भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.172

6.172.1

महादेव उवाच।
तस्मात्तीर्थात्परं तीर्थं नीलकंठेति विश्रुतम् ।
तस्य वै दर्शनं कार्यं मुक्तिं चैवेच्छता सदा

6.172.2

बिल्वपत्रैस्तथा धूपैर्दीपैर्वाथ सुरेश्वरि ।
वांछितं लभते मर्त्यो नीलकंठस्य दर्शनात्

6.172.3

उपवासपरो देवि निर्जनेसौ स्थितः सदा ।
यद्यद्वांच्छंति ये लोकास्तेषां तत्तद्ददाति च

6.172.4

कलौ सा तु महादेवि विख्याता काश्यपीति वै

6.172.172

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर।
खंडे नीलकंठमाहात्म्यंनाम द्विसप्तत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc