भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.174

6.174.1

महादेव उवाच।
शृणु देवि प्रवक्ष्यामि व्रतं त्रैलोक्यदुर्लभम् ।
यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादिपातकात्

6.174.2

उत्पतिः स्वप्रकाशस्य भक्तानां सुखहेतवे ।
तिथिर्वापि समासो वै संजातः पुण्यकारकः

6.174.3

यस्य नाम गृणन्देवि मुक्तिं लभति शाश्वतीम् ।
स एव परमात्मा च कारणानां च कारणम्

6.174.4

विश्वात्मा विश्वरूपी च सर्वेषां भगवान्प्रभुः ।
द्वादशार्का धृता येन नृसिंहेन महात्मना ।
स एव प्रकटीजातो भक्तानां शमभीप्सया

6.174.5

पार्वत्युवाच।
अवतारा ह्यसंख्याताः कथिताः सुरसत्तम ।
नृसिंहाख्यं परं धाम वद विश्वेश्वर प्रभो ।
येन विज्ञानमात्रेण सुख लोकमवाप्नुयात्

6.174.6

महादेव उवाच।
हिरण्यकशिपुं हत्वा देवदेवं जगद्गुरुम् ।
सुखासीनं तदुत्संगे स्थितो वचनमब्रवीत्

6.174.7

प्रह्लादो ज्ञानिनां श्रेष्ठः पितॄहंतारमुत्तमम्

6.174.8

प्रह्लाद उवाच।
नमस्ते भगवन्विष्णो नृसिंहाद्भुतरूपिणे ।
त्वद्भक्तोहं सुरश्रेष्ठ त्वां पृच्छामि च तत्वतः

6.174.9

स्वामिंस्त्वयि ममाभिन्ना भक्तिर्जाता ह्यनेकधा ।
कथं तेऽहं प्रियो जातः कारणं वद मे प्रभो

6.174.10

नृसिंह उवाच।
कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः ।
भक्तेर्यत्कारणं वत्स प्रियत्वस्य च यत्पुनः

6.174.11

पुरा कस्य द्विजस्यापि जातस्त्वं नाप्यधीतवान् ।
नाम्ना तु वसुदेवो हि वेश्यायामति लंपटः

6.174.12

तस्मिन्जन्मनि नैवं च चकार सुकृतं कियत् ।
भुक्त्वा मधु घृतं चैव वेश्यासंगमलालसः

6.174.13

मद्व्रतस्य प्रभावेन भक्तिर्जाता तवानघ ।
प्रह्लादोवाच।
विस्तराद्वद देवेश कस्य पुत्रस्य किं व्रतम्

6.174.14

वेश्यायां वर्तमानेन कथंचिद्धि कृतं मया ।
ममोपरि कृपां कृत्वा सर्वं कथय सांप्रतम्

6.174.15

नृसिंह उवाच।
सृष्ट्यर्थं तु पुरा ब्रह्मा चक्रे ह्येतदनुत्तमम् ।
मद्व्रतस्य प्रभावेन निर्मितं सचराचरम्

6.174.16

ईश्वरेण व्रतं चीर्णं वधार्थं त्रिपुरस्यच ।
व्रतस्यास्यप्रभावेन त्रिपुरस्तु निपातितः

6.174.17

अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैः ।
राजभिश्च महाप्राज्ञैर्विहितं व्रतमुत्तमम्

6.174.18

व्रतस्यास्य प्रभावेन सर्वे सिद्धिमवाप्नुयुः ।
मम ते वै प्रिया जाता दिवि भोगाननेकशः

6.174.19

भुक्त्वा मयि विलीनास्तु प्रह्लाद त्वं विशस्व माम् ।
कार्यार्थमवतारस्ते मच्छरीरत्पृथग्यतः

6.174.20

न तेषां पुनरावृत्तिर्महाकल्पशतैरपि ।
दरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी

6.174.21

ततः कामी लभेत्कामं राज्यार्थी राज्यमुत्तमम् ।
आयुष्कामो लभेदायुर्यादृशं च शिवस्य हि

6.174.22

अवैधव्यकरं स्त्रीणां पुत्रदं भाग्यदं तथा ।
धनधान्यकरं चैव तथाशोकविनाशनम्

6.174.23

स्त्रियो वा पुरुषा वापि कुर्वंति व्रतमुत्तमम् ।
तेभ्यो ददाम्यहं सौख्यं भुक्ति मुक्ति फलं तथा

6.174.24

बहुनोक्तेन किं वत्स व्रतस्यास्य फलस्य हि ।
मद्व्रतस्य फलं वक्तुं नाहं शक्तो न शंकरः

6.174.25

प्रह्लाद उवाच।
भगवंस्त्वत्प्रसादेन श्रुतं व्रतमनुत्तमम् ।
व्रतस्यास्य फलं श्रोतुं त्वयि मे भक्ति कारणम्

6.174.26

अधुना श्रोतुमिच्छामि व्रतस्यास्य विधिं परम् ।
कस्मिन्मासे भवेदेव कस्मिंश्चिद्वासरे प्रभो

6.174.27

एतद्विस्तरतो देव वक्तुमर्हसि सांप्रतम् ।
विधिना येन वै स्वामिन्समग्रफलभाग्भवेत्

6.174.28

नृसिंह उवाच।
प्रह्लाद वत्स भद्रं ते शृणुष्वैकमना व्रतम् ।
वैशाखेसित पक्षे तु चतुर्दश्यां समाचरेत्

6.174.29

ममाविर्भावसंयुक्तं मम संतुष्टिकारणम् ।
शृणु पुत्र ममोत्पत्तिं भक्तानां सुखहेतवे

6.174.30

पश्चिमायां दिशायां च संजातं कारणांतरात् ।
मौलिस्तानमिदं क्षेत्रं पवित्रं पापनाशनम्

6.174.31

तस्मिन्क्षेत्रे तु विख्यातो ब्राह्मणो वेदपारगः ।
हारीत इति नाम्ना च ज्ञानध्यानपरायणः

6.174.32

तस्य स्त्री तु महापुण्या सतीरूपा सदा प्रभो ।
लीलावती तु नाम्ना च भर्तुर्वशपरा सदा

6.174.33

ताभ्यां तपो महत्तप्तं कालं बहुतरं सुत ।
एकविंशयुगाश्चैव यातास्तत्र न संशयः ।
तस्मिन्क्षेत्रे तु वै ताभ्यां प्रत्यक्षो वाभवत्तदा

6.174.34

नृसिंह उवाच।
यं यं वांछयसे ब्रह्मंस्तं ददामि न संशयः ।
ताभ्यामुक्तं तदा तस्मै दीयते चेद्वरो मम

6.174.35

त्वादृशो मम पुत्रस्तु ह्यधुनैव भवत्विति ।
मयोक्तं तु तदा वत्स पुत्रोऽहं ते न संशयः

6.174.36

विश्वकर्मा ह्यहं साक्षात्परमात्मा परात्परः ।
उदरेऽहं न वत्स्यामि यतोऽहं वै सनातनः

6.174.37

हारीतेन तदा चोक्तं भवत्वेवं न संशयः ।
तदाप्रभृति वै क्षेत्रे स्थितोऽहं भक्तकारणात्

6.174.38

अत्रागत्य प्रकुर्वीत दर्शनं भक्तसत्तमः ।
तस्याहं सकलां बाधां नाशयामि निरंतरम्

6.174.39

एतस्मात्कारणाच्चैव व्रतं वै विधिपूर्वकम् ।
ये कुर्वंति नरश्रेष्ठा न तेषां विद्यते भयम्

6.174.40

बालरूपमयं ध्यात्वा ताभ्यां सह विशेषतः ।
पूजनं कुरुते रात्रौ स वै नारायणो भवेत्

6.174.41

चतुर्भुजं महादंष्ट्रं कालरूपं दुरासदम् ।
सूर्यकोटिप्रतीकाशं यमकोटिदुरासदम् ।
सिंहवच्च मुखं यस्य नरवच्चांगसंयुतम्

6.174.42

श्रीनृसिंहं दिव्यसिंहं कालरूपं भजेत्सदा ।
एवं ज्ञात्वा विशेषेण यः स्थानं मामकं व्रजेत्

6.174.43

व्रतं पवित्रं परमं श्रीकदंब प्रदं महत् ।
अंते मुक्तिप्रदं चैव भक्तानां च न संशयः

6.174.44

येन वै क्रियमाणेन सहस्रद्वादशी फलम् ।
स्वाती नक्षत्र संयोगे शनिवारे तु मद्व्रतम्

6.174.45

सिद्धियोगस्य संयोगे वणिजे करणे तथा ।
योगैः सर्वैश्च संयोगं हत्याकोटि विनाशनम्

6.174.46

एतदन्यतरैर्योगे मद्दिनं पापनाशनम् ।
विज्ञाय मद्दिनं यस्तु लंघयेत्स तु पापकृत्

6.174.47

अकर्त्ता नरकं याति यावच्चंद्र दिवाकरौ ।
प्राप्ते मम दिने वत्स दंतधावनपूर्वकम्

6.174.48

ममाग्रे व्रतसंकल्पं मद्भक्तो विजितेंद्रियः ।
अद्याहं ते विधास्यामि व्रतं निर्विघ्नतां नय

6.174.49

व्रतस्थेन न कर्त्तव्यं दुष्टसंभाषणादिकम् ।
ततो मध्याह्नसमये नद्यादौ विमले जले

6.174.6.174.50

गृहे वा देवखाते वा तडागे वाथ शोभने ।
वैदिकेन तु मंत्रेण स्नानं कुर्याद्विचक्षणः

6.174.51

मृत्तिका गोमयेनैव तथा धात्रीफलेन च ।
तिलैश्च विधिवत्स्नायात्सर्वपापौघ शांतये

6.174.52

परिधाय शुभे वस्त्रे नित्यकर्म समारभेत् ।
ततो गृहं विलिप्याथ कुर्यादष्टदलं शुभम्

6.174.53

कलशं तत्र संस्थाप्य ताम्रंत्रसमन्वितम् ।
तस्योपरि न्यसेत्पात्रं तंडुलैः परिपूरितम्

6.174.54

हैमीं च तत्र मन्मूर्ति स्थाप्य लक्ष्म्या समन्विताम् ।
निर्माय शक्त्या स्वर्णेन स्नाप्य पंचामृतैस्ततः

6.174.55

ततो ब्राह्मणमाहूय आचार्यं नातिलोलुपम् ।
शास्त्रज्ञमग्रतः कृत्वा ततो देवं समर्चयेत्

6.174.56

मंडपं कारयेत्तत्र पुष्पस्तबक शोभितम् ।
ऋतुकालोद्भवैः पुष्पैः पूज्योऽहं च यथाविधि

6.174.57

उपचारैः षोडशभिर्मंत्रैर्नियमैश्च यः ।
ततः पौराणिकैर्मंत्रैः पूजनीयो विशेषतः

6.174.58

चंदनं च सकर्पूरं घनकुंकुममिश्रितम् ।
कालोद्भवानि पुष्पाणि तथा तुलसीदलानि च

6.174.59

श्रीनृसिंहाय यो दद्यात्स मुक्तो नात्र संशयः ।
कृष्णागुरुमयं धूपं सर्वदा हरिवल्लभम्

6.174.60

हरये गुरवे दद्यात्सर्वकामार्थसिद्धये ।
महादीपः प्रकर्त्तव्यो ह्यज्ञानध्वांत नाशनः ।
महानीराजनं कुर्याद्घंटानाद पुरःसरम्

6.174.61

नैवेद्यं शर्करां चापि भक्ष्यभौज्यसमन्वितम् ।
ददामि ते रमाकांत सर्वपापक्षयं कुरु

6.174.62

नैवेद्य मंत्र।
नृसिंहाच्युत देवेश तव जन्मदिने शुभे ।
उपवासं करिष्यामि सर्वभोगविवर्जितः

6.174.63

तेन प्रीतो भव स्वामिन्पापं जन्म निराकुरु ।
रात्रौ जागरणं कार्यं गीतवादित्र निःस्वनैः

6.174.64

पुराणपठनं नित्यं श्रीनृसिंकथाश्रयम् ।
ततः प्रभातसमये स्नानं कृत्वा ह्यनंतरम्

6.174.65

पूर्वोक्तेन विधानेन पूजयेन्मां प्रतर्पयन् ।
वैष्णवं कारयेच्छ्राद्धं मदग्रे स्वस्थमानसः

6.174.66

ततो दानानि देयानि वक्ष्यमाणानि यान्युत ।
पात्रेभ्यः स द्विजेभ्यो हि लोकद्वय जिगीषया

6.174.67

सहस्वर्णमयो देवो मम संतोषकारकः ।
गोभूतिलहिरण्यादि प्रददाति द्विजातये

6.174.68

शय्या सतूलिका देया सप्तधान्यसमन्विता ।
अन्यानि च यथाशक्त्या देयानि निजशक्तितः

6.174.69

वित्तशाठ्यं न कुर्वीत यथोक्तफलकांक्षया ।
ब्राह्मणान्भोजयेत्पश्चात्तेभ्यो दद्यात्सुदक्षिणाम्

6.174.70

निर्धनैरपि कर्त्तव्यं देयं शक्त्यनुसारतः ।
सर्वेषामेव वर्णानामधिकारोऽस्ति मद्व्रते ।
मद्भक्तैस्तु विशेषेण कर्त्तव्यं मत्परायणैः

6.174.71

ततः प्रार्थना मंत्रः ।
मद्वंशे येन राजा ता ये भविष्याश्च मानवाः ।
तानुद्धरस्व देवेश दुःखदाद्भवसागरात्

6.174.72

पातकार्णवमग्नस्य व्याधिभिश्चांबुचारिभिः ।
जीवैस्तु परिभूतस्य महादुःखगतस्य मे

6.174.73

करावलंबनं देहि शेषशायी जगत्पते ।
व्रतेनानेन देवेश भुक्तिमुक्तिप्रदो भव

6.174.74

एवं प्रार्थ्य ततो देवं विसृज्य च यथाविधि ।
उपहारादिकं सर्वे आचार्याय निवेदयेत्

6.174.75

दक्षिणाभिश्च संतोष्या ब्राह्मणांश्च विसर्जयेत् ।
मम ध्यान समायुक्तो भुंजीत सह बंधुभिः

6.174.76

अकिंचनोपि नियतमुपोष्यति चतुर्दशीम् ।
सप्त जन्म कृतात्पापान्मुच्यते नात्र संशयः

6.174.77

य इदं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम् ।
तस्य श्रवणमात्रेण ब्रह्महत्यां व्यपोहति

6.174.78

पवित्रं परमं गुह्यं कीर्तयेद्यस्तु मानवः ।
सर्वकामानवाप्नोति व्रतस्यास्य फलं सदा

6.174.79

य इदं कुरुते शक्त्या काले मध्याह्न संज्ञके ।
लीलावत्या सह ऋषिं श्रीनृसिंह प्रसादतः

6.174.80

पूजयेत्परया भक्त्या मुक्तिं प्राप्नोति शाश्वतीम् ।
तस्मिन्क्षेत्रे तु यो गत्वा श्रीनृसिंहं प्रपूजयेत्

6.174.81

वांच्छितं लभते नित्यं श्रीनृसिंह प्रसादतः ।
श्रीनृसिंह महद्रूप कालकोटिदुरासद

6.174.82

भैरवेश हरार्तिघ्न बालरूप नमोस्तु ते ।
श्रीनृसिंहाय रूपाय बालाय बालरूपिणे

6.174.83

व्यापकाय सुनंदाय स्वात्मप्रकट रूपिणे ।
सर्वजीवात्मकायैव विश्वेशाय स्वरात्मने

6.174.84

मार्तंड मंडलस्थाय दयासिंधो नमोस्तु ते ।
चतुर्विंशस्वरूपाय कालरुद्राग्निरूपिणे

6.174.85

जगदेकस्वरूपाय नृसिंहाय नमोस्तु ते ।
भाले दधार यो देवो नृसिंहो वीरभद्र जित्

6.174.86

द्वादशादित्यबिंबानि सुतप्तानि प्रमाणतः ।
तत्र सिंधु महापुण्या नदी रम्या विशेषतः

6.174.87

तस्याः समीपे नगरं वर्त्ततेऽद्यापि सुंदरि ।
मौलिस्तानेति विख्यातं सर्वदा देवनिर्मितम्

6.174.88

वसतिर्वर्त्तते तत्र हारीतस्य महात्मनः ।
लीलावती तु तत्रैव तिष्ठते नात्र संशयः

6.174.89

प्रतिशब्दो भवेत्तत्र सिंधुनद्याः समीपतः ।
कलौ युगे तु संप्राप्ते म्लेच्छा वै पापचारिणः

6.174.90

निवसंति तु तत्रैव बहवो नात्र संशयः ।
नृसिंहजन्मनि यथा शब्दोऽभूदद्भुतः परः

6.174.91

नृसिंहेति नृसिंहेति य उच्चैर्नदते नरः ।
तादृशः प्रतिशब्दो वै जायते नगनंदिनि

6.174.92

ब्रह्महा हेमहारी वा सुरापो गुरुतल्पगः ।
सिंधौ गत्वा विशेषेण स्नानं कुर्वंति ये जनाः

6.174.93

मुच्यते नात्र संदेहः श्रीनृसिंह प्रसादतः ।
दशारात्रिप्रमाणेन मानवा ये वसंति हि

6.174.94

ते ज्ञेयाः पुण्यकर्माणो नासत्यं मामकं वचः ।
निवसंति कलौ तत्र वर्णा ये द्विजपूर्वकाः

6.174.95

म्लेच्छवत्तेऽपि विज्ञेया वेदबाह्याः सुरोत्तमैः ।
मांसं खादंति ते तत्र मद्यपानं पपुः सदा

6.174.96

अतो ह्यधर्मरूपास्ते पापिष्ठा नात्र संशयः ।
संध्याहीना यथा विप्रा वेदबाह्यास्तथैव च

6.174.97

निवसंति पुरे तस्मिन्पश्चिमायां सुरेश्वरि ।
एकमेव परं तीर्थं नृसिंहाख्यं सुविस्तरम् ।
यं श्रुत्वा मुच्यते पापान्नरः सद्यो न संशयः

6.174.174

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे नृसिंहोत्पत्तिर्नाम चतुःसप्तत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc