भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.185

6.185.1

देव्युवाच।
इतिहासोऽयमीशान श्रेयसां साधनं परम् ।
आकर्ण्य करुणापूर्ण ममकांक्षा प्रवर्त्तते

6.185.2

एकादशस्य माहात्म्यमध्यायस्य कथाश्रयम् ।
व्यावर्णय विरूपाक्ष वक्तॄणां प्रथम प्रभो

6.185.3

ईश्वर उवाच-।
आकर्णय कथां कांते गीतावर्णनसंश्रयाम् ।
विश्वरूपाभिधानस्य माहात्म्यमपि पावनम्

6.185.4

अध्यायस्य विशालाक्षि वक्तुं तावन्न शक्यते ।
सहस्राणि कथाः संति तत्रैका कथ्यते मया

6.185.5

प्रणीतायास्तटे नद्या मेघंकरमिति श्रुतम् ।
नगरं गरिमाधार तुंगप्राकारगोपुरम्

6.185.6

विशालाश्रमशालासु स्वर्णस्तंभविभूषितम् ।
श्रीमद्भिः सुखिभिः शांतैः सदाचारैर्जितेंद्रियैः

6.185.7

अधिष्ठितं जवैश्चारुशृंगाटकमनोहरम् ।
मणिस्तंभस्फुरत्स्वर्णापणचत्वरशोभितम्

6.185.8

पताकाकिंकिणीक्वाण कदंबक कलस्वरम् ।
वेदाध्ययननिर्घोषवाचालित दिगंतरम्

6.185.9

तूर्यसंघोषणाकीर्ण विशालव्योममंडलम् ।
पताकापल्लोद्भूतवातनिर्जितविग्रहम्

6.185.10

राजामार्गवरद्वारनारीमंजीरसिंजितैः ।
वल्लकीवेणुकैर्गीतेर्भाति वाजींद्र हेषितैः

6.185.11

प्रेक्षमाणमिवाभीक्ष्णं दिक्पालानां पुरैः समम् ।
आस्ते जगत्पतिर्यत्र शार्ङ्गपाणिर्विराजितः

6.185.12

मूर्तिमत्परमं ब्रह्म जगल्लोचनजीवितम् ।
लक्ष्मीनयनराजीव पूजिताकारगौरवः

6.185.13

त्रिविक्रमवपुर्मेघश्यामलः कोमलद्युतिः ।
श्रीवत्सवक्षाराजीव वनमालाविभूषितः

6.185.14

अनेकभूषणोपेतः सरत्न इव वारिधिः ।
चलत्सौदामिनीदाम सांद्रमेघसमद्युतिः

6.185.15

तस्यास्ते मुकुटे साक्षात्शार्ङ्गपाणिः परः पुमान् ।
तं दृष्ट्वा मुच्यते जंतुर्जन्मसंसारबंधनात्

6.185.16

यस्मिन्पुरे महातीर्थं विद्यते मेखलाभिधम् ।
यत्र स्नात्वा नरैर्नित्यं प्राप्यते वैष्णवं पदम्

6.185.17

तत्र वीक्ष्य जगन्नाथं नरसिंहं कृपार्णवम् ।
सप्तजन्मार्जिताद्धोरान्मुच्यते दुष्कृतान्नरः

6.185.18

मेखलायां गणाधीशं विलोकयति यो नरः।
स निस्तरति विघ्नानि दुस्तराण्यपि सर्वदा ।
ब्रह्मचर्यपरो दांतो निर्ममो निरहंकृतिः

6.185.19

तस्मिन्मेघंकरे कश्चिदभूद्ब्राह्मणसत्तमः ।
सुनंद इति विख्यातो वेदशास्त्रविशारदः

6.185.20

वशीकृतेंन्द्रियग्रामो वासुदेवपरायणः ।
देवस्य शार्ङ्गिणः पार्श्वे गीताध्यायमिमं प्रिये

6.185.21

एकादशं पठत्येष विश्वरूपप्रदर्शनम् ।
अध्यायस्य प्रभावेन ब्रह्मज्ञानमवाप सः

6.185.22

परमानंदसंदोह श्लाघ्यसंवित्समाधिना ।
प्रत्यङ्मुखेंद्रियतयानिश्चलां स्थितिमीयुषा

6.185.23

सततं स्थीयते तेन जीवन्मुक्तेन योगिना ।
एकदा स महायोगी सिंहराशिस्थिते गुरौ

6.185.24

गोदावरीतीर्थयात्रां विधातुमुपचक्रमे ।
प्रथमेऽह्नि समागत्य विरजं तीर्थमुत्तमम्

6.185.25

नाभिमारभ्य तीर्थेषु स समभ्यर्च्य देवताम् ।
मज्जन्मज्जन्जगद्धात्रीं कमलां स व्यलोकयत्

6.185.26

तां संपूज्य महामायां सर्वकामफलप्रदाम् ।
तारातीर्थे ततः स्नात्वा कपिलासंगमे ततः

6.185.27

अष्टतीर्थमसौ चक्रे विधाय पितृतर्पणम् ।
कुमारीशं शिवं नत्वा कपिलाद्वारमाययौ

6.185.28

तत्र निर्मज्ज्य निर्धूतप्राग्जन्मांतरदुष्कृतः ।
संपूज्य नत्वा श्रुत्वा च देवं वै मधुसूदनम्

6.185.29

उषित्वा तत्र तां रात्रिं प्रागात्प्रातः सह द्विजैः ।
नरसिंहवने तत्र तीर्थे रामस्य दीर्घिका ।
प्रह्लादपूजितः साक्षादास्ते यत्र नृकेसरी

6.185.30

तं दृष्ट्वा देवदेवेशं पूजयित्वा तु भक्तितः ।
तत्र तं दिवसं नीत्वा स ययावंबिकापुरम्

6.185.31

अनुग्रहेण भक्तानामंबिका तत्र तिष्ठति ।
पूरयंति मनुष्याणां वांच्छितान्यखिलान्यपि

6.185.32

पूजयित्वांबिकां भक्त्या पुष्पगंधानुलेपनैः ।
उपहारैश्च विविधैः स्तौत्रैः प्रणमनैरपि

6.185.33

विप्रस्तस्मात्पुरा प्राप्तः कंठस्थानाभिधं पुरम् ।
यत्रास्ते परमा शक्तिर्महालक्ष्मीर्महाद्युतिः

6.185.34

तामवेक्ष्य सुधाभानुभास्करद्युतिमंडलाम् ।
संसारतापविच्छेद पद्मपीयूषवाहिनीम्

6.185.35

योगिराजहृदंभोज राजहंसनिषेविताम् ।
अनाहतमहानादमयीमद्वयरूपिणीम्

6.185.36

महालक्ष्मीं भगवतीं वांछितार्थप्रदायिनीम् ।
आराध्य भक्तिभावेन चेतसा स मुनीश्वरः

6.185.37

विवाहमंडपं प्राप पुरं विप्रैः समन्वितः ।
पुरे तत्र प्रतिगृहं वासस्थानमयाचत

6.185.38

न लेभे वसतिं स्थातुं गेहे कस्मिन्नपि द्विजः ।
दर्शितं ग्रामपालेन विशालं वासमंदिरम्

6.185.39

प्रविश्य वसतिं चक्रे ब्राह्मणः संगिभिः सह ।
ततः प्रभाते विमले सुनंदोऽसौ द्विजोत्तमः

6.185.40

बहिरालोकयांचक्रे वासगेहान्निजं वपुः ।
अध्वन्यानखिलान्यत्र जातान्क्वापि यदृच्छया

6.185.41

गम्यमानः समायांतं ग्रामपालो ददर्श सः ।
तं बभाषे ग्रामपाल आयुष्मानसि सर्वशः

6.185.42

भागधेयवतां पुंसां पुण्यः पुण्यवतामसि ।
प्रभावो विद्यते वत्स कोपि लोकोत्तरस्त्वयि

6.185.43

क्व प्रयाताः सहायास्ते कथं तत्सदनाद्बहिः ।
तत्पश्य मुनिशार्दूल कथयामि तवाग्रतः

6.185.44

किंतु नान्यं त्वया तुल्यं पश्यामीह तपस्विनम् ।
किं जानासि महामंत्रं कां विद्यामवलंबसे

6.185.45

कस्य देवस्य कारुण्याच्छक्तिर्लोकोत्तरा त्वयि ।
तत्कारुण्यवशात्तिष्ठ ग्रामेऽस्मिन्ब्राह्मणोत्तम

6.185.46

शुश्रूषामखिलामेव भगवंस्ते करोम्यहम् ।
इति संवासयामास तस्मिन्ग्रामे मुनीश्वरम्

6.185.47

परिचर्या च तस्यासौ भक्त्या चक्रे दिवानिशम् ।
दिवसेषु प्रयातेषु सप्ताष्टसु समेयिवान्

6.185.48

प्रातरागत्य तस्याग्रे रुरोद भृशदुःखितः ।
अद्य मे भाग्यहीनस्य गुणवान्भक्तिमान्सुतः

6.185.49

जाज्वल्यमानदंष्ट्रेण भक्षितो निशि रक्षसा ।
इत्येवं रक्षकेणोक्तं तं पप्रच्छ स संयमी

6.185.6.185.50

क्वास्ते स राक्षसः पुत्रो भक्षितस्ते कथं वद ।
ग्रामपाल उवाच-।
वर्तते नगरे घोरः पुरुषादो निशाचरः

6.185.51

स खादति नरानेत्य नित्यं नगरगोचरान् ।
स सर्वैर्नागरैरत्र प्रार्थितः पुरुषैः पुरा

6.185.52

रक्ष राक्षस नः सर्वान्ग्रासं ते कल्पयामहे ।
पथिका निशि निद्रंति ये च तान्भुंक्ष्व राक्षस

6.185.53

एतस्मिन्सदने पांथान्ग्रामपालप्रवेशितान् ।
आहारं कल्पयांचक्रुरात्मीयप्राणगुप्तये

6.185.54

भवान्सुप्तोगृहेऽमुष्मिन्नधन्यैः संयुतः परैः ।
ते ग्रस्ताः किल चानेन न त्वं मुक्तोसि द्विजोत्तम

6.185.55

प्रभावं भवतो वेत्ति भवानेव द्विजोत्तम ।
मदीय तनयस्याद्य मित्रमेकमुपागतम्

6.185.56

अजानता मया सोऽपि तनयस्य प्रियः सखा ।
अन्यैः पांथजनैः सार्द्धं तस्मिन्गेहे प्रवेशितः

6.185.57

श्रुत्वा तत्र प्रविष्टं तं निशीथे तनयो मम ।
तमानेतुं गतः सोऽपि भक्षितस्तेन रक्षसा

6.185.58

दुःखितेन मया प्रोक्तः प्रातः स पिशिताशनः ।
ममापि पुत्रो दुष्टात्मन्भवता निशि भक्षितः

6.185.59

भवज्जठरनिर्मग्नः सुतोऽसौ येन जीवति ।
अस्ति चैवमुपायस्ते ब्रूहि मे त्वं निशाचर

6.185.60

राक्षस उवाच-।
अंतःप्रविष्टा त्वत्पुत्रमज्ञात्वाहमभक्षयम् ।
अजानन्भक्षितः पांथैः सहितोऽसौ सुतस्तव

6.185.61

यथा जीवति मे कुक्षौ यथा भवति रक्षितः ।
तथा विहितमप्यस्ति दैवेन परमेष्ठिना

6.185.62

गीतैकादशमध्यायं यः पठत्यनिशं द्विजः ।
तत्प्रभावेन मे मुक्तिर्मृतानां पुनरुद्भवः

6.185.63

ग्रामपाल उवाच-।
कथमेकादशाध्यायसामर्थ्यमिदमद्भुतम्

6.185.64

इति पृष्टो मया विप्र स बभाषे निशाचरः

6.185.65

पुरा गृध्रेण केनापि नभोमार्गेण गच्छता ।
अस्थिखंडं स्वतुंडाग्रात्पातितं क्वापि वारिणि

6.185.66

तं जलाशयमागत्यकोऽपि ज्ञानीश्वरस्तदा ।
महातीर्थमिति ज्ञात्वा विदधे पितृतर्पणम्

6.185.67

तमूचिरे जनाः सर्वे तीर्थमेतत्कथं वद ।
जपत्येकादशाध्यायं त्रिसन्ध्यं नियतेंद्रियः

6.185.68

कृतमौनस्तु विप्रोऽसौ चौरैर्व्यापादितः पथि ।
तस्यास्थिशकलं गृध्रवदनात्पतितं जले

6.185.69

तेन तीर्थमिदं दिव्यं जातं पातकनाशनम् ।
ततस्ते मानवाः सर्वे सस्नुस्तत्र जलाशये

6.185.70

निष्कल्मषतया चैवं प्रापुस्ते परमं पदम् ।
एकादशस्य सामर्थ्यादध्यायस्य भविष्यति

6.185.71

ममापि मुक्तिः पांथानां पुनरुत्थानमेव च ।
यो मया कश्चिदुद्गीर्णो ब्राह्मणोऽत्रैव तिष्ठति

6.185.72

स च एकादशाध्यायं जपति स्म निरंतरम् ।
स तेनाध्यायमंत्रेण सप्तवाराभिमंत्रितम्

6.185.73

विधाय वारि विप्रेंद्रः क्षिपेद्यदि ममोपरि ।
ततो मे शापनिर्मुक्तिर्भविष्यति न संशयः ।
इति तेनास्मि संदिष्टः समायातस्त्वदंतिकम्

6.185.74

विप्र उवाच-।
राक्षसः केन पापेन जातोसौ वद रक्षक ।
यत्क्षपायां गृहे तस्मिन्नरान्खादति निद्रितान्

6.185.75

ग्रामपाल उवाच।
अस्मिन्ग्रामे पुरा कश्चिदासीद्विप्रः कृषीवलः ।
एकदा शालिकेदाररक्षणे व्याकुलो द्विजः

6.185.76

नातिदूरे महागृध्रः पांथमेकमभक्षयत् ।
तं विमोचयितुं दूराद्दयांचक्रेऽपि तापसः

6.185.77

भुक्त्वा पांथं खगस्तावन्निरगादंबराध्वना ।
ततः स तापसः कोपात्तं बभाषे कृषीवलम्

6.185.78

धिक्त्वां हालिक दुर्बुद्धे कठोरमतिनिर्घृण ।
कुक्षिभरं परत्राण विमुखं हतजीवितम्

6.185.79

चोरैश्च दंष्ट्रिभिः सर्प्पैररिवह्निविषांबुभिः ।
गृध्रराक्षसभूतैश्च वेतालादिभिराहतान्

6.185.80

जनानुपेक्षते शक्तः स तद्वधफलं लभेत् ।
न मोचयति यो विप्रं प्रभुश्चोरादिभिर्धृतम्

6.185.81

स याति नरकं घोरं स पुनर्जायते वृकः ।
निहन्यमानं विपिने गृध्रव्याघ्रेण पीडितम्

6.185.82

मुंचमुचेति यो वक्ति स याति परमां गतिम् ।
गवामर्थे हता व्याघ्रैर्व्याधैर्दुष्टैश्च राजभिः

6.185.83

तेपि यांति पदं विष्णोर्दुष्प्राप्यं योगिनामपि ।
अश्वमेधसहस्राणि वाजपेयशतानि च

6.185.84

शरणागतसंत्राण कलां नार्हंति षोडशीम् ।
दीनस्योपेक्षणं कृत्वा भीतस्य च शरीरिणः

6.185.85

पुण्यवानपि कालेन कुंभीपाके स पच्यते ।
पश्यन्नपि भवान् पांथं दुष्टगृध्रेण भक्षितम्

6.185.86

निवारणसमर्थोपि न चक्रे यन्निवारणम् ।
निष्कृपोसि यतस्तस्माद्भविष्यसि निशाचरः

6.185.87

इमां शापं मुने श्रुत्वा कंपमानकलेवरः ।
प्रणम्य हालिको विप्रं बभाषे करुणं वचः

6.185.88

अत्राहं क्षेत्ररक्षायां चिरं क्षिप्तेन चक्षुषा ।
न वेद्मि निकटं गृध्र हन्यमानमिमं नरम्

6.185.89

तेन मेऽनुग्रहं कर्तुं कृपणस्य त्वमर्हसि ।
विप्र उवाच।
यो वेत्त्येकादशाध्यायं जपत्यनुदिनं च यः

6.185.90

तेनाभिमंत्रितं वारि यदा शिरसि तावके ।
पतिष्यति तदा शापात्तव मुक्तिर्भविष्यति

6.185.91

इत्युक्त्वा तापसो यातो हालिको राक्षसोऽभवत् ।
तदागच्छ द्विजश्रेष्ठ तेनाध्यायेन मंत्रय ।
तीर्थोदकं स्वहस्तेन तस्य मूर्द्धनि निक्षिप

6.185.92

महादेव उवाच।
इति तत्प्रार्थितं तस्य श्रुत्वा च करुणाप्लुतः ।
तथेति सहपालेन मुनी रक्षोंतिकं ययौ

6.185.93

एकादशेन तेनांबु विश्वरूपेण मंत्रितम् ।
निक्षिप्तं तस्य शिरसि तेन विप्रेण योगिना

6.185.94

गीताध्यायप्रभावेण शापमोक्षमवाप सः ।
विहाय राक्षसं देहं चतुर्बाहुस्ततोऽभवत्

6.185.95

निगीर्णा ये जनास्तेन पांथा आसन्सहस्रशः ।
चतुर्भुजा बभूवुस्ते शंखचक्रगदाधराः

6.185.96

ते विमानान्यारुरुहुस्तावदूचे स राक्षसम् ।
मदीयस्तनयः कस्तं दर्शयस्व निशाचर

6.185.97

इत्युक्ते ग्रामपालेन दिव्यधीराह राक्षसः ।
एवं चतुर्भुजं विद्धि तमालश्यामलद्युतिम्

6.185.98

माणिक्यमुकुटं दिव्यमणिकुंडलमंडितम् ।
हारहारिमहास्कंधं स्वर्णकेयूरभूषितम्

6.185.99

राजीवलोचनं स्निग्धं हस्ते कृतसरोरुहम् ।
दिव्यं विमानमारूढं देवत्वं प्राप्तमात्मजम्

6.185.6.185.100

इति तस्य वचः श्रुत्वा सुतं दृष्ट्वा च तादृशम् ।
स्वगेहं नेतुमारेभे जहास स सुतस्ततः

6.185.101

कति वाराणि जातोऽसि त्वं पुत्रो मम रक्षक ।
पूर्वपुत्रस्त्वदीयोऽस्मि अधुना विबुधोऽस्म्यहम्

6.185.102

यास्यामि वैष्णवं धाम ब्राह्मणस्य प्रसादतः ।
निशाचरोऽपि प्राप्तोऽयं पश्य देहं चतुर्भजम्

6.185.103

एकादशस्य माहात्म्याद्याति स्वर्गं समं जनैः ।
विप्रादस्मात्तमध्यायमधीष्व त्वं जपानिशम्

6.185.104

भविष्यति न संदेहस्तवापि गतिरीदृशी ।
तात तस्मात्सतां संगं दुर्लभं सर्वथा जनैः

6.185.105

सोप्यद्य ते समुत्पन्नो ह्यात्मनः साधयेप्सितम् ।
किं धनैर्भोगदानैर्वा किं यज्ञैस्तपसा नु किम्

6.185.106

किं पूर्तैर्वापरं श्रेयो विश्वरूपस्य पाठतः ।
तद्विष्णोः परमं रूपमध्यायस्य श्रुतेन च

6.185.107

यत्पूर्णानंदसंदोह कृष्णब्रह्मास्यनिर्गतम् ।
कुरुक्षेत्रेऽर्जुने मित्रे तत्कैवल्यरसायनम्

6.185.108

नृणां च भवभीतानामाधिव्याधिभयापहम् ।
अनेकजन्मदुःखघ्नं नान्यत्पश्यामि तत्स्मर ।
शिव उवाच।
इत्युक्त्वा सह तैः सर्वैर्ययौ विष्णोः परं पदम्

6.185.109

तमध्यायं ततो विप्राद्ग्रामपालः पपाठ सः ।
तावुभौ तस्य माहात्म्याज्जग्मतुर्वैष्णवं पदम्

6.185.110

इत्येकादशमाहात्म्य कथा तुभ्यं निरूपिता ।
यस्याः श्रवणमात्रेण महापातकसंक्षयः

6.185.185

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये सतीश्वरसंवादे पंचाशीत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc