पद्म पुराण · अध्याय 6.2
महेश उवाच-
एकलक्षं पंचविंशत्सहस्रा पर्वतास्तथा ।
तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमम्
नरनारायणो देवो यत्र तिष्ठति नारद ।
तस्य स्वरूपं तेजश्च वक्ष्यामीह च सांप्रतम्
हिमपर्वतशृंगे च कृष्णाकारतया द्विज ।
द्वौ पुरुषौ तत्र वर्तेते नरनारायणावुभौ
श्वेत एकस्तु पुरुषः कृष्णो ह्येकतमः पुनः ।
तेन मार्गेण ये यांति हिमाचलकृतोद्यमाः
पिंगलश्वेतवर्णश्च जटाधारी महाप्रभुः ।
कृष्णो नारायणो ह्येष जगदादिर्महाप्रभुः
चतुर्बाहुर्महान्श्रीमान्व्यक्तोऽव्यक्तः सनातनः ।
उत्तरायणे महापूजा जायते तत्र सुव्रत
षण्मासादिकपर्यंतं पूजा नैव च जायते ।
हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत्
अत एतादृशो देवो न भूतो न भविष्यति ।
तत्र देवा वसंतीह ऋषीणां चाश्रमास्तथा
अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा ।
तस्य वै दर्शनं कार्यं कोटिहत्याविनाशनम्
अलकनंदा यत्र गंगा तत्र स्नानं समाचरेत् ।
कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते
यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः ।
एकस्मिन्नवसरे ब्रह्मन्सुतपस्तप्तवानहम्
तदा नारायणो देवो भक्तानां हि कृपाकरः ।
अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः ।
सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत
श्रीनारायण उवाच-।
यद्यदीप्ससि देव त्वं तं तं कामं ददाम्यहम् ।
त्वं कैलासविभुः साक्षाद्रुद्रो वै विश्वपालकः
रुद्र उवाच-।
अलं गृह्णामि भो देव सुप्रसन्नो जनार्दन ।
द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छसि
तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम् ।
सर्वे लोका ब्रुवंत्वेवमयं भक्तः सदैव हि
तव प्रसादाद्देवेश मुक्तिदाता भवाम्यहम् ।
ये लोका मां भजिष्यंति तेषां दाता न संशयः
विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम् ।
यस्याहं वरदाता तु तस्य मुक्तिर्भवेत्प्रभो
जटिलो भस्मलिप्तांगो ह्यहं वै तव संनिधौ ।
तव चरणप्रसादेन लोके ख्यातो भवाम्यहम्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां नारदोमापतिसंवादे बदरीनारायणमाहात्म्ये रुद्रप्रसादोनाम द्वितीयोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0