भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.23

6.23.1

महादेवौवाच-
शृणु नारद वक्ष्यामि माहात्म्यं तुलसीभवम् ।
यच्छ्रुत्वा मुच्यते पापादाजन्ममरणांतिकात्

6.23.2

पत्रं पुष्पं फलं मूलं शाखा त्वक्स्कंधसंज्ञितम् ।
तुलसी संभवं सर्वं पावनं मृत्तिकादिकम्

6.23.3

शरीरं दह्यते येषां तुलसीकाष्ठवह्निना ।
दत्वा च तुलसीकाष्ठं सर्वांगेषु मृतस्य वै

6.23.4

पश्चाद्यः कुरुते दाहं सोऽपि पापात्प्रमुच्यते ।
मरणे यस्य संप्राप्तं कीर्तनं स्मरणं हरेः

6.23.5

तुलसीदारुणा दाहो न तस्य पुनरावृतिः ।
यद्येकं तुलसीकाष्ठं मध्ये काष्ठशतस्य हि

6.23.6

दाहकाले भवेन्मुक्तिः कोटिपापायुतस्य च ।
गंगांभसाभिषेकेण यांति पुण्यानि पुण्यताम्

6.23.7

तुलसीकाष्ठमिश्राणि यांति दारूणि पुण्यताम् ।
तुलसीकाष्ठसंमिश्रा यावत्प्रज्वलते चिता

6.23.8

दह्यंति तस्य पापानि कल्पकोटिकृतानि वै ।
दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना

6.23.9

नयंति तं विष्णुदूता न च वै यमकिंकराः ।
जन्मकोटिसहस्रैस्तु मुक्तो याति जनार्दनम्

6.23.10

दह्यंते ये नरा लोके तुलसीकाष्ठवह्निना ।
तान्विमानस्थितान्देवाः क्षिपंति कुसुमांजलिम्

6.23.11

नृत्यंत्यप्सरसः सर्वा गीतं गायंति गायकाः ।
जायंते वीक्ष्य तं विष्णुः संतुष्टः शंभुना सह

6.23.12

गृहीत्वा तं करे शौरिर्गृहं नीत्वास्य चांगतः ।
मार्जयेत्सर्वपापानि पश्यतां त्रिदिवौकसाम्

6.23.13

महोत्सवं कारयित्वा जयशब्दपुरःसरम् ।
ज्वलते यत्र चाज्येन तुलसीकाष्ठपावकः

6.23.14

अग्न्यगारे श्मशाने वा दह्यते पातकं नृणाम् ।
होमं कुर्वंति ये विप्रास्तुलसीकाष्ठवह्निना ।
सिक्ते सिक्ते तिले वापि अग्निष्टोमफलं लभेत्

6.23.15

यो ददाति हरेर्धूपं तुलसीकाष्ठसंभवम् ।
शतक्रतुसमं पुण्यं लभते गोशतं फलम्

6.23.16

नैवेद्यं पच्यते यस्तु तुलसीकाष्ठवह्निना ।
मेरुतुल्यं भवेद्दत्तं तदन्नं केशवस्य हि

6.23.17

तुलसीपावकेनाथ यो दीपं कुरुते हरेः ।
दीपलक्षसहस्राणां पुण्यं स लभते फलम्

6.23.18

न तेन सदृशो लोके वैष्णवो भुवि दृश्यते ।
यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचंदनम्

6.23.19

स जायते कृपापात्रं विष्णोर्वाडवसत्तम

6.23.20

तुलसीदारुजातेन चंदनेन कलौ हरिम् ।
विलिप्य भक्तितो नित्यं रमते हरिसन्निधौ

6.23.21

तुलसीपंकलिप्तांगः कुरुते विष्णुपूजनम् ।
पूजाशतदिनैकाह्ना लभ्यते गोशतं फलम्

6.23.22

विलेपार्थे तु कृष्णस्य तुलसीकाष्ठचंदनम् ।
मंदिरे तिष्ठते यावत्तावत्पुण्यफलं शृणु

6.23.23

तिलप्रस्थाष्टकं दत्वा यत्पुण्यं प्राप्नुयान्नरः ।
तत्फलं जायते पुंसां प्रसादाच्चक्रपाणिनः

6.23.24

यो ददाति पितॄणां तु पिंडे तुलसिसंभवम् ।
दलं संजायते तृप्तिः पत्रे पत्रे शताब्दिका

6.23.25

तुलसीमूलमृत्स्नैव स्नानं कुर्याद्विशेषतः ।
तेन तीर्थे कृतं स्नानं यावच्चांगे च मृत्तिका

6.23.26

तदीय यातु मंजर्या पूजनं च करोति यः ।
नानापुष्पैः कृता पूजा यावच्चंद्रदिवाकरौ

6.23.27

यस्मिन्गृहेऽवतिष्ठेत तुलसी वृक्षवाटिका ।
दर्शनात्स्पर्शनाच्चैव ब्रह्महत्यादिपातकम् ।
तत्सर्वं विलयं याति दर्शनेनैव नारद

6.23.28

महादेव उवाच-
अथान्यत्ते प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ।
न कस्यापि च कथितं शृणु देवर्षिसत्तम

6.23.29

यत्र यत्र गृहे ग्रामे वने वा तुलसी भवेत् ।
तत्र तत्र जगत्स्वामी प्रीतात्मा च वसेद्धरिः

6.23.30

गृहे तस्मिन्न दारिद्र्यं नायोगो बंधुसंभवः ।
न दुःखं न भयं रोगस्तुलसी यत्र तिष्ठति

6.23.31

सर्वत्र तुलसी पुण्या पुण्यक्षेत्रे विशेषतः ।
संनिधौ तस्य देवस्य रोपणात्पृथिवीतले

6.23.32

तेषां विष्णुपदं नित्यं तुलस्यारोपणे कृते ।
उत्पादान्दारुणान्रोगान्दुर्निमित्तान्यनेकशः ।
तुलस्याभ्यर्चिते भक्त्या हंत शांतिकरो हरिः

6.23.33

तुलसीगंधमाघ्राय यत्र गच्छति मारुतः ।
दिशो दश च ताः पूता भूतग्रामश्चतुर्विधः

6.23.34

यस्मिन्गृहे मुनिश्रेष्ठ तुलसीमूलमृत्तिका ।
सर्वदा तत्र तिष्ठंति देवताश्च शिवो हरिः

6.23.35

तुलसीवनजा छाया यत्र यत्र भवेद्दिवज ।
तर्पणं कुरुते तत्र पितॄणां दत्तमक्षयम्

6.23.36

तस्य मूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः ।
मंजर्यां वसते रुद्रः तुलसी तेन पावनी

6.23.37

विना यस्तुलसीं कुर्यात्संध्याकाले तु मार्जनम् ।
तत्सर्वं राक्षसहृतं नरकं च प्रयच्छति

6.23.38

तुलसीपत्रगलितं तोयं यः शिरसावहेत् ।
गंगाफलमवाप्नोति शतधेनुफलं लभेत्

6.23.39

शिवालये विशेषेण रोपयेत्तुलसीं यदि ।
बीजसंख्या वसेत्स्वर्गे प्रत्येकं युगसंख्यया

6.23.40

उमया तु पुरा देवि शंकरार्थं हिमालये ।
रोपिताः शतवृक्षास्तु तुलस्याः प्रणतोऽस्म्यहम्

6.23.41

पर्वण्यवसरे यस्तु श्रावणे चाथ रोपयेत् ।
संक्रांतिदिवसे चैव तुलसी चातिपुण्यदा

6.23.42

तुलसीं पूजयेन्नित्यं दरिद्र ईश्वरो भवेत् ।
सर्वसिद्धिकरामूर्तिः कृष्णः कीर्तिं ददाति च

6.23.43

शालग्रामशिला यत्र तत्र संनिहितो हरिः ।
तत्र स्नानं च दानं च वाराणस्यां शताधिकम्

6.23.44

कुरुक्षेत्रं प्रयागं च नैमिषारण्यमेव च ।
तस्य कोटिगुणं पुण्यं शालग्रामशिलार्चनात्

6.23.45

शालग्राममयी मुद्रा संस्थिता यत्र हि क्वचित् ।
वाराणस्यां च यत्पुण्यं सर्वं तत्रैव तद्भवेत्

6.23.46

ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः ।
तत्सर्वं नाशयेदाशु शालग्रामशिलार्चनात्

6.23.23

इति श्रीपाद्मेमहापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे तुलसीशालग्राममाहात्म्यंनाम त्रयोविंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc