।
समाधिबद्धमुद्रां च संतत्याज चतुर्मुखः

6.3.44

अत्रांतरे परित्रस्तां तां संवीक्ष्य जगत्त्रयीम् ।
धाता सुरेंद्रवाक्येन प्रजगाम महार्णवम्

6.3.45

आश्चर्यमिति संचिंत्य हंसारूढो जवाद्ययौ ।
ब्रह्माणमागतं वीक्ष्य सपर्यां विदधेऽर्णवः ।
तमुवाच ततो ब्रह्मा किं गर्जसि वृथांबुधे

6.3.46

समुद्र उवाच-।
नाहं गर्जामि देवेश मत्सुतो बलवान्प्रभो ।
शिशोर्वै कुरु रक्षां च दुर्ल्लभं तव दर्शनम्

6.3.47

संदृश्यतां च तनयो भार्यां प्राहातिशोभनाम् ।
ययौ सा भर्तुरादेशात्सपुत्रा ब्रह्मणोंतिके

6.3.48

उत्संगदेशे चतुराननस्य विधाय पुत्रं चरणौ ननाम ।
तदा समुद्रात्मजमद्भुतं तं दृष्ट्वा विधातुः किल विस्मयोऽभूत्

6.3.49

गृहीतकूर्चस्य शिशोः करं च यदा विरिंचिर्न शशाक मोचितुम् ।
तदा समुद्रः प्रहसन्प्रयातः कूर्चं प्रगृह्यार्भकरं विमोचयन्

6.3.6.3.50

तादृशं तस्य बालस्य दृष्ट्वा विक्रममात्मभूः ।
प्रीत्या जालंधरेत्याह नाम्ना जालंधरोऽभवत्

6.3.51

वरं ददावथो तस्य प्रणयेन प्रजापतिः ।
अयं जालंधरो देवैरजेयश्च भविष्यति

6.3.52

पातालसहितं नाकं मत्प्रसादेन भोक्ष्यति ।
इत्युक्त्वांतर्दधे ब्रह्मा हंसमारुह्य सत्वरः

6.3.3

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां युधिष्ठिरनारदसंवादे उत्तर।
खंडे जालंधरोत्पत्ति ब्रह्मागमोनाम तृतीयोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc