भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.182

6.182.1

शिव उवाच।
अष्टमाध्यायमाहात्म्यं शृणु वक्ष्यामि पार्वति ।
यस्य श्रवणमात्रेण परां मुदमवाप्स्यसि

6.182.2

आमर्दकं पुरं नाम्ना विश्रुतं दक्षिणापथि ।
द्विजन्मा भावशर्मेति तत्रासीद्गणिकापतिः

6.182.3

खादन्मांसं पिबन्मद्यं चोरयन्साधुसंपदः ।
रममाणः परस्त्रीभिराखेटक कुतूहली

6.182.4

अत्यवाहयदत्युग्रो गरीयांसं मनोरथम् ।
सुहृदां विटगोष्ठ्यां च तालीफलसुधारसम्

6.182.5

निपीय कंठपर्यंतमजीर्णेनातिपीडितः ।
मृतः कालेन पापात्मा जातस्तालीतरुर्महान्

6.182.6

तस्यच्छायामुपाश्रित्य निबिडामतिशीतलाम् ।
अभूतां दंपती कौचिद्ब्रह्मराक्षसतां गतौ

6.182.7

देव्युवाच।
किं जातीयौ किमात्मानौ किंवृत्तावित्युदीरय ।
कर्मणा केन वा देव ब्रह्मराक्षसता तयोः

6.182.8

शिव उवाच।
वेदवेदांगतत्वज्ञः सर्वशास्त्रार्थकोविदः ।
सदाचारोऽभवत्कश्चिद्दिवजो नाम कुशीवलः

6.182.9

जाया च तस्य कुमति नामधेया दुराशया ।
स सभार्यो महादानान्याददानोऽतिलोभवान्

6.182.10

महिषीं कालपुरुषं हयादीननुवासरम् ।
अप्रयच्छन्द्विजातिभ्यो दानलब्धां वराटिकाम्

6.182.11

कालेन दंपती प्रेतौ ब्रह्मराक्षसरूपिणौ ।
पर्यटंतौ महीमेतां क्षुत्तृषाकुलविग्रहौ

6.182.12

विशश्रमतुरागत्य मूलं तालीतरोस्ततः ।
कथमेतन्महादुःखमावयोरपगच्छति

6.182.13

कथं वा जायते मुक्तिर्ब्रह्मराक्षसयोनितः ।
इति पृष्टो गृहिण्याऽसौ ब्राह्मणः समभाषत

6.182.14

ब्रह्मविद्योपदेशेन विनाध्यात्मविचारणात् ।
विनाकर्मविधिज्ञानात्कथं मुच्येत संकटात्

6.182.15

भार्योवाच।
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
एतावदुक्ते तत्पत्न्या यदाश्चर्यमभूच्छृणु

6.182.16

अष्टमाध्यायश्लोकार्द्धश्रवणात्स तरुस्तदा ।
विहाय तालीरूपं तद्बभूव द्विजसत्तमः

6.182.17

सद्योज्ञानविधूतात्मा विमुक्तः पापकंचुकात् ।
तन्माहात्म्याद्विनिर्मुक्तौ दंपती तौ बभूवतुः

6.182.18

एतावदेव मुक्तं च दैवान्निर्गत्य तन्मुखात् ।
ततोंतरिक्षादायांतं क्वणत्किंकिणिकं शुभम्

6.182.19

दिवि दिव्यांगनावक्त्रचंद्रमंडलमंडितम् ।
अप्सरोवदनांभोज भ्राम्यद्भ्रमरसंकुलम्

6.182.20

निर्मथ्यमानदुग्धाब्धि वेलाडिंडिरपांडुरैः ।
गंगातरंगसुभगैश्चामरैरुपशोभितम्

6.182.21

गायद्गंधर्वसुभगं नृत्यत्सुरवधूशतम् ।
दिव्यं विमानमारूढौ दंपती जग्मतुर्दिवम्

6.182.22

अत्रत्यं वृत्तमखिलमेतद्विस्मयकारकम् ।
ततो लिलेख मेधावी श्लोकार्द्धमिदमादरात्

6.182.23

ययौ वाराणसीं नाम नगरीं मुक्तिदायिनीम् ।
आराधयितुमन्विच्छन्देवदेवं जनार्दनम्

6.182.24

स तत्र कर्तुमारेभे तपः परमुदारधीः ।
अत्रांतरे जगन्नाथो देवदेवो जनार्दनः

6.182.25

पृष्टो दुग्धाब्धिसुतया संयोज्य करसंपुटम् ।
निद्रापथं विहायैव स्थीयते कथ्यतामिति

6.182.26

श्रीभगवानुवाच।
काश्यां भागीरथी तीरे तपस्यतितरां द्विजः ।
भावशर्माति मेधावी मद्भक्तिरसपूरितः

6.182.27

जपन्गीताष्टमाध्यायश्लोकार्द्धं नियतेंद्रियः ।
संतुष्टवानहं देवि तदीयतपसा भृशम्

6.182.28

चिरं विचारयन्नेव तत्तपः सदृशं फलम् ।
दातुमुत्कंठितमना वर्तेयं सांप्रतं प्रिये

6.182.29

पार्वत्युवाच।
हरिः प्रसन्नभूतोऽपि चिंतां प्राप यदि प्रभो ।
भावशर्मा हरेर्भक्तः प्राप्तः किं तत्फलं पुनः

6.182.30

श्रीमहादेव उवाच।
ततः प्रसादमासाद्य प्रसन्नस्य मुरद्विषः ।
सुखमात्यंतिकं प्राप भावशर्मा द्विजोत्तमः ।
लेभिरे पदवीं सर्वे तदीया अपि वंशजाः

6.182.31

तत्कर्मवशतो ये वै संप्राप्ता यातनां पुरा ।
एतदेवाष्टमाध्यायमाहात्म्यं किंचिदेव ते

6.182.32

कथितं मृगशावाक्षि द्रष्टव्यं तु सदैव च

6.182.182

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सा० उत्तरखंडे गीतामाहात्म्ये द्व्यशीत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc