भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.24

6.24.1

महादेवौवाच-
प्रयागतीर्थमाहात्म्यं प्रवक्ष्यामि यथा श्रुतम् ।
महादानपराः पुण्यकर्माणो यत्र संति हि

6.24.2

यत्र गंगा च यमुना यत्र चैव सरस्वती ।
तं देवतीर्थप्रवरं देवानामपि दुर्लभम्

6.24.3

ईदृशं त्रिषु लोकेषु भूतं न च भविष्यति ।
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी

6.24.4

तीर्थानामुत्तमं तीर्थं प्रयागाख्यमनुत्तमम् ।
प्रातःकाले तु भो विद्वन्प्रयागे स्नानमाचरेत्

6.24.5

महापापाद्विनिर्मुक्तः स याति परमं पदम् ।
देयं किंचिद्यथाशक्ति दारिद्र्याभावमिच्छता

6.24.6

यो नरस्तत्र गत्वा वै प्रयागे स्नानमाचरेत् ।
धनिको दीर्घजीवी च जायते नात्र संशयः

6.24.7

यत्र वटस्याक्षयस्य दर्शनं कुरुते नरः ।
तेन दर्शनमात्रेण ब्रह्महत्या विनश्यति

6.24.8

स चाक्षयवटः ख्यातः कल्पांतेपि च दृश्यते ।
शेते विष्णुर्यस्य पत्रे अतोयमव्ययः स्मृतः

6.24.9

तत्र पूजां प्रकुर्वंति मानवा विष्णुवल्लभाः ।
सूत्रेणाच्छादितं कृत्वा पूजां चैव तु कारयेत्

6.24.10

माधवाख्यस्तत्र देवः सुखं तिष्ठति नित्यशः ।
तस्य वै दर्शनं कार्यं महापापैः प्रमुच्यते

6.24.11

यत्र देवाश्च ऋषयो मनुष्याश्चापि सर्वशः ।
स्वस्वस्थानं समाश्रित्य तत्र तिष्ठंति नित्यशः

6.24.12

गोघ्नो वापि च चांडालो दुष्टो वा दुष्टचेतनः ।
बालघाती तथाऽविद्वान्म्रियते तत्र वै तदा

6.24.13

स वै चतुर्भुजो भूत्वा वैकुंठे वसते चिरम् ।
प्रयागे तु नरो यस्तु माघस्नानं करोति च

6.24.14

न तस्य फलसंख्यास्ति शृणु देवर्षिसत्तम ।
आपो नारा इति प्रोक्ता सर्वलोकेषु शुश्रुम

6.24.15

तेन नारायणः प्रोक्तः स्नातानां भुक्तिमुक्तिदः ।
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी

6.24.16

मासानां हि तथा माघः श्रेष्ठः सर्वेषु कर्मसु ।
मकरस्थे रवौ माघे प्रातःकाले तथामले

6.24.17

गोःपदेऽपि जले स्नानं स्वर्गदं पापिनामपि ।
योगोऽयं दुर्लभो विद्वन्त्रैलोक्ये सचराचरे

6.24.18

अस्मिन्यो यत्नमापन्नः स्नायादपि दिनत्रयम् ।
पंच वा सप्त वाप्यत्र स्नानं कुर्वन्प्रयागजम्

6.24.19

चंद्रवद्वर्द्धते सोऽपि कुले वाडवसत्तम ।
चराचराश्च ये जीवास्तथैव मनुजादयः

6.24.20

प्रयागं तीर्थमाश्रित्य वैकुंठं यांति तेऽचिरात् ।
ये वसिष्ठादयस्तत्र ऋषयः सनकादयः

6.24.21

तेऽपि प्रयागजं तीर्थं सेवंते च पुनःपुनः ।
यत्र विष्णुश्च रुद्रश्च यत्रेंद्रश्च तथा पुनः

6.24.22

तेऽपि सर्वे वसंतीह प्रयागे तीर्थसत्तमे ।
दानं तत्र प्रशंसंति नियमांश्च तथैव च

6.24.23

तत्र स्नात्वा च पीत्वा च पुनर्जन्म न विद्यते

6.24.24

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे प्रयागमाहात्म्ये चतुर्विंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc