पद्म पुराण · अध्याय 6.183
श्रीमहादेव उवाच।
अतः परं प्रवक्ष्यामि नवमाध्यायमादरात् ।
संशृणुष्व स्थिरीभूय तुहिनाचल कन्यके
अस्ति माहिष्मतीनाम नगरी नर्मदातटे ।
तत्रासीन्माधवो नाम द्विजन्मा स शिवो द्विजः
वेदवेदांगतत्वज्ञः कालेकालेऽतिथिप्रियः ।
अर्जयित्वा बहुधनं विद्ययैव विशुद्धधीः
महांतमध्वरं कर्तुं समारेभे कदाचन ।
आलंभनार्थमानीतश्छागः पूजितविग्रहः
वाचमूचे हसन्नुच्चैर्जगद्विस्मयकारकः ।
किमेतैर्बहुभिर्यागैर्विधिवद्विहितैरपि
विनश्वरफलैर्जन्म जरामरणहेतुभिः ।
एतावत्यपि मे विप्र दशेयं दृश्यतामिति
छागस्यैवं वचोतीव कुतूहलपरं जनाः ।
निशम्य विस्मयं याताः कृतमंडपवासिनः
ततो बद्धांजलिपुटो द्विजातिस्तिमितेक्षणः ।
प्रणम्य श्रद्दधानस्तमपृच्छच्छागमादरात्
द्विज उवाच।
किं जातीयः किमात्मा त्वं किं वृत्तमिति मे वद ।
केन वा कर्मणा वासीच्छागत्वमिति कारणम्
छाग उवाच।
आसं पुरा द्विजातीनामन्वये चातिनिर्मले ।
आहर्ता क्रतुसंघानां वेदविद्याविशारदः
एकदा मम गेहिन्या पुत्ररोगप्रशांतये ।
छागः प्रयाचितो मत्तः चंडिकाभक्तिनम्रया
ततो निहन्यमानस्य चंडिकामंडपस्थले ।
छागस्य जननी मां तु शशाप ब्रह्मवादिनी
अशास्त्रीयाध्वना पाप मत्सुतं यज्जिघांससि ।
द्विजात्यधमतेन त्वमजा योनिमवाप्स्यसि
ततोऽहं प्रेत्यकालेन छागोऽभूवं द्विजोत्तम ।
निस्तीर्य चानेकविधा योनिसंतापयातनाः
विप्र उवाच।
जातिस्मरत्वमप्यस्ति पशुयोनिमुपेयुषः ।
त्वदीयजन्मशुश्रूषा कुतूहलरसोन्मुखम्
छाग उवाच।
मनः सर्वान्द्विजानेतानपि तत्कथयाखिलम् ।
कदाचिन्मर्कटो भूवमाहितुंडिकशिक्षया
क्रीडद्भिर्वीक्षितो डिंभैर्नृत्यन्प्रतिगृहांगणे ।
उदारानात्मनो दारान्विलोक्य तनयानपि
क्रियापराङ्मुखो जातस्त्यक्तनर्तनसंभ्रमः ।
ततो वर्तुलदंडैश्च दुःसहैराहितुंडिकः
मामुच्चैस्ताडयांचक्रे रुषा लोहितलोचनः ।
ततोऽहं मूर्च्छितोऽभूवं क्षरत्क्षतजसंततिः
आजिघ्रन्नन्नमुदकमगमं कालधर्मताम् ।
ततोऽहमासीच्छुनकः परिभ्राम्यन्गृहे गृहे
कुक्षिं भरिरहं मार्गे त्यक्तोच्छिष्टान्नभक्षकः ।
कदाचिदाविशं स्वांतरात्मवेश्ममहानसम्
बुभुक्षितो भक्षयितुं स्थाली स्थापितमोदनम् ।
जिघ्रन्भूमितलं पश्यन्दिशो दश शनैर्भयात्
शंकमानो जनरवात्पार्श्वे च विलिहन्निव ।
ततः कदाचिदागत्य वीक्षितस्तनुजैर्निजैः
जायया च जरत्याहं ताडितो लकुटादिभिः ।
ततो भग्नकटिर्यातो बहुशोणितमुद्वहन्
निर्जगाम बहिर्गेहात्कथंचिन्मूर्च्छयाकुलः ।
अंगेषु पूतिगंधेषु क्रिमिगर्भेषु कालतः
ततः कदश्वतां प्राप्तः शौंडिकस्य च वेश्मनि ।
अश्वोभवमहं विद्वन्मृतः कालक्रमादिह
कदाचिच्चत्वरे तेन समानीतो जनाकुले ।
विक्रयाय जरालीढ पतयालुरदावलि
जायया द्वारकायात्रां कर्तुमुद्यतयासकृत् ।
मौल्येनाल्पीयसा क्रेतुं तुरंगं चेष्टमानया
जगृहेहं तया दाम्ना अल्पेन वसुना जरन् ।
गंतुं चारभतद्वित्रैः पुत्रैरारुह्य मां समम्
शनैः शनै सरस्तीरे मग्नोऽहं गाढकर्दमे ।
तत्राहं कुटिलग्रीवश्चापतन्कर्दमान्तरे
ताड्यमानो मुहुः पुत्रैः लकुटोपलपाणिभिः ।
उत्थाप्यमानो बहुधा प्राणान्मोचितवानहम्
ततो निश्चित्य मां तत्र मृतं भग्नोद्यमाः सुताः ।
आक्रुश्य मातरं दीनां प्रावृत्य निर्ययुर्गृहम्
ततः संप्रेत्य बहुना कालेन छागतां गतः ।
निस्तीर्णानेकहीनोच्च योनिसंतापयातनः
द्विज उवाच।
किमनेन महाछाग दुःखजातेन नित्यशः ।
यथावदंजसा मह्यं सुखमात्यंतिकं भवेत्
छाग उवाच।
आश्चर्यं कथयिष्यामि पुनरन्यदपि द्विज ।
स्वस्थमापृच्छमानस्य तवास्ति यदि कौतुकम्
अस्ति नाम्ना कुरुक्षेत्रं नगरं मोक्षदायकम् ।
सूर्यवंशोऽभवत्तत्र चंद्रशर्मा महीपतिः
सूर्योपरागसमये श्रद्धया परयान्वितः ।
दानं स कालपुरुषं दातुं समुपचक्रमे
समाहूय द्विजन्मानं वेदवेदांगपारगम् ।
स्नातुं पुण्योदकैः पुण्यैर्ययौ सार्द्धं पुरोधसा
अथोच्चैः कालपुरुषो वाचमूचे हसन्निव ।
अन्येनैव प्रगृह्णंति क्षेत्रे चाण्वपि किंचन
सूर्योपरागसमये कुरुक्षेत्राभिधे स्थले ।
दानं च कालपुरुषं जिघृक्षसि कथं द्विज
ज्ञात्वापि निश्चितं सर्वमेतत्पातककारकम् ।
प्रवर्तसे कथं कर्तुं धनलोभान्धया धिया
इत्थमाकर्ण्य तद्वाक्यं जगद्विस्मयकारकम् ।
किमनेन महादानभयेनेत्यवदद्द्विजः
एवंविध महादान पातकागाधवारिधिम् ।
जानामि तरितुं सम्यगुपायमहमेव हि
ततः स्नात्वा महीपालः परिधाय च वाससी ।
शुचिः प्रसन्नहृदयः सितमाल्यानुलेपनः
अवलंब्य करांभोजं पार्श्ववर्तिपुरोधसः ।
समाययौ सेव्यमानः स तत्कालोचितैर्जनैः
समागत्य च भूपालः संप्रादात्कालपूरुषम् ।
यथोचितेन विधिना तस्मै भक्त्या द्विजन्मने
निर्भिद्य कालपुरुषहृदयं निर्दयोदयः ।
पापात्मा निर्ययौ कश्चिच्चांडालो रक्तलोचनः
किंच प्रापितकालस्य परनिंदारसोत्सवे ।
निंदा चांडालिका देहपार्श्वमागाद्द्विजन्मनः
एतच्चांडालयुगलं निर्गत्यारुणलोचनम् ।
ततः संचरितं चक्रे प्रसह्यांगे द्विजन्मनः
गीतानां नवमाध्यायं जपन्नेव हृदिस्थितः ।
कंपमानं द्विजं किंचित्तूष्णीं पश्यति भूपतौ
अंतर्निद्राणगोविंदं कंपमानमिवांबुधिम् ।
मरुदांदोलनैर्विद्वान्द्विजन्मा पापसंश्रयम्
ततो गीताक्षरोद्भूतैर्वैष्णवैः परिपीडितम् ।
पलायमानं चांडालयुगलं निष्फलोद्यमम्
तन्निश्चक्राम वेगेन द्विजातेः पार्श्ववर्ति यत् ।
शरीरे वर्त्तमानं च परनिंदारसोत्सवे
इत्थं कलितवृत्तांतः प्रत्यक्षं क्षितिवल्लभः ।
पर्यपृच्छद्द्विजन्मानं विस्मयस्मेरलोचनः
कथमापदियं घोरा निस्तीर्णा महती त्वया ।
कं मंत्रं जपता विप्र कं वासं स्मरतासुरम्
कः पुमान्का च सा योषित्कथमेतावुपस्थितौ ।
कथं च शांतिमापन्नावित्युदीरय मे द्विज
द्विज उवाच।
चांडालमूर्तिमासाद्य मूर्तिकिल्बिषमुल्बणम् ।
योषिन्मूर्त्तिमयीं निंदाद्वयमेतदवैम्यहम्
गीताया नवमाध्यायमंत्रमाला मया स्मृता ।
तन्माहात्म्यमिदं सर्वं त्वमवेहि महीपते
गीताया नवमाध्यायं जपामि प्रत्यहं नृप ।
निस्तीर्णाश्चापदस्तेन कुप्रतिग्रहसंभवाः
अभ्यस्य नवामाध्यायं राजा तस्माद्द्विजन्मनः ।
तावुभावपि लेभाते परां निर्वृतिमुत्तमाम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये त्र्यशीत्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0