पद्म पुराण · अध्याय 6.160
महादेव उवाच।
अस्मात्तीर्थात्परं तीर्थं तीर्थराजेति विश्रुतम् ।
सप्तनद्यो वहंत्यत्र चंदनोदकमिश्रितम्
अन्यतीर्थाच्छतगुणं स्नानं चात्र विशिष्यते ।
देवानां प्रवरो देवो यत्रास्ते वामनः स्वयम्
द्वादश्यां माघमासस्य दद्याद्यस्तिलधेनुकम् ।
विमुक्तः सर्वपापेभ्यः कुलानां तारयेच्छतम्
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदंति
तीर्थेऽस्मिन्भोजयेद्यो वै ब्राह्मणान्गुडपायसैः ।
एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे वामनतीर्थं नाम षष्ट्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0