पद्म पुराण · अध्याय 6.167
अत्र तीर्थात्परं तीर्थं चंडेश इति विश्रुतम् ।
यत्र चंडेश्वरो देवो नित्यं तिष्ठति भूतिदः
यं दृष्ट्वा मुच्यते पापादज्ञानादथवा कृतात् ।
सर्वाभिर्देवताभिश्च मिलित्वा नगरं कृतम् ।
चंडेश इति विख्यातं नाम्ना चैव महेश्वरि
इति चंडेशतीर्थम् ।
अत्र तीर्थात्परं तीर्थं गाणपत्यं ततो भुवि ।
साभ्रमत्यां समीपे तु विख्यातं देवि निर्मितम्
तत्र स्नात्वा नरो देवि मुच्यते नात्र संशयः ।
मन्ये साभ्रमती तीरे जनानां हितकाम्यया
पृथिव्यां यानि तीर्थानि सागरांतानि यानि च ।
तानि सर्वाणि संत्यज्य तीर्थे वै परमाद्भुते
श्राद्धं करोति यस्तत्र रुद्रभक्त्या जितेंद्रियः ।
फलं प्राप्नोति शुद्धात्मा सर्वयज्ञसमुद्भवम्
पितॄनुदिश्य यत्किंचिद्गणतीर्थे प्रदीयते ।
तत्सर्वं जायते क्षिप्रं गणनाथप्रसादतः
तस्मिंस्तीर्थे नरः स्नात्वा वृषं विप्राय दापयेत् ।
सर्वलोकानतिक्रम्य स गच्छेत्परमां गतिम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गणतीर्थंनाम सप्तषष्ट्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0