पद्म पुराण · अध्याय 6.166
महादेव उवाच।
वैद्यनाथात्परं तीर्थं सर्वसिद्धिप्रदायकम् ।
तीर्थानामुत्तमं तीर्थं देवतीर्थमनुश्रुतम्
विभीषणाद्राक्षसेंद्राद्गृहीत्वा करमोजसा ।
प्रारब्धो धर्मपुत्रेण राजसूयो महाक्रतुः
दिग्जये दक्षिणे जाते नकुलेन हि पांडुना ।
साभ्रमत्यास्तटे देवि पांडुरार्येति विश्रुता
स्थापिता परया भक्त्या भुक्तिमुक्तिप्रदायिनी ।
स्नातः साभ्रमतीतोये पांडुरार्यां नमस्य च
अणिमाद्या सिद्धयोऽष्टौ तथा मेधां महीयसीम् ।
नरः प्राप्नोति वै नूनं नात्र कार्या विचारणा
पांडुरार्यां नमस्कृत्य शुद्धभावेन मानवः ।
संवत्सरकृता पूजा दातव्या तत्त्वबुद्धिभिः
तत्र तीर्थे तनुं त्यक्त्वा पांडुरार्यासमीपतः ।
कैलासशिखरं प्राप्य चंडेश्वरगणो भवेत्
पुरा हनूमता तत्र तपस्तप्तं सुदुष्करम् ।
समुद्रप्लवने शक्तिर्जाता तीर्थप्रभावतः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे पांडुरार्यातीर्थंनाम षट्षष्ट्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0