भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.159

6.159.1

महादेव उवाच।
तस्माद्दूरतरे देवि सिद्धक्षेत्रमनुत्तमम् ।
अनिरुद्धो वृतः पूर्वं उषार्थे चित्रलेखया

6.159.2

नीतो बाणासुरपुरं तिष्ठति स्म गृहे पुरा ।
पाशैर्बाणैश्च संरुद्धः कोटराक्षीमथास्मरत्

6.159.3

साक्षाद्या वैष्णवी शक्तिः सदा रक्षण तत्परा ।
सेयं देवी नदीतीरे कृष्णेनात्र प्रतिष्ठिता

6.159.4

जित्वा बाणासुरं संख्ये द्वारकां प्रतिगच्छता ।
अनिरुद्धस्य स्तोत्रेण साक्षात्सांनिध्यमागता

6.159.5

तत्र तीर्थे नरः स्नात्वा वर्षमेकं प्रयत्नतः ।
कोटराक्षीमुखं दृष्ट्वा लक्ष्मीमाप्नोति पुष्कलाम्

6.159.6

सिद्धतीर्थे नरः स्नात्वा दृष्ट्वा कोटरवासिनीम् ।
सिंहयुक्तेन यानेन रुद्रलोके महीयते

6.159.7

यस्यां वै स्मरणादेव मुक्तः सोऽपि वरानने ।
अतोयेऽत्र प्रगच्छंति ते नरा मुक्तिभागिनः

6.159.8

तत्र गत्वा विशेषेण स्नानं कृत्वा तु पार्वति ।
कोटराक्ष्यास्ततः स्तोत्रं पठेद्वै बुद्धिपूर्वकम्

6.159.9

कोटराक्षी विश्वरूपा महामाया बलाधिका ।
त्रिपुरा त्रिपुरघ्नी च शिवा वै शिवरूपिणी

6.159.10

कन्या सारस्वती प्रोक्ता दुर्गा दुर्गतिहारिणी ।
भैरवी भैरवाक्षी च लक्ष्मी देवी जनप्रिया

6.159.11

एतानि बहुधोक्तानि नामानि च सुरेश्वरि ।
ये पठंति नरश्रेष्ठास्ते यांति शिवसन्निधौ

6.159.12

अनिरुद्धकृतं स्तोत्रं ये जपंति मनीषिणः ।
मुच्यंते कष्टबंधात्ते सत्यंसत्यं वरानने

6.159.13

तीर्थानां परमं तीर्थं कोटरानिर्मितं भुवि ।
दर्शनादेव नश्यंति पापानां राशयस्तथा

6.159.159

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे कोटरातीर्थं नामैकोनषष्ट्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc