भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.173

6.173.1

महादेव उवाच।
दुर्गया संगता यत्र देवि साभ्रमती नदी ।
संगमः सागरेणाथ स्नानं तत्र समाचरेत्

6.173.2

वीतदोषा भविष्यंति कलौ वै नात्र संशयः ।
तत्र श्राद्धं प्रकर्त्तव्यं दुर्गया संगमे तथा

6.173.3

तत्र गत्वा विशेषेण ब्राह्मणानां च भोजनम् ।
दानं गोमहिषीणां च कर्तव्यं विधिपूर्वकम्

6.173.4

इयं धन्या धन्यतमा पवित्रा पापनाशिनी ।
यां दृष्ट्वा चापि भो देवि मुच्यते पातकैर्नरः

6.173.5

यथा गंगा तथा चेयं ज्ञेया साभ्रमती नदी ।
कलौ देवि विशेषेण बहुकालफलप्रदा

6.173.6

यदि चेच्छतशो जिह्वा मुखे वै मामके सति ।
तस्या अपि न शक्नोमि गुणान्वक्तुं कदाचन

6.173.173

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे साभ्रमतीमाहात्म्यंनाम त्रिसप्तत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc