भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.186

6.186.1

लघुत्तम।400प्x।महाभूताः
महादेव उवाच-
अस्ति कोल्हापुरं नाम नगरं दक्षिणापथे ।
सुखानां सदनं साध्वि साधूनां सिद्धिसंभवम्

6.186.2

परशक्तेः परंपीठं सर्वदेवनिषेवितम् ।
पुराणेषु प्रसिद्धं यद्भुक्तिमुक्तिफलप्रदम्

6.186.3

कोटिशस्तत्र तीर्थानि शिवलिंगानि कोटिशः ।
आस्ते रुद्रगया यत्र विशालं लोकविश्रुतम्

6.186.4

तुंगाचलमहावप्र गोपुरोल्लासितोरणम् ।
प्रासादशिखरे यत्र तुंगं च कनकध्वजम्

6.186.5

सोमकांतिमहासौधवलभीपंक्तिशोभितम् ।
जालरंध्रोद्गिरद्धूपधूमाऽमोदितदिक्तटम्

6.186.6

चलत्पताकविस्तीर्णच्छायं देवालयान्वितम् ।
चतुरैः सुंदरैः स्निग्धैः श्रीमद्भिः शुचिमानसैः

6.186.7

अधिष्ठितं सदाचारैः पुरुषेर्भूरिभूषणैः ।
कुरंगनयनाश्चंद्रवदनाः कुटिलालकाः

6.186.8

उत्फुल्लचंपकच्छायाः पीनतुंगपयोधराः ।
कृशमध्या निम्ननाभि वलित्रयविराजिताः

6.186.9

विशालजघनाश्चारुजंघा युग्मा वरांघ्रयः ।
वाचालमेखलादामनिक्वणन्मणिनूपुराः

6.186.10

रणत्कंकणहस्ताब्ज स्फुरत्करज रश्मयः ।
वसंति प्रमदा यत्र मादयंत्यो मुनीनपि

6.186.11

समस्तवस्तुसंयुक्तं सर्वभोगसमन्वितम् ।
मंगलैः सकलैर्युक्तं महालक्ष्मीसमन्वितम्

6.186.12

तत्रागच्छत्पुमान्कश्चिद्युवा गौरं सुलोचनः ।
कंबुकंठः पृथुस्कंधो महावक्षा महाभुजः

6.186.13

समस्तलक्षणोपेतो गोचरासक्तमानसः ।
प्रविश्य नगरं पश्यन्शोभां सौधेषु सर्वतः

6.186.14

उत्कंठितमना द्रष्टुं महालक्ष्मीं सुरेश्वरीम् ।
मणिकुंडे कृतः स्नानः संपन्न पितॄतर्पणः

6.186.15

महालक्ष्मीं महामायां नत्वा तुष्टाव भक्तितः ।
जयत्यपारकरुणाशरण्या जगदंबिका

6.186.16

कुर्वाणा जगतो जन्म पालनं क्षपणं दृशा ।
यया शक्त्या कृतादिष्टः परमेष्ठी सृजत्यसौ

6.186.17

अवष्टभ्य च तां शक्तिं पालयत्यच्युतो जगत् ।
यया शक्त्या कृतावेशः संहरत्यखिलं हरः

6.186.18

तां भजे परमां शक्तिं सर्गस्थितिलयोर्जिताम् ।
योगिध्येयांघ्रिकमले कमले कमलालये

6.186.19

स्वभावानखिलान्नस्त्वं गृह्णासींद्रियगोचरान् ।
त्वमेव कल्पनाजालं तत्कल्पं कुरुषे मनः

6.186.20

इच्छाज्ञानक्रियारूपा परसंवित्स्वरूपिणी ।
निष्फला निर्मला नित्या निराकारा निरंजना

6.186.21

निरंतरा निरातंका निरालंबा निरामया ।
तवैवं महिमानं हि को वर्णयितुमीशते

6.186.22

वंदे निर्भिन्नषट्चक्रद्वादशांतर्विहारिणीम् ।
अनाहतध्वनिमयीं बिंदुनादकलात्मिकाम्

6.186.23

मातस्त्वं पूर्णशीतांशु गलत्पीयूषवाहिनी ।
पुष्णासि वत्सले बालान्सनकादीन्दिगंबरान्

6.186.24

अनुस्यूता शिवा संविज्जाग्रत्स्वप्नसुषुप्तिषु ।
तुरीयायां वर्त्तमानां दयासूनृतसंधिषु

6.186.25

ददासि प्राणिनां सर्वाः सततं ब्रह्मसंपदः ।
संहृत्य तत्वसंघातं तुरीयातीतया त्वया

6.186.26

योगिनां बिंबतादत्म्यं दीयते निर्विकल्पया ।
परां नमामि पश्यंतीं मध्यमां वैखरीमपि

6.186.27

रूपाणि देवि गृह्णासि जगत्संत्राणहेतवे ।
त्वं ब्राह्मी वैष्णवी च त्वं माहेशी च त्वमंबिके

6.186.28

वाराहि त्वं महालक्ष्मीर्नारसिंही त्वमैंद्रिका ।
त्वं कौमारी चंडिका त्वं लक्ष्मीस्त्वं विश्वपावनी

6.186.29

सावित्री त्वं जगन्माता शशिनी त्वं च रोहिणी ।
त्वं स्वाहा त्वं स्वधा त्वं हि त्वं सुधा परमेश्वरी

6.186.30

चंडमुंडभुजादंडखंडदोर्दंडमंडिते ।
रक्तबीजगलद्रक्तपानघूर्णितलोचने

6.186.31

उन्मत्तमहिषग्रीवोन्मूलनप्रौढ दोर्युगे ।
शुंभासुरमहादैत्यदारणायातविक्रमे

6.186.32

अनंतचरिते तुभ्यं नमस्त्रैलोक्यमातृके ।
भक्तकल्पलते मह्यं प्रसीद परमेश्वरि

6.186.33

इति तेन स्तुता देवी महालक्ष्मीस्ततः स्वयम् ।
निजरूपं समास्थाय पुरुषं प्रत्युवाच तम्

6.186.34

श्रीलक्ष्मीरुवाच-।
राजपुत्र प्रसन्नाऽहं वृणीष्व वरमुत्तमम् ।
राजपुत्र उवाच।
पिता मे धरणीपालो वाजिमेधं महाक्रतुम्

6.186.35

कुर्वाणो दैवयोगेन रोगाक्रांतो दिवं ययौ ।
तद्वपुस्तप्ततैलेन शोषयित्वा मया ततः

6.186.36

स्थापितस्तत्र यागोऽसौ यथापूर्वमवर्तत ।
अथ क्रांतमहीचक्रो यूपे यागतुरंगमः

6.186.37

निशीथे बंधनं हित्वा नीतः केनापि कुत्रचित् ।
अदृष्ट्वा तद्गतं क्वापि निवृत्तेषु जनेष्वहम्

6.186.38

आमंत्र्य ऋत्विजः सर्वाञ्छरणं त्वामुपागतः ।
प्रसन्ना यदि देवि त्वं तन्मे यागतुरंगमः

6.186.39

दृष्टो भवतु यागोऽसौ संपूर्णो जायते यथा ।
आनृण्यं मम तातस्य तेन राज्ञो भविष्यति

6.186.40

तथा कुरु जगद्धात्रि शरणागतवत्सले ।
देव्युवाच।
ममद्वारं द्विजः सिद्धसमाधिरिति विश्रुतः

6.186.41

ममाज्ञया स ते सर्वं कार्यं निष्पादयिष्यति ।
इत्युक्तः श्रीमहालक्ष्म्या ततो राजकुमारकः

6.186.42

आजगाम मुनिः सिद्धसमाधिर्यत्र तिष्ठति ।
प्रणम्य तस्यपादाब्जं कृतांजलिरवस्थितः

6.186.43

तमुवाच ततो विप्रः प्रहितोऽसि त्वमंबया ।
त्वदीप्सितमिदं सर्वं साधयामि विलोकय

6.186.44

इत्युक्त्वा त्रिदशान्सर्वानाचकर्ष स मांत्रिकः ।
एक्षत क्षितिपालस्य तनयोऽसौ तदा सुरान्

6.186.45

कृतांजलिपुटान्देवान्वेपमानकलेवरान् ।
अथ तानमरान्सर्वान्संबभाषे द्विजोत्तमः

6.186.46

अमुष्य राजपुत्रस्य वाजी यज्ञाय कल्पितः ।
नीतोस्ति देवराजेन क्षपायामपहृत्य सः

6.186.47

गीर्वाणा अश्वमेवास्य समानयत मा चिरम् ।
अथ तस्य मुनेर्वाक्याद्देवैर्यज्ञतुरंगमः

6.186.48

समर्पितस्ततस्तेन तेऽनुज्ञात्वा दिवौकसः ।
आकृष्टानमरान्दृष्ट्वा गतं लब्ध्वा तुरंगमम्

6.186.49

महीपतिसुतो नत्वा तं मुनिं वाक्यमब्रवीत् ।
आश्चर्यमिदमेतत्ते सामर्थ्यमृषिसत्तम

6.186.6.186.50

कृतं त्वया चित्रमिदं त्रिदशाकर्षणं क्षणात् ।
हस्तादाकृष्य दत्तो मे यज्ञीयोऽयं तुरंगमः

6.186.51

न किंचिदपरं यावद्दुष्करं यत्सुरैरपि ।
प्रभविष्यति तत्कर्तुं भवानेव न चापरः

6.186.52

शृणु विप्र महीपाल पितासीन्मे बृहद्रथः ।
प्रारब्ध हयमेधोऽसौ दैवेन निधनं गतः

6.186.53

अद्यापि तस्य देहोस्ति तप्ततैलेन शोषितः ।
तस्य संजीवनं भूयः कर्त्तुमर्हसि सत्तम

6.186.54

इत्याकर्ण्य स्मितं कृत्वा स जगाद महामुनिः ।
यामस्तत्र पिता यत्र तावको यागमंडपः

6.186.55

अथागत्य समं तेन तत्र सिद्धः समाधिना ।
पयोऽभिमंत्र्य विदधे तस्य प्रेतस्य मूर्द्धनि

6.186.56

ततः प्राप नृपः संज्ञामुत्तस्थे वै ददर्श च ।
स तं पप्रच्छ विप्रेंद्रं कोऽसि धर्मेति भूपतिः

6.186.57

ततो राजसुतः सर्वं भूपालाय न्यवेदयत् ।
स नत्वा ब्राह्मणं राजा तं पुनर्दत्तजीवितम्

6.186.58

बभाषे केन पुण्येन त्वयि शक्तिरलौकिकी ।
यया मे जीवितं दत्तमाकृष्टाश्च दिवौकसः

6.186.59

यागश्चोद्धरितो विप्र येनमेतन्निरूपय ।
इत्युक्तस्तेनविप्रोऽसौ जगाद श्लक्ष्णया गिरा

6.186.60

गीतानां द्वादशाध्यायं जपाम्यहमतंद्रितः ।
तेन शक्तिरियं राजन्यया प्राप्तोसि जीवितम्

6.186.61

एतदाकर्ण्य राजाऽसौ द्वादशाध्यायमुत्तमम् ।
पपाठ तस्माद्विप्रर्षेः सकाशात्ब्राह्मणान्वितम्

6.186.62

तस्याध्यायस्य माहत्म्यात्ते सर्वे सद्गतिं ययुः ।
अन्ये पठित्वा जीवाश्च मुक्तिमापुरहो पराम्

6.186.186

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये षडशीत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc