भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.1

6.1.1

ॐ श्रीविष्णवे नमः ।
ॐ श्रीवेदव्यासाय नमः ।
ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

6.1.2

अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः

6.1.3

ऋषय ऊचुः -।
श्रुतं पातालखंडं च त्वयाख्यातं विदांवर ।
नानाख्यानसमायुक्तं परमानंददायकम्

6.1.4

अधुना श्रोतुमिच्छामो भगवद्भक्तिवर्द्धनम् ।
पाद्मे यच्छेषमस्तीह तद्ब्रूहि कृपया गुरो

6.1.5

सूत उवाच-।
शृणुध्वं मुनयः सर्वे यदुक्तं शंकरेण हि ।
पृच्छते नारदायैव विज्ञानं पापनाशनम्

6.1.6

एकादा नारदो लोकान्पर्यटन्भगवत्प्रियः ।
गतोऽद्रि मंदरं शंभुं प्रष्टुं किंचिन्मनोगतम्

6.1.7

तत्रासीनमुमानाथं प्रणिपत्य शिवाज्ञया ।
उपविष्टः समादिष्ट आसनेऽभिमुखो विभोः

6.1.8

नारद उवाच।
पप्रच्छ इदमेवेशं यन्मां पृच्छथ सत्तमाः ।
भगवन्देवदेवेश पार्वतीश जगद्गुरो

6.1.9

भगवत्तत्वविज्ञानं येन स्यात्तन्ममादिश ।
शिव उवाच।
शृणु नारद वक्ष्यामि पुराणं वेदसंमितम्

6.1.10

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।
प्रथमोत्तरकीर्तिः स्यात्पर्वताख्यानमेव च

6.1.11

जालंधरं तथाख्यानं श्रीशैलाख्यं ततः परम् ।
हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा

6.1.12

प्रयागतीर्थं ते वक्ष्ये दशाश्वमेधिकं च तत् ।
तुलसीमहिमाचैव शंखचक्रगदादिकम्

6.1.13

द्वारकायास्तथाख्यानं महोत्सवविधिस्ततः ।
तडाकजं तथा पुण्यं वापीकूपप्रपादिकम्

6.1.14

गाणपत्यं ततो वक्ष्ये वैष्णवागममेव च ।
जीर्णोद्धारस्य माहात्म्यं मंदाकिनी समागमम्

6.1.15

साभ्रमत्यास्तु माहात्म्यं माहात्म्यं तीरजं तथा ।
स्त्रीशूद्राणां तथा धर्मं तथा त्याज्यैश्च धारणम्

6.1.16

उमामहेशसंवादे प्रोक्तं नामसहस्रकम् ।
कैलासात्तत्समानीतं नारदेनाग्रजन्मना

6.1.17

लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः ।
स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितैः

6.1.18

इदं पवित्रं परमं पुण्यमायुष्यवर्धनम् ।
पठितव्यं विशेषेण विष्णोः सायुज्यमाप्नुयात्

6.1.19

विष्णोर्नामसहस्रं तत्पावनं भुवि विश्रुतम् ।
चतुर्विंशतिमूर्तीनां स्थानकानीह संवदेत्

6.1.20

तेषां च मातापितरावंतरं च ब्रवीम्यहम् ।
गोत्रं वेदांश्चतेषां वै कर्माणीह तथैव च

6.1.21

स्त्रियस्तेषां प्रवक्ष्यामि यथाविज्ञानदर्शनात् ।
चतुर्विंशत्येकादशीनां द्वादशीनां प्रभावताम्

6.1.22

गोदावर्याश्च माहात्म्यं शंखचक्रादिधारणम् ।
ब्राह्मणानां विशेषेण धारणं विधिपूर्वकम्

6.1.23

यमुनायाश्च माहात्म्यं गंडिकायास्तथा मुने ।
वेत्रवत्यास्तु माहात्म्यं वच्म्यहं ते न संशयः

6.1.24

गिल्लितीर्थोद्भवं पुण्यं शिलाक्षेत्रं महच्च यत् ।
तत्सर्वं संप्रवक्ष्यामि खंडे उत्तरसंज्ञके

6.1.25

अर्बुदेश्वरमाहात्म्यं तत्र तीर्थादिकं च यत् ।
सरस्वत्याश्च माहात्म्यं सिद्धक्षेत्रादिकं च यत्

6.1.26

पद्मनाभसमुत्पत्तिं तुलस्याश्चैव धारणम् ।
गोपीचंदनमाहात्म्यं पट्टपूजां तथैव च

6.1.27

निरंजनस्य माहात्म्यं तथा विज्ञानदर्शनम् ।
तत्र दीपप्रदानं च धूपदानं विशेषतः

6.1.28

कार्तिकस्याथ माहात्म्यं माहात्म्यं माघजं तथा ।
सर्वेषां च व्रतानां च माहात्म्यं विधिपूर्वकम्

6.1.29

शृणु नारद वक्ष्यामि जगन्नाथाख्यमुत्तमम् ।
यं दृष्ट्वा मुच्यते लोको ब्रह्महत्यादिपातकात्

6.1.30

यत्र सिद्धं तथा भुक्तं पारलौकिकदायकम् ।
ब्राह्मणा यत्र भुंजन्ति वेदशास्त्र विशारदः

6.1.31

अन्येषां चैव लोकानां का कथा चैव सुव्रत ।
पंचविंशत्यत्र नागा नर्तक्यो विविधास्तथा

6.1.32

ब्रह्महत्या बालहत्या गवांहत्या तथैव च ।
ताः सर्वा विलयं यांति जगन्नाथस्य दर्शनात्

6.1.33

जगन्नाथेत्युच्चरञ्जंतुर्महापापैः प्रमुच्यते ।
विष्णोः पूजनकं पुष्पैस्तन्माहात्म्यमपि ब्रुवे

6.1.34

पर्वतानां वर्णनं च देशानां वर्णनं तथा ।
गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनम्

6.1.35

सिक्थे दत्ते तु यत्पुण्यं तत्सर्वं प्रवदाम्यहम् ।
कदलीगर्भदानं च वृक्षदानं ततः परम्

6.1.36

अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमम् ।
मंत्रदीक्षागमं चैव गुरोर्लक्षणमेव च

6.1.37

शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिका विदुः ।
चरणोदकमाहात्म्यं पितृश्राद्धादिकं च यत्

6.1.38

पितृक्षयाहदानं च नीलोत्सर्गविधिस्ततः ।
ग्रहणं चंद्रसूर्यस्य तत्र दानं च यद्भवेत्

6.1.39

शालग्रामस्य दानस्य माहात्म्यं माल्यगंधयोः ।
दशम्यैकादशीवेधं द्वादशी हरिवासरम्

6.1.40

तेषां चैव तुमाहात्म्यं रुद्रनामादिकं च यत् ।
मथुरायाश्च माहात्म्यं कुरुक्षेत्रादिकं तथा

6.1.41

सेतुबंधस्य चाख्यानं श्रीरामेश्वरजं तथा ।
त्र्यंबकस्य च माहात्म्यं पंचवट्याश्च यत्फलम्

6.1.42

दंडकारण्यमाहात्म्यं शृणु वाडवसत्तम ।
दंडकारण्यमाहात्म्यं नृसिंहोत्पत्तिकारणम्

6.1.43

गीतायाश्चैव माहात्म्यं तथा भागवतस्य च ।
कालिंद्याश्चैव माहात्म्यमिन्द्रप्रस्थस्य वर्णनम्

6.1.44

रुक्मांगदचरित्रं तु महिमा वैष्णवस्य च ।
वैष्णवे ह्येकभुक्ते तु शृणु वाडवसत्तम

6.1.45

ससागरां च पृथिवीं दत्त्वा चैव तु यत्फलम् ।
तत्फलं समवाप्नोति भुक्ते ह्येके तु वैष्णवे

6.1.46

सात्विकाः सत्त्वसंपन्ना राजसाः कामुकाः स्मृताः ।
तामसा अधमाः प्रोक्ता वैष्णवानां तु लक्षणम्

6.1.47

ब्राह्मणा वैष्णवा ये तु वेदधर्मपरायणाः ।
तेषां माहात्म्यं वक्ष्यामि यथोक्तं चैव नारद

6.1.48

विष्णुनिंदारता ये वै द्रव्यलोभेन सत्तम ।
तेषां पापं तु वक्ष्यामि सांप्रतं ऋषिसत्तम

6.1.49

ज्वालामुख्यास्तथाख्यानं हिमशैलेक्षणं तथा ।
ब्रह्मोत्पत्तिस्तु वै यत्र तं प्रदेशं वदाम्यहम्

6.1.6.1.50

कायस्थानां समुत्पतिर्गयाव्याख्यानमेव च ।
गदाधरस्वरूपं च फल्गुवर्णनमेव च

6.1.51

एतेषां चैव माहात्म्यं पाद्मे दृष्टं तथा श्रुतम् ।
महाबोधस्वरूपं च सकल्केर्यश एव च

6.1.52

रामगयाया माहात्म्यं तथा प्रेतशिलाभवम् ।
ब्रह्मणश्च तथाख्यानं शिलाख्यानं वदाम्यहम्

6.1.53

ब्रह्मयोनेस्तथाख्यानमक्षयाख्य वटस्य च ।
श्राद्धे तत्र महत्पुण्यं यत्तत्सर्वं वदाम्यहम्

6.1.54

महेश्वरकृतां भक्तिं विष्णुना च महात्मना ।
अद्यापि काश्यां जपति महारुद्रो ह्यनामयम्

6.1.55

माहात्म्यं च ततो वक्ष्ये सागरस्य हि नारद ।
तिलतर्पणजं पुण्यं यवजं पुण्यमेव च

6.1.56

तुलसीदलसंयुक्तं तर्पणं देवजं तथा ।
तन्माहात्म्यं प्रवक्ष्यामि यथोक्तं ब्रह्मणा मम

6.1.57

शंखनादस्य माहात्म्यं पुण्यं चासंख्यसंज्ञकम्

6.1.58

रवेर्वारस्य माहात्म्यं योगस्य विष्णुसंज्ञिनः ।
वैधृतस्य च माहात्म्यं व्यतीपातस्य वै तथा

6.1.59

एतत्सर्वं प्रवक्ष्यामि यथोक्तं चैव नारद ।
अन्नदानं वस्त्रदानं भूमिदानं तथैव च

6.1.60

शय्यादानं च गोदानं तथा वृषभमेव च ।
जन्माष्टम्याश्च माहात्म्यं मत्स्यमाहात्म्यमेव च

6.1.61

कूर्ममाहात्म्यं तत्प्रोक्तं वाराहस्य तथैव च ।
माहात्म्यं च गवादीनां दानानां प्रवदाम्यहम्

6.1.62

प्रह्लादमुखभक्ता ये ये केचिद्भुवि विश्रुताः ।
तन्माहात्म्यं ततो वक्ष्ये शृणु देवर्षिसत्तम

6.1.63

जागरे महिमा चैव दीपदाने कृते च यत् ।
प्रहरेषु पृथक्पूजाफलं देवर्षिसत्तम

6.1.64

पर्शुरामस्य चाख्यानं रेणुकाया वधस्तथा ।
ब्राह्मणानां भूमिदानं रामेणैव च यत्कृतम्

6.1.65

रामस्याश्रमजं पुण्यं वदाम्यहमशेषतः ।
नर्मदायास्तथाख्यानं पुण्यपूजनयोस्तथा

6.1.66

दानं वेदपुराणानामाश्रमाणां निरूपणम् ।
हिरण्यदानपुण्यं च ब्रह्मांडदानमेव च

6.1.67

पद्मपुराणदानं च खंडानां व्यक्तयस्तथा ।
प्रथमं सृष्टिखंडं च द्वितीयं भूमिखंडकम्

6.1.68

स्वर्गखंडं तृतीयं च तुर्यं पातालसंज्ञकम् ।
उत्तरं पंचमं प्रोक्तं खंडान्यनुक्रमेण वै

6.1.69

एतत्पद्मपुराणं तु व्यासेन तु महात्मना ।
कृतं लोकहितार्थाय ब्राह्मणश्रेयसे तथा

6.1.70

शूद्राणां पुण्यजननं तीव्रदारिद्र्यनाशनम् ।
मोक्षदं सुखदं चाशु कल्याणप्रदमव्ययम् ।
श्रुत्वा दानं तथा कुर्याद्विधिना तत्र नारद

6.1.1

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे महेशनारदसंवादे बीजसमुच्चयोनाम प्रथमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc